बालकाण्ड

सर्ग 53: विश्वामित्र शबला माँगते हैं, वसिष्ठ मना करते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिपञ्चाशः सर्गः ॥१-५३॥

25 श्लोक · 53 में से 77

इस अध्याय में क्या होता है

विश्वामित्र शबला माँगते हैं, वसिष्ठ मना करते हैं

शबला हर इच्छा पूरी करती है: गन्ना, मधु, लावा, उत्तम पेय, अन्न के पहाड़, मिठाइयाँ, दही और दूध। सारी सेना खाकर तृप्त होती है। तब विश्वामित्र वसिष्ठ से कहते हैं कि एक लाख गौओं के बदले शबला मुझे दीजिए; ऐसा रत्न राजा का होता है। वसिष्ठ मना करते हैं; न लाख, न करोड़ गौओं के बदले, न चाँदी के ढेरों के बदले। शबला उनकी वैसे ही है जैसे संयमी पुरुष की कीर्ति। उसी पर उनका हव्य और कव्य, उनका जीवन, अग्निहोत्र, दर्श और पौर्णमास, यज्ञ और नित्यकर्म टिके हैं। विश्वामित्र प्रस्ताव बढ़ाते हैं: सोने से सजे चौदह हज़ार हाथी, आठ सौ स्वर्ण रथ, ग्यारह हज़ार घोड़े, एक करोड़ गौएँ। वसिष्ठ कहते हैं: बहुत बात हो चुकी, मैं कामधेनु नहीं दूँगा।

53.1

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
विदधे कामधुक् कामान् यस्य यस्येप्सितं यथा

evamuktā vasiṣṭhena śabalā śatrusūdana |
vidadhe kāmadhuk kāmān yasya yasyepsitaṃ yathā

53.2

इक्षून् मधूंस्तथा लाजान् मैरेयांश्च वरासवान् ।
पानानि च महार्हाणि भक्ष्यांश्चोच्चावचानपि

ikṣūn madhūṃstathā lājān maireyāṃśca varāsavān |
pānāni ca mahārhāṇi bhakṣyāṃścoccāvacānapi

53.3

उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्यन्नानि सूपांश्च दधिकुल्यास्तथैव च

uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatopamāḥ |
mṛṣṭānyannāni sūpāṃśca dadhikulyāstathaiva ca

53.4

नानास्वादुरसानां च खाण्डवानां तथैव च ।
भोजनानि सुपूर्णानि गौडानि च सहस्रशः

nānāsvādurasānāṃ ca khāṇḍavānāṃ tathaiva ca |
bhojanāni supūrṇāni gauḍāni ca sahasraśaḥ

53.5

सर्वमासीत् सुसंतुष्टं हृष्टपुष्टजनायुतम् ।
विश्वामित्रबलं राम वसिष्ठेन सुतर्पितम्

sarvamāsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanāyutam |
viśvāmitrabalaṃ rāma vasiṣṭhena sutarpitam

53.6

विश्वामित्रो हि राजर्षिर्हृष्टपुष्टस्तदाभवत् ।
सान्तःपुरवरो राजा सब्राह्मणपुरोहितः

viśvāmitro hi rājarṣirhṛṣṭapuṣṭastadābhavat |
sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ

53.7

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठमिदमब्रवीत्

sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitastadā |
yuktaḥ paramaharṣeṇa vasiṣṭhamidamabravīt

53.8

पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद

pūjito'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ |
śrūyatāmabhidhāsyāmi vākyaṃ vākyaviśārada

53.9

गवां शतसहस्रेण दीयतां शबला मम ।
रत्नं हि भगवन्नेतद् रत्नहारी च पार्थिवः

gavāṃ śatasahasreṇa dīyatāṃ śabalā mama |
ratnaṃ hi bhagavannetad ratnahārī ca pārthivaḥ

53.10

तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।
एवमुक्तस्तु भगवान् वसिष्ठो मुनिपुंगवः

tasmānme śabalāṃ dehi mamaiṣā dharmato dvija |
evamuktastu bhagavān vasiṣṭho munipuṃgavaḥ

53.11

विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ।
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्

viśvāmitreṇa dharmātmā pratyuvāca mahīpatim |
nāhaṃ śatasahasreṇa nāpi koṭiśatairgavām

53.12

राजन् दास्यामि शबलां राशिभी रजतस्य वा ।
न परित्यागमर्हेयं मत्सकाशादरिंदम

rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā |
na parityāgamarheyaṃ matsakāśādariṃdama

53.13

शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा ।
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च

śāśvatī śabalā mahyaṃ kīrtirātmavato yathā |
asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca

53.14

आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च ।
स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा

āyattamagnihotraṃ ca balirhomastathaiva ca |
svāhākāravaṣaṭkārau vidyāśca vividhāstathā

53.15

आयत्तमत्र राजर्षे सर्वमेतन्न संशयः ।
सर्वस्वमेतत् सत्येन मम तुष्टिकरी तथा

āyattamatra rājarṣe sarvametanna saṃśayaḥ |
sarvasvametat satyena mama tuṣṭikarī tathā

53.16

कारणैर्बहुभी राजन् न दास्ये शबलां तव ।
वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत् तदा

kāraṇairbahubhī rājan na dāsye śabalāṃ tava |
vasiṣṭhenaivamuktastu viśvāmitro'bravīt tadā

53.17

संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः ।
हैरण्यकक्षग्रैवेयान् सुवर्णाङ्कुशभूषितान्

saṃrabdhataramatyarthaṃ vākyaṃ vākyaviśāradaḥ |
hairaṇyakakṣagraiveyān suvarṇāṅkuśabhūṣitān

53.18

ददामि कुञ्जराणां ते सहस्राणि चतुर्दश ।
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्

dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa |
hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām

53.19

ददामि ते शतान्यष्टौ किंकिणीकविभूषितान् ।
हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत

dadāmi te śatānyaṣṭau kiṃkiṇīkavibhūṣitān |
hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām |
sahasramekaṃ daśa ca dadāmi tava suvrata

53.20

नानावर्णविभक्तानां वयःस्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम

nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca |
dadāmyekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama

53.21

यावदिच्छसि रत्नानि हिरण्यं वा द्विजोत्तम ।
तावद् ददामि ते सर्वं दीयतां शबला मम

yāvadicchasi ratnāni hiraṇyaṃ vā dvijottama |
tāvad dadāmi te sarvaṃ dīyatāṃ śabalā mama

53.22

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह राजन् कथंचन

evamuktastu bhagavān viśvāmitreṇa dhīmatā |
na dāsyāmīti śabalāṃ prāha rājan kathaṃcana

53.23

एतदेव हि मे रत्नमेतदेव हि मे धनम् ।
एतदेव हि सर्वस्वमेतदेव हि जीवितम्

etadeva hi me ratnametadeva hi me dhanam |
etadeva hi sarvasvametadeva hi jīvitam

53.24

दर्शश्च पौर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।
एतदेव हि मे राजन् विविधाश्च क्रियास्तथा

darśaśca paurṇamāsaśca yajñāścaivāptadakṣiṇāḥ |
etadeva hi me rājan vividhāśca kriyāstathā

53.25

अतोमूलाः क्रियाः सर्वा मम राजन् न संशयः ।
बहुना किं प्रलापेन न दास्ये कामदोहिनीम्

atomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ |
bahunā kiṃ pralāpena na dāsye kāmadohinīm

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)