जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।
त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्
janakena samādiṣṭā dūtāste klāntavāhanāḥ |
trirātramuṣitā mārge te'yodhyāṃ prāviśan purīm
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टषष्ठितमः सर्गः ॥१-६८॥
19 श्लोक · 68 में से 77
थके घोड़ों वाले दूत मार्ग में तीन रात रुककर अयोध्या पहुँचते हैं। वृद्ध दशरथ के सामने लाए जाने पर वे प्रणाम करके मधुर वाणी में जनक का सन्देश देते हैं। जनक राजा का कुशल पूछते हैं और कहते हैं: मेरी पुत्री पराक्रम का मूल्य है, यह प्रतिज्ञा सबको ज्ञात थी; अनेक राजा आकर हार गए। विश्वामित्र के साथ आए आपके पुत्र राम ने विशाल सभा के सामने महाधनुष बीच से तोड़ दिया। मैं सीता उन्हें देकर अपना प्रण पूरा करना चाहता हूँ, अनुमति दीजिए। पुरोहितों के साथ शीघ्र आइए, दोनों पुत्रों से भी मिलेंगे। अत्यन्त प्रसन्न दशरथ वसिष्ठ, वामदेव और मन्त्रियों की ओर देखते हैं। वे प्रसन्नता से सहमत होते हैं, और राजा घोषणा करते हैं कि कल प्रस्थान होगा।
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः ।
त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम्
janakena samādiṣṭā dūtāste klāntavāhanāḥ |
trirātramuṣitā mārge te'yodhyāṃ prāviśan purīm
ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः ।
ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्
te rājavacanād gatvā rājaveśma praveśitāḥ |
dadṛśurdevasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः ।
राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम्
baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ |
rājānaṃ praśritaṃ vākyamabruvan madhurākṣaram
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः ।
मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा
maithilo janako rājā sāgnihotrapuraskṛtaḥ |
muhurmuhurmadhurayā snehasaṃraktayā girā
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ।
जनकस्त्वां महाराज पृच्छते सपुरःसरम्
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam |
janakastvāṃ mahārāja pṛcchate sapuraḥsaram
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः ।
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्
pṛṣṭvā kuśalamavyagraṃ vaideho mithilādhipaḥ |
kauśikānumate vākyaṃ bhavantamidamabravīt
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा ।
राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः
pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā |
rājānaśca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः ।
यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः
seyaṃ mama sutā rājan viśvāmitrapuraskṛtaiḥ |
yadṛcchayāgatai rājan nirjitā tava putrakaiḥ
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना ।
रामेण हि महाबाहो महत्यां जनसंसदि
tacca ratnaṃ dhanurdivyaṃ madhye bhagnaṃ mahātmanā |
rāmeṇa hi mahābāho mahatyāṃ janasaṃsadi
अस्मै देया मया सीता वीर्यशुल्का महात्मने ।
प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि
asmai deyā mayā sītā vīryaśulkā mahātmane |
pratijñāṃ tartumicchāmi tadanujñātumarhasi
सोपाध्यायो महाराज पुरोहितपुरस्कृतः ।
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ
sopādhyāyo mahārāja purohitapuraskṛtaḥ |
śīghramāgaccha bhadraṃ te draṣṭumarhasi rāghavau
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि ।
पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे
pratijñāṃ mama rājendra nirvartayitumarhasi |
putrayorubhayoreva prītiṃ tvamupalapsyase
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत् ।
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः
evaṃ videhādhipatirmadhuraṃ vākyamabravīt |
viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।
वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत्
dūtavākyaṃ tu tacchrutvā rājā paramaharṣitaḥ |
vasiṣṭhaṃ vāmadevaṃ ca mantriṇaścaivamabravīt
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः ।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ
guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ |
lakṣmaṇena saha bhrātrā videheṣu vasatyasau
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति
dṛṣṭavīryastu kākutstho janakena mahātmanā |
sampradānaṃ sutāyāstu rāghave kartumicchati
यदि वो रोचते वृत्तं जनकस्य महात्मनः ।
पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः
yadi vo rocate vṛttaṃ janakasya mahātmanaḥ |
purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।
सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः
mantriṇo bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ |
suprītaścābravīd rājā śvo yātreti ca mantriṇaḥ
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः ।
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः
mantriṇastu narendrasya rātriṃ paramasatkṛtāḥ |
ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)