बालकाण्ड

सर्ग 44: सगर-पुत्रों को स्वर्ग की प्राप्ति

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥१-४३॥

23 श्लोक · 44 में से 77

इस अध्याय में क्या होता है

सगर-पुत्रों को स्वर्ग की प्राप्ति

भगीरथ गंगा के पीछे-पीछे उस स्थान तक जाते हैं जहाँ उनके पूर्वज भस्म पड़े थे। जब राख गंगाजल से भीग जाती है, तब सब लोकों के स्वामी ब्रह्मा कहते हैं: सगर के साठ हज़ार पुत्र मुक्त होकर देवताओं की तरह स्वर्ग गए। जब तक पृथ्वी पर समुद्र का जल रहेगा, वे वहीं रहेंगे। गंगा तुम्हारी ज्येष्ठ पुत्री होंगी और भागीरथी कहलाएँगी; तीन लोकों में बहने से वे त्रिपथगा हैं। अब पितरों को जलांजलि दो। जो सगर, अंशुमान और दिलीप नहीं कर सके, वह तुमने किया, तुम्हारा यश सर्वोच्च है। ब्रह्मा अपने लोक लौटते हैं। भगीरथ तर्पण करके अपने नगर लौट जाते हैं। विश्वामित्र फलश्रुति से कथा पूरी करते हैं: जो यह गंगावतरण सुनता है, उसकी आयु और कीर्ति बढ़ती है, और पितर तथा देवता प्रसन्न होते हैं।

44.1

स गत्वा सागरं राजा गङ्गायानुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः

sa gatvā sāgaraṃ rājā gaṅgāyānugatastadā |
praviveśa talaṃ bhūmeryatra te bhasmasātkṛtāḥ

44.2

भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्

bhasmanyathāplute rāma gaṅgāyāḥ salilena vai |
sarvalokaprabhurbrahmā rājānamidamabravīt

44.3

तारिता नरशार्दूल दिवं याताश्च च देववत् ।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः

tāritā naraśārdūla divaṃ yātāśca ca devavat |
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ

44.4

सागरस्य जलं लोके यावत्स्थास्यति पार्थिव ।
सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत्

sāgarasya jalaṃ loke yāvatsthāsyati pārthiva |
sagarasyātmajāḥ sarve divi sthāsyanti devavat

44.5

इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता

iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati |
tvatkṛtena ca nāmnātha loke sthāsyati viśrutā

44.6

गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।
त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता

gaṅgā tripathagā nāma divyā bhāgīrathīti ca |
trīn patho bhāvayantīti tasmāt tripathagā smṛtā

44.7

पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय

pitāmahānāṃ sarveṣāṃ tvamatra manujādhipa |
kuruṣva salilaṃ rājan pratijñāmapavarjaya

44.8

पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।
धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः

pūrvakeṇa hi te rājaṃstenātiyaśasā tadā |
dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ

44.9

तथैवांशुमता तात लोकेऽप्रतिमतेजसा ।
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता

tathaivāṃśumatā tāta loke'pratimatejasā |
gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā

44.10

राजर्षिणा गुणवता महर्षिसमतेजसा ।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च

rājarṣiṇā guṇavatā maharṣisamatejasā |
mattulyatapasā caiva kṣatradharmasthitena ca

44.11

दिलीपेन महाभाग तव पित्रातितेजसा ।
पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ

dilīpena mahābhāga tava pitrātitejasā |
punarna śakitā netuṃ gaṅgāṃ prārthayatānagha

44.12

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।
प्राप्तोऽसि परमं लोके यशः परमसम्मतम्

sā tvayā samatikrāntā pratijñā puruṣarṣabha |
prāpto'si paramaṃ loke yaśaḥ paramasammatam

44.13

तच्च गङ्गावतरणं त्वया कृतमरिंदम ।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्

tacca gaṅgāvataraṇaṃ tvayā kṛtamariṃdama |
anena ca bhavān prāpto dharmasyāyatanaṃ mahat

44.14

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।
सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव

plāvayasva tvamātmānaṃ narottama sadocite |
salile puruṣaśreṣṭha śuciḥ puṇyaphalo bhava

44.15

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप

pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām |
svasti te'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa

44.16

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः
यथागतं तथागच्चद् देवलोकं महायशाः

ityevamuktvā deveśaḥ sarvalokapitāmahaḥ
yathāgataṃ tathāgaccad devalokaṃ mahāyaśāḥ

44.17

भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्
यथाक्रमं यथान्यायं सागराणां महायशाः

bhagīrathastu rājarṣiḥ kṛtvā salilamuttamam
yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ

44.18

कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह

kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha |
samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha

44.19

प्रमुमोद च लोकस्तं नृपमासाद्य राघव ।
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः

pramumoda ca lokastaṃ nṛpamāsādya rāghava |
naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ

44.20

एष ते राम गंगाया विस्तरोऽभिहितो मया ।
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते

eṣa te rāma gaṃgāyā vistaro'bhihito mayā |
svasti prāpnuhi bhadraṃ te saṃdhyākālo'tivartate

44.21

धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च ।
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च

dhanyaṃ yaśasyamāyuṣyaṃ putryaṃ svargyamathāpi ca |
yaḥ śrāvayati vipreṣu kṣatriyeṣvitareṣu ca

44.22

प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।
इदमाख्यानमायुष्यं गंगावतरणं शुभम्

prīyante pitarastasya prīyante daivatāni ca |
idamākhyānamāyuṣyaṃ gaṃgāvataraṇaṃ śubham

44.23

यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते

yaḥ śṛṇoti ca kākutstha sarvān kāmānavāpnuyāt |
sarve pāpāḥ praṇaśyanti āyuḥ kīrtiśca vardhate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)