बालकाण्ड

सर्ग 63: मेनका, और महर्षि की उपाधि

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥

26 श्लोक · 63 में से 77

इस अध्याय में क्या होता है

मेनका, और महर्षि की उपाधि

हज़ार वर्ष पूरे होने पर ब्रह्मा कहते हैं कि अब तुम ऋषि हो। फिर अप्सरा मेनका पुष्कर में स्नान करने आती है, और काम से मोहित मुनि उसे अपने आश्रम में रहने को कहते हैं। सुख से दस वर्ष बीत जाते हैं, तब उन्हें समझ आता है कि यह उनका तप भंग करने के लिए देवताओं की योजना थी। लज्जित होकर वे मेनका को स्नेह से विदा करते हैं और उत्तर में कौशिकी के तट पर जाकर फिर हज़ार वर्ष तप करते हैं। तब ब्रह्मा उन्हें महर्षि कहते हैं। विश्वामित्र पूछते हैं कि क्या मैंने इन्द्रियाँ जीत लीं। ब्रह्मा कहते हैं: अभी नहीं। तब वे भुजाएँ उठाए, ग्रीष्म में पंचाग्नि और शीत में जल में खड़े होकर तप करते हैं। चिन्तित इन्द्र अप्सरा रम्भा को बुलाते हैं।

63.1

पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम् ।
अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः

pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim |
abhyagacchan surāḥ sarve tapaḥ phalacikīrṣavaḥ

63.2

अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः ।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः

abravīt sumahātejā brahmā suruciraṃ vacaḥ |
ṛṣistvamasi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ

63.3

तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात् ।
विश्वामित्रो महातेजा भूयस्तेपे महत् तपः

tamevamuktvā deveśastridivaṃ punarabhyagāt |
viśvāmitro mahātejā bhūyastepe mahat tapaḥ

63.4

ततः कालेन महता मेनका परमाप्सराः ।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे

tataḥ kālena mahatā menakā paramāpsarāḥ |
puṣkareṣu naraśreṣṭha snātuṃ samupacakrame

63.5

तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा

tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ |
rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā

63.6

कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत् ।
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे

kandarpadarpavaśago munistāmidamabravīt |
apsaraḥ svāgataṃ te'stu vasa ceha mamāśrame

63.7

अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम् ।
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्

anugṛhṇīṣva bhadraṃ te madanena vimohitam |
ityuktā sā varārohā tatra vāsamathākarot

63.8

तपसो हि महाविघ्नो विश्वामित्रमुपागमत् ।
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव

tapaso hi mahāvighno viśvāmitramupāgamat |
tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava

63.9

विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः ।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः

viśvāmitrāśrame saumye sukhena vyaticakramuḥ |
atha kāle gate tasmin viśvāmitro mahāmuniḥ

63.10

सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः ।
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन

savrīḍa iva saṃvṛttaścintāśokaparāyaṇaḥ |
buddhirmuneḥ samutpannā sāmarṣā raghunandana

63.11

सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत् ।
अहोरात्रापदेशेन गताः संवत्सरा दश

sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat |
ahorātrāpadeśena gatāḥ saṃvatsarā daśa

63.12

काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः ।
स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः

kāmamohābhibhūtasya vighno'yaṃ pratyupasthitaḥ |
sa niḥśvasan munivaraḥ paścāttāpena duḥkhitaḥ

63.13

भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ।
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः

bhītāmapsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām |
menakāṃ madhurairvākyairvisṛjya kuśikātmajaḥ

63.14

उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ।
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः

uttaraṃ parvataṃ rāma viśvāmitro jagāma ha |
sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ

63.15

कौशिकीतीरमासाद्य तपस्तेपे दुरासदम् ।
तस्य वर्षसहस्राणि घोरं तप उपासतः

kauśikītīramāsādya tapastepe durāsadam |
tasya varṣasahasrāṇi ghoraṃ tapa upāsataḥ

63.16

उत्तरे पर्वते राम देवतानामभूद् भयम् ।
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः

uttare parvate rāma devatānāmabhūd bhayam |
āmantrayan samāgamya sarve sarṣigaṇāḥ surāḥ

63.17

महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः ।
देवतानां वचः श्रुत्वा सर्वलोकपितामहः

maharṣiśabdaṃ labhatāṃ sādhvayaṃ kuśikātmajaḥ |
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ

63.18

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम् ।
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः

abravīnmadhuraṃ vākyaṃ viśvāmitraṃ tapodhanam |
maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ

63.19

महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ।
ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः

mahattvamṛṣimukhyatvaṃ dadāmi tava kauśika |
brahmaṇastu vacaḥ śrutvā viśvāmitrastapodhanaḥ

63.20

प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ।
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः

prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham |
brahmarṣiśabdamatulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ

63.21

यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः ।
तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः

yadi me bhagavannāha tato'haṃ vijitendriyaḥ |
tamuvāca tato brahmā na tāvat tvaṃ jitendriyaḥ

63.22

यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः ।
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः

yatasva muniśārdūla ityuktvā tridivaṃ gataḥ |
viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ

63.23

ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन् ।
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः

ūrdhvabāhurnirālambo vāyubhakṣastapaścaran |
gharme pañcatapā bhūtvā varṣāsvākāśasaṃśrayaḥ

63.24

शिशिरे सलिलेशायी रात्र्यहानि तपोधनः ।
एवं वर्षसहस्रं हि तपो घोरमुपागमत्

śiśire salileśāyī rātryahāni tapodhanaḥ |
evaṃ varṣasahasraṃ hi tapo ghoramupāgamat

63.25

तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ ।
संतापः सुमहानासीत् सुराणां वासवस्य च

tasmin saṃtapyamāne tu viśvāmitre mahāmunau |
saṃtāpaḥ sumahānāsīt surāṇāṃ vāsavasya ca

63.26

रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः ।
उवाचात्महितं वाक्यमहितं कौशिकस्य च

rambhāmapsarasaṃ śakraḥ sarvaiḥ saha marudgaṇaiḥ |
uvācātmahitaṃ vākyamahitaṃ kauśikasya ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)