बालकाण्ड

सर्ग 49: श्रीराम द्वारा अहल्या का उद्धार

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥

22 श्लोक · 49 में से 77

इस अध्याय में क्या होता है

श्रीराम द्वारा अहल्या का उद्धार

विकृत हुए इन्द्र देवताओं से कहते हैं कि गौतम का तप भंग करने के लिए मैंने उनका क्रोध भड़काया, यह देवकार्य था। अग्नि और देवता पितरों से सहायता माँगते हैं, और पितर इन्द्र को मेढ़े के अंग दे देते हैं। फिर विश्वामित्र के कहने पर राम लक्ष्मण के साथ आश्रम में प्रवेश करते हैं। वहाँ वे तप से दीप्त अहल्या को देखते हैं धुएँ से ढकी ज्वाला जैसी, कुहरे के पीछे पूर्ण चन्द्र जैसी। राम के दर्शन से उनका शाप समाप्त होता है। दोनों भाई उनके चरण छूते हैं। गौतम के वचन याद करके वे पाद्य और अर्घ्य से उनका अतिथि-सत्कार करती हैं। गौतम लौटकर अहल्या से मिलते हैं, राम का पूजन करते हैं और फिर तप में लग जाते हैं। राम मिथिला की ओर चलते हैं।

49.1

अफलस्तु ततः शक्रो देवानग्निपुरोगमान् ।
अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्

aphalastu tataḥ śakro devānagnipurogamān |
abravīt trastanayanaḥ siddhagandharvacāraṇān

49.2

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्

kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ |
krodhamutpādya hi mayā surakāryamidaṃ kṛtam

49.3

अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता ।
शापमोक्षेण महता तपोऽस्यापहृतं मया

aphalo'smi kṛtastena krodhāt sā ca nirākṛtā |
śāpamokṣeṇa mahatā tapo'syāpahṛtaṃ mayā

49.4

तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः ।
सुरकार्यकरं यूयं सफलं कर्तुमर्हथ

tanmāṃ suravarāḥ sarve sarṣisaṅghāḥ sacāraṇāḥ |
surakāryakaraṃ yūyaṃ saphalaṃ kartumarhatha

49.5

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः ।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः

śatakratorvacaḥ śrutvā devāḥ sāgnipurogamāḥ |
pitṛdevānupetyāhuḥ sarve saha marudgaṇaiḥ

49.6

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत

ayaṃ meṣaḥ savṛṣaṇaḥ śakro hyavṛṣaṇaḥ kṛtaḥ |
meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata

49.7

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।
भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः ।
अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्

aphalastu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati |
bhavatāṃ harṣaṇārthaṃ ca ye ca dāsyanti mānavāḥ |
akṣayaṃ hi phalaṃ teṣāṃ yūyaṃ dāsyatha puṣkalam

49.8

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्

agnestu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ |
utpāṭya meṣavṛṣaṇau sahasrākṣe nyaveśayan

49.9

तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः ।
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्

tadāprabhṛti kākutstha pitṛdevāḥ samāgatāḥ |
aphalān bhuñjate meṣān phalaisteṣāmayojayan

49.10

इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव ।
गौतमस्य प्रभावेण तपसा च महात्मनः

indrastu meṣavṛṣaṇastadāprabhṛti rāghava |
gautamasya prabhāveṇa tapasā ca mahātmanaḥ

49.11

तदागच्छ महातेज आश्रमं पुण्यकर्मणः ।
तारयैनां महाभागामहल्यां देवरूपिणीम्

tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ |
tārayaināṃ mahābhāgāmahalyāṃ devarūpiṇīm

49.12

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह

viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha

49.13

ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः

dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām |
lokairapi samāgamya durnirīkṣyāṃ surāsuraiḥ

49.14

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।
धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव

prayatnānnirmitāṃ dhātrā divyāṃ māyāmayīmiva |
dhūmenābhiparītāṃgīṃ dīptāmagniśikhāmiva

49.15

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ।
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव

satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhāmiva |
madhye'mbhaso durādharṣāṃ dīptāṃ sūryaprabhāmiva

49.16

सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ।
त्रयाणामपि लोकानां यावद् रामस्य दर्शनम् ।
शापस्यान्तमुपागम्य तेषां दर्शनमागता

sā hi gautamavākyena durnirīkṣyā babhūva ha |
trayāṇāmapi lokānāṃ yāvad rāmasya darśanam |
śāpasyāntamupāgamya teṣāṃ darśanamāgatā

49.17

राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ

rāghavau tu tadā tasyāḥ pādau jagṛhaturmudā |
smarantī gautamavacaḥ pratijagrāha sā hi tau

49.18

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा

pādyamarghyaṃ tathā''tithyaṃ cakāra susamāhitā |
pratijagrāha kākutstho vidhidṛṣṭena karmaṇā

49.19

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः ।
गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः

puṣpavṛṣṭirmahatyāsīd devadundubhiniḥsvanaiḥ |
gandharvāpsarasāṃ caiva mahānāsīt samutsavaḥ

49.20

साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्

sādhu sādhviti devāstāmahalyāṃ samapūjayan |
tapobalaviśuddhāṅgīṃ gautamasya vaśānugām

49.21

गौतमोऽपि महातेजा अहल्यासहितः सुखी ।
रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः

gautamo'pi mahātejā ahalyāsahitaḥ sukhī |
rāmaṃ sampūjya vidhivat tapastepe mahātapāḥ

49.22

रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः

rāmo'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ |
sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)