बालकाण्ड

सर्ग 64: रम्भा को शाप; विश्वामित्र क्रोध जीतते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥

20 श्लोक · 64 में से 77

इस अध्याय में क्या होता है

रम्भा को शाप; विश्वामित्र क्रोध जीतते हैं

इन्द्र रम्भा से विश्वामित्र को लुभाने को कहते हैं; यह देवकार्य है। रम्भा हाथ जोड़कर डरती है: मुनि भयंकर हैं, उनका क्रोध मुझ पर गिरेगा। इन्द्र आश्वस्त करते हैं कि मैं और कामदेव कोयल और वसन्त की वायु बनकर तुम्हारे साथ रहेंगे। रम्भा मनोहर रूप धरकर मुनि को देखकर मुस्कुराती है, कोयल कूकती है। फिर वे समझ जाते हैं कि यह इन्द्र का काम है, और क्रोध में रम्भा को शाप देते हैं कि दस हज़ार वर्ष पत्थर बनी रहो, जब तक कोई महातपस्वी ब्राह्मण तुम्हारा उद्धार न करे। तुरन्त उन्हें पछतावा होता है कि क्रोध ने उनका तप खा लिया। वे प्रण करते हैं कि अब न क्रोध करेंगे, न बोलेंगे, ब्राह्मणत्व पाने तक साँस रोके रहेंगे और अन्न नहीं खाएँगे, और हज़ार वर्ष का व्रत आरम्भ करते हैं।

64.1

सुरकार्यमिदं रम्भे कर्तव्यं सुमहत् त्वया ।
लोभनं कौशिकस्येह काममोहसमन्वितम्

surakāryamidaṃ rambhe kartavyaṃ sumahat tvayā |
lobhanaṃ kauśikasyeha kāmamohasamanvitam

64.2

तथोक्ता साप्सरा राम सहस्राक्षेण धीमता ।
व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम्

tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā |
vrīḍitā prāñjalirvākyaṃ pratyuvāca sureśvaram

64.3

अयं सुरपते घोरो विश्वामित्रो महामुनिः ।
क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः

ayaṃ surapate ghoro viśvāmitro mahāmuniḥ |
krodhamutsrakṣyate ghoraṃ mayi deva na saṃśayaḥ

64.4

ततो हि मे भयं देव प्रसादं कर्तुुमर्हसि ।
एवमुक्तस्तया राम सभयं भीतया तदा

tato hi me bhayaṃ deva prasādaṃ kartuumarhasi |
evamuktastayā rāma sabhayaṃ bhītayā tadā

64.5

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ।
मा भैषी रम्भे भद्रं ते कुरुष्व मम शासनम्

tāmuvāca sahasrākṣo vepamānāṃ kṛtāñjalim |
mā bhaiṣī rambhe bhadraṃ te kuruṣva mama śāsanam

64.6

कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।
अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः

kokilo hṛdayagrāhī mādhave ruciradrume |
ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ

64.7

त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।
तमृषिं कौशिकं भद्रे भेदयस्व तपस्विनम्

tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram |
tamṛṣiṃ kauśikaṃ bhadre bhedayasva tapasvinam

64.8

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता

sā śrutvā vacanaṃ tasya kṛtvā rūpamanuttamam |
lobhayāmāsa lalitā viśvāmitraṃ śucismitā

64.9

कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।
सम्प्रहृष्टेन मनसा स चैनामन्ववैक्षत

kokilasya tu śuśrāva valgu vyāharataḥ svanam |
samprahṛṣṭena manasā sa caināmanvavaikṣata

64.10

अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।
दर्शनेन च रम्भाया मुनिः संदेहमागतः

atha tasya ca śabdena gītenāpratimena ca |
darśanena ca rambhāyā muniḥ saṃdehamāgataḥ

64.11

सहस्राक्षस्य तत्सर्वं विज्ञाय मुनिपुंगवः ।
रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः

sahasrākṣasya tatsarvaṃ vijñāya munipuṃgavaḥ |
rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ

64.12

यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे

yanmāṃ lobhayase rambhe kāmakrodhajayaiṣiṇam |
daśavarṣasahasrāṇi śailī sthāsyasi durbhage

64.13

ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः ।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्

brāhmaṇaḥ sumahātejāstapobalasamanvitaḥ |
uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām

64.14

एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।
अशक्नुवन् धारयितुं कोपं संतापमात्मनः

evamuktvā mahātejā viśvāmitro mahāmuniḥ |
aśaknuvan dhārayituṃ kopaṃ saṃtāpamātmanaḥ

64.15

तस्य शापेन महता रम्भा शैली तदाभवत् ।
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः

tasya śāpena mahatā rambhā śailī tadābhavat |
vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ

64.16

कोपेन च महातेजास्तपोऽपहरणे कृते ।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः

kopena ca mahātejāstapo'paharaṇe kṛte |
indriyairajitai rāma na lebhe śāntimātmanaḥ

64.17

बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते ।
नैवं क्रोधं गमिष्यामि न च वक्ष्ये कथंचन

babhūvāsya manaścintā tapo'paharaṇe kṛte |
naivaṃ krodhaṃ gamiṣyāmi na ca vakṣye kathaṃcana

64.18

अथवा नोच्छ्वसिष्यामि संवत्सरशतान्यपि ।
अहं हि शोषयिष्यामि आत्मानं विजितेन्द्रियः

athavā nocchvasiṣyāmi saṃvatsaraśatānyapi |
ahaṃ hi śoṣayiṣyāmi ātmānaṃ vijitendriyaḥ

64.19

तावद् यावद्धि मे प्राप्तं ब्राह्मण्यं तपसार्जितम् ।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं शाश्वतीः समाः

tāvad yāvaddhi me prāptaṃ brāhmaṇyaṃ tapasārjitam |
anucchvasannabhuñjānastiṣṭheyaṃ śāśvatīḥ samāḥ

64.20

नहि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ।
एवं वर्षसहस्रस्य दीक्षां स मुनिपुंगवः ।
चकाराप्रतिमां लोके प्रतिज्ञां रघुनन्दन

nahi me tapyamānasya kṣayaṃ yāsyanti mūrtayaḥ |
evaṃ varṣasahasrasya dīkṣāṃ sa munipuṃgavaḥ |
cakārāpratimāṃ loke pratijñāṃ raghunandana

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)