बालकाण्ड

सर्ग 51: शतानन्द विश्वामित्र की कथा आरम्भ करते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

28 श्लोक · 51 में से 77

इस अध्याय में क्या होता है

शतानन्द विश्वामित्र की कथा आरम्भ करते हैं

गौतम के ज्येष्ठ पुत्र और जनक के पुरोहित शतानन्द अपनी माता का समाचार सुनकर पुलकित हो उठते हैं। वे विश्वामित्र से पूछते हैं कि क्या राम को अहल्या के दर्शन कराए गए, क्या उन्होंने राम का पूजन किया, क्या पिता उनसे फिर मिले। विश्वामित्र आश्वस्त करते हैं कि सब हो गया। शतानन्द राम से कहते हैं: पृथ्वी पर तुमसे अधिक भाग्यवान कोई नहीं, जिनके रक्षक ये मुनि हैं। सुनो, ये कौन हैं। वे कुश, कुशनाभ और गाधि से होकर विश्वामित्र के वंश का और राजा के रूप में उनके लम्बे, धर्मपूर्ण शासन का वर्णन करते हैं। एक बार अक्षौहिणी सेना के साथ पृथ्वी पर घूमते हुए राजा विश्वामित्र वसिष्ठ के आश्रम पहुँचे, जो फल-मूल खाने वाले ऋषियों, वालखिल्यों और वैखानसों से भरा, दूसरे ब्रह्मलोक जैसा था।

51.1

तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
हृष्टरोमा महातेजाः शतानन्दो महातपाः

tasya tad vacanaṃ śrutvā viśvāmitrasya dhīmataḥ |
hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ

51.2

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।
रामसंदर्शनादेव परं विस्मयमागतः

gautamasya suto jyeṣṭhastapasā dyotitaprabhaḥ |
rāmasaṃdarśanādeva paraṃ vismayamāgataḥ

51.3

एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ ।
सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्

etau niṣaṇṇau samprekṣya śatānando nṛpātmajau |
sukhāsīnau muniśreṣṭhaṃ viśvāmitramathābravīt

51.4

अपि ते मुनिशार्दूल मम माता यशस्विनी ।
दर्शिता राजपुत्राय तपोदीर्घमुपागता

api te muniśārdūla mama mātā yaśasvinī |
darśitā rājaputrāya tapodīrghamupāgatā

51.5

अपि रामे महातेजा मम माता यशस्विनी ।
वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्

api rāme mahātejā mama mātā yaśasvinī |
vanyairupāharat pūjāṃ pūjārhe sarvadehinām

51.6

अपि रामाय कथितं यद् वृत्तं तत् पुरातनम् ।
मम मातुर्महातेजो देवेन दुरनुष्ठितम्

api rāmāya kathitaṃ yad vṛttaṃ tat purātanam |
mama māturmahātejo devena duranuṣṭhitam

51.7

अपि कौशिक भद्रं ते गुरुणा मम संगता ।
मम माता मुनिश्रेष्ठ रामसंदर्शनादितः

api kauśika bhadraṃ te guruṇā mama saṃgatā |
mama mātā muniśreṣṭha rāmasaṃdarśanāditaḥ

51.8

अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।
इहागतो महातेजाः पूजां प्राप्य महात्मनः

api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja |
ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ

51.9

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।
इहागतेन रामेण पूजितेनाभिवादितः

api śāntena manasā gururme kuśikātmaja |
ihāgatena rāmeṇa pūjitenābhivāditaḥ

51.10

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्

tacchrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ |
pratyuvāca śatānandaṃ vākyajño vākyakovidam

51.11

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।
संगता मुनिना पत्नी भार्गवेणेव रेणुका

nātikrāntaṃ muniśreṣṭha yatkartavyaṃ kṛtaṃ mayā |
saṃgatā muninā patnī bhārgaveṇeva reṇukā

51.12

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।
शतानन्दो महातेजा रामं वचनमब्रवीत्

tacchrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ |
śatānando mahātejā rāmaṃ vacanamabravīt

51.13

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्

svāgataṃ te naraśreṣṭha diṣṭyā prāpto'si rāghava |
viśvāmitraṃ puraskṛtya maharṣimaparājitam

51.14

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः ।
विश्वामित्रो महातेजा वेद्म्येनं परमां गतिम्

acintyakarmā tapasā brahmarṣiramitaprabhaḥ |
viśvāmitro mahātejā vedmyenaṃ paramāṃ gatim

51.15

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन ।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः

nāsti dhanyataro rāma tvatto'nyo bhuvi kaścana |
goptā kuśikaputraste yena taptaṃ mahattapaḥ

51.16

श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः ।
यथाबलं यथातत्त्वं तन्मे निगदतः शृणु

śrūyatāṃ cābhidhāsyāmi kauśikasya mahātmanaḥ |
yathābalaṃ yathātattvaṃ tanme nigadataḥ śṛṇu

51.17

राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः ।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः

rājā''sīdeṣa dharmātmā dīrghakālamariṃdamaḥ |
dharmajñaḥ kṛtavidyaśca prajānāṃ ca hite rataḥ

51.18

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः

prajāpatisutastvāsīt kuśo nāma mahīpatiḥ |
kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ

51.19

कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः ।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः

kuśanābhasutastvāsīd gādhirityeva viśrutaḥ |
gādheḥ putro mahātejā viśvāmitro mahāmuniḥ

51.20

विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।
बहुवर्षसहस्राणि राजा राज्यमकारयत्

viśvāmitro mahātejāḥ pālayāmāsa medinīm |
bahuvarṣasahasrāṇi rājā rājyamakārayat

51.21

कदाचित् तु महातेजा योजयित्वा वरूथिनीम् ।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्

kadācit tu mahātejā yojayitvā varūthinīm |
akṣauhiṇīparivṛtaḥ paricakrāma medinīm

51.22

नगराणि च राष्ट्राणि सरितश्च महागिरीन् ।
आश्रमान् क्रमशो राजा विचरन्नाजगाम ह

nagarāṇi ca rāṣṭrāṇi saritaśca mahāgirīn |
āśramān kramaśo rājā vicarannājagāma ha

51.23

वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम्

vasiṣṭhasyāśramapadaṃ nānāpuṣpalatādrumam |
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam

51.24

देवदानवगन्धर्वैः किंनरैरुपशोभितम् ।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्

devadānavagandharvaiḥ kiṃnarairupaśobhitam |
praśāntahariṇākīrṇaṃ dvijasaṅghaniṣevitam

51.25

ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् ।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः

brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam |
tapaścaraṇasaṃsiddhairagnikalpairmahātmabhiḥ

51.26

सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः ।
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा

satataṃ saṃkulaṃ śrīmadbrahmakalpairmahātmabhiḥ |
abbhakṣairvāyubhakṣaiśca śīrṇaparṇāśanaistathā

51.27

फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः ।
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः

phalamūlāśanairdāntairjitadoṣairjitendriyaiḥ |
ṛṣibhirvālakhilyaiśca japahomaparāyaṇaiḥ

51.28

अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ।
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः

anyairvaikhānasaiścaiva samantādupaśobhitam |
vasiṣṭhasyāśramapadaṃ brahmalokamivāparam |
dadarśa jayatāṃ śreṣṭho viśvāmitro mahābalaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)