कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत
kāmadhenuṃ vasiṣṭho'pi yadā na tyajate muniḥ |
tadāsya śabalāṃ rāma viśvāmitro'nvakarṣata
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुःपञ्चाशः सर्गः ॥१-५४॥
23 श्लोक · 54 में से 77
वसिष्ठ के न देने पर विश्वामित्र शबला को बलपूर्वक ले जाने लगते हैं। रोती हुई शबला सैकड़ों सेवकों को झटककर दौड़ती हुई वसिष्ठ के चरणों में गिरती है और मेघ की तरह रोती है: आपने मुझे क्यों त्यागा? वसिष्ठ कहते हैं कि मैंने नहीं त्यागा; राजा बलवान है, पूरी अक्षौहिणी के साथ है, और मैं ब्राह्मण हूँ। शबला कहती है कि क्षत्रिय का बल ब्राह्मण से बड़ा नहीं, ब्राह्मण का बल दिव्य है। आज्ञा दीजिए, मैं इस राजा का घमण्ड चूर कर दूँगी। वसिष्ठ उसे सेना उत्पन्न करने को कहते हैं। उसके रँभाने से सैकड़ों पह्लव उत्पन्न होते हैं; विश्वामित्र उन्हें नष्ट कर देते हैं। फिर वह यवनों से मिले शकों को उत्पन्न करती है जो राजा की सेना को आग की तरह जला देते हैं।
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत
kāmadhenuṃ vasiṣṭho'pi yadā na tyajate muniḥ |
tadāsya śabalāṃ rāma viśvāmitro'nvakarṣata
नीयमाना तु शबला राम राज्ञा महात्मना ।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता
nīyamānā tu śabalā rāma rājñā mahātmanā |
duḥkhitā cintayāmāsa rudantī śokakarśitā
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना ।
याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता
parityaktā vasiṣṭhena kimahaṃ sumahātmanā |
yāhaṃ rājabhṛtairdīnā hriyeya bhṛśaduḥkhitā
किं मयापकृतं तस्य महर्षेर्भावितात्मनः ।
यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः
kiṃ mayāpakṛtaṃ tasya maharṣerbhāvitātmanaḥ |
yanmāmanāgasaṃ dṛṣṭvā bhaktāṃ tyajati dhārmikaḥ
इति संचिन्तयित्वा तु निःश्वस्य च पुनः पुनः ।
जगाम वेगेन तदा वसिष्ठं परमौजसम्
iti saṃcintayitvā tu niḥśvasya ca punaḥ punaḥ |
jagāma vegena tadā vasiṣṭhaṃ paramaujasam
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन ।
जगामानिलवेगेन पादमूलं महात्मनः
nirdhūya tāṃstadā bhṛtyān śataśaḥ śatrusūdana |
jagāmānilavegena pādamūlaṃ mahātmanaḥ
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।
वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना
śabalā sā rudantī ca krośantī cedamabravīt |
vasiṣṭhasyāgrataḥ sthitvā rudantī meghaniḥsvanā
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत ।
यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः
bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta |
yasmād rājabhaṭā māṃ hi nayante tvatsakāśataḥ
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत् ।
शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्
evamuktastu brahmarṣiridaṃ vacanamabravīt |
śokasaṃtaptahṛdayāṃ svasāramiva duḥkhitām
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ।
एष त्वां नयते राजा बलान्मत्तो महाबलः
na tvāṃ tyajāmi śabale nāpi me'pakṛtaṃ tvayā |
eṣa tvāṃ nayate rājā balānmatto mahābalaḥ
नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च
nahi tulyaṃ balaṃ mahyaṃ rājā tvadya viśeṣataḥ |
balī rājā kṣatriyaśca pṛthivyāḥ patireva ca
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला ।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः
iyamakṣauhiṇī pūrṇā gajavājirathākulā |
hastidhvajasamākīrṇā tenāsau balavattaraḥ
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम्
evamuktā vasiṣṭhena pratyuvāca vinītavat |
vacanaṃ vacanajñā sā brahmarṣimatulaprabham
न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः ।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम्
na balaṃ kṣatriyasyāhurbrāhmaṇā balavattarāḥ |
brahman brahmabalaṃ divyaṃ kṣātrācca balavattaram
अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः ।
विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्
aprameyaṃ balaṃ tubhyaṃ na tvayā balavattaraḥ |
viśvāmitro mahāvīryastejastava durāsadam
नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम् ।
तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः
niyuṅkṣva māṃ mahātejastvaṃ brahmabalasambhṛtām |
tasya darpaṃ balaṃ yatnaṃ nāśayāmi durātmanaḥ
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः ।
सृजस्वेति तदोवाच बलं परबलार्दनम्
ityuktastu tayā rāma vasiṣṭhastu mahāyaśāḥ |
sṛjasveti tadovāca balaṃ parabalārdanam
तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा ।
तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप
tasya tad vacanaṃ śrutvā surabhiḥ sāsṛjat tadā |
tasyā huṃbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ।
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ |
sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ
पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि ।
विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा
pahlavān nāśayāmāsa śastrairuccāvacairapi |
viśvāmitrārditān dṛṣṭvā pahlavān śataśastadā
भूय एवासृजद् घोरान् शकान् यवनमिश्रितान् ।
तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः
bhūya evāsṛjad ghorān śakān yavanamiśritān |
tairāsīt saṃvṛtā bhūmiḥ śakairyavanamiśritaiḥ
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः ।
तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः
prabhāvadbhirmahāvīryairhemakiṃjalkasaṃnibhaiḥ |
tīkṣṇāsipaṭṭiśadharairhemavarṇāmbarāvṛtaiḥ
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ।
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ।
तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः
nirdagdhaṃ tadbalaṃ sarvaṃ pradīptairiva pāvakaiḥ |
tato'strāṇi mahātejā viśvāmitro mumoca ha |
taiste yavanakāmbojā barbarāścākulīkṛtāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)