बालकाण्ड

सर्ग 67: श्रीराम द्वारा शिव-धनुष भंग

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तषष्ठितमः सर्गः ॥१-६७॥

27 श्लोक · 67 में से 77

इस अध्याय में क्या होता है

श्रीराम द्वारा शिव-धनुष भंग

विश्वामित्र जनक से राम को धनुष दिखाने को कहते हैं। पाँच हज़ार पुरुष उसे आठ पहियों वाली लोहे की पेटी में खींचकर लाते हैं। जनक कहते हैं कि इस पर कोई देव या असुर प्रत्यंचा नहीं चढ़ा सका, मनुष्य की क्या बात। राम पेटी खोलकर कहते हैं: मैं इसे छूता हूँ और उठाने तथा चढ़ाने का प्रयत्न करता हूँ। हज़ारों की आँखों के सामने वे उसे खेल की तरह उठाते हैं, प्रत्यंचा चढ़ाते हैं और कान तक खींचते हैं। धनुष बीच से टूट जाता है, वज्रपात जैसे शब्द के साथ। विश्वामित्र, जनक और दोनों राजकुमारों के सिवा सब मूर्छित हो जाते हैं। जनक घोषणा करते हैं कि वीर्यशुल्का सीता राम की पत्नी होगी, और दशरथ को लाने के लिए शीघ्रगामी दूत अयोध्या भेजते हैं।

67.1

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः ।
धनुर्दर्शय रामाय इति होवाच पार्थिवम्

janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ |
dhanurdarśaya rāmāya iti hovāca pārthivam

67.2

ततः स राजा जनकः सचिवान् व्यादिदेश ह ।
धनुरानीयतां दिव्यं गन्धमाल्यानुलेपितम्

tataḥ sa rājā janakaḥ sacivān vyādideśa ha |
dhanurānīyatāṃ divyaṃ gandhamālyānulepitam

67.3

जनकेन समादिष्टाः सचिवाः प्राविशन् पुरम् ।
तद्धनुः पुरतः कृत्वा निर्जग्मुरमितौजसः

janakena samādiṣṭāḥ sacivāḥ prāviśan puram |
taddhanuḥ purataḥ kṛtvā nirjagmuramitaujasaḥ

67.4

नृणां शतानि पञ्चाशद् व्यायतानां महात्मनाम् ।
मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन

nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām |
mañjūṣāmaṣṭacakrāṃ tāṃ samūhuste kathaṃcana

67.5

तामादाय सुमञ्जूषामायसीं यत्र तद्धनुः ।
सुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः

tāmādāya sumañjūṣāmāyasīṃ yatra taddhanuḥ |
suropamaṃ te janakamūcurnṛpatimantriṇaḥ

67.6

इदं धनुर्वरं राजन् पूजितं सर्वराजभिः ।
मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि

idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ |
mithilādhipa rājendra darśanīyaṃ yadīcchasi

67.7

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत ।
विश्वामित्रं महात्मानं तावुभौ रामलक्ष्मणौ

teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalirabhāṣata |
viśvāmitraṃ mahātmānaṃ tāvubhau rāmalakṣmaṇau

67.8

इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम् ।
राजभिश्च महावीर्यैरशक्तैः पूरितं तदा

idaṃ dhanurvaraṃ brahmañjanakairabhipūjitam |
rājabhiśca mahāvīryairaśaktaiḥ pūritaṃ tadā

67.9

नैतत् सुरगणाः सर्वे सासुरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः

naitat suragaṇāḥ sarve sāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahoragāḥ

67.10

क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे ।
आरोपणे समायोगे वेपने तोलने तथा

kva gatirmānuṣāṇāṃ ca dhanuṣo'sya prapūraṇe |
āropaṇe samāyoge vepane tolane tathā

67.11

तदेतद् धनुषां श्रेष्ठमानीतं मुनिपुंगव ।
दर्शयैतन्महाभाग अनयो राजपुत्रयोः

tadetad dhanuṣāṃ śreṣṭhamānītaṃ munipuṃgava |
darśayaitanmahābhāga anayo rājaputrayoḥ

67.12

विश्वामित्रः सरामस्तु श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघवमब्रवीत्

viśvāmitraḥ sarāmastu śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt

67.13

महर्षेर्वचनाद् रामो यत्र तिष्ठति तद्धनुः ।
मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्

maharṣervacanād rāmo yatra tiṣṭhati taddhanuḥ |
mañjūṣāṃ tāmapāvṛtya dṛṣṭvā dhanurathābravīt

67.14

इदं धनुर्वरं दिव्यं संस्पृशामीह पाणिना ।
यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा

idaṃ dhanurvaraṃ divyaṃ saṃspṛśāmīha pāṇinā |
yatnavāṃśca bhaviṣyāmi tolane pūraṇe'pi vā

67.15

बाढमित्यब्रवीद् राजा मुनिश्च समभाषत ।
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः

bāḍhamityabravīd rājā muniśca samabhāṣata |
līlayā sa dhanurmadhye jagrāha vacanānmuneḥ

67.16

पश्यतां नृसहस्राणां बहूनां रघुनन्दनः ।
आरोपयत् स धर्मात्मा सलीलमिव तद्धनुः

paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ |
āropayat sa dharmātmā salīlamiva taddhanuḥ

67.17

आरोपयित्वा मौर्वीं च पूरयामास तद्धनुः ।
तद् बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः

āropayitvā maurvīṃ ca pūrayāmāsa taddhanuḥ |
tad babhañja dhanurmadhye naraśreṣṭho mahāyaśāḥ

67.18

तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः ।
भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः

tasya śabdo mahānāsīnnirghātasamaniḥsvanaḥ |
bhūmikampaśca sumahān parvatasyeva dīryataḥ

67.19

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः ।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ

nipetuśca narāḥ sarve tena śabdena mohitāḥ |
varjayitvā munivaraṃ rājānaṃ tau ca rāghavau

67.20

प्रत्याश्वस्ते जने तस्मिन् राजा विगतसाध्वसः ।
उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्

pratyāśvaste jane tasmin rājā vigatasādhvasaḥ |
uvāca prāñjalirvākyaṃ vākyajño munipuṃgavam

67.21

भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः ।
अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया

bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ |
atyadbhutamacintyaṃ ca atarkitamidaṃ mayā

67.22

जनकानां कुले कीर्तिमाहरिष्यति मे सुता ।
सीता भर्तारमासाद्य रामं दशरथात्मजम्

janakānāṃ kule kīrtimāhariṣyati me sutā |
sītā bhartāramāsādya rāmaṃ daśarathātmajam

67.23

मम सत्या प्रतिज्ञा सा वीर्यशुल्केति कौशिक ।
सीता प्राणैर्बहुमता देया रामाय मे सुता

mama satyā pratijñā sā vīryaśulketi kauśika |
sītā prāṇairbahumatā deyā rāmāya me sutā

67.24

भवतोऽनुमते ब्रह्मन् शीघ्रं गच्छन्तु मन्त्रिणः ।
मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः

bhavato'numate brahman śīghraṃ gacchantu mantriṇaḥ |
mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ

67.25

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम ।
प्रदानं वीर्यशुल्कायाः कथयन्तु च सर्वशः

rājānaṃ praśritairvākyairānayantu puraṃ mama |
pradānaṃ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ

67.26

मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै ।
प्रीतियुक्तं तु राजानमानयन्तु सुशीघ्रगाः

muniguptau ca kākutsthau kathayantu nṛpāya vai |
prītiyuktaṃ tu rājānamānayantu suśīghragāḥ

67.27

कौशिकस्तु तथेत्याह राजा चाभाष्य मन्त्रिणः ।
अयोध्यां प्रेषयामास धर्मात्मा कृतशासनान् ।
यथावृत्तं समाख्यातुमानेतुं च नृपं तथा

kauśikastu tathetyāha rājā cābhāṣya mantriṇaḥ |
ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanān |
yathāvṛttaṃ samākhyātumānetuṃ ca nṛpaṃ tathā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)