अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम्
atha tāṃ rajanīmuṣya viśvāmitro mahāyaśāḥ |
prahasya rāghavaṃ vākyamuvāca madhurasvaram
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥
28 श्लोक · 27 में से 77
अगली सुबह विश्वामित्र मुस्कुराकर कहते हैं कि मैं प्रसन्न हूँ और तुम्हें सारे अस्त्र दूँगा। सर्ग का अधिकांश भाग इन अस्त्रों की सूची है: दण्डचक्र, धर्मचक्र, कालचक्र और विष्णुचक्र, इन्द्र का वज्र, शिव का त्रिशूल, ब्रह्मशिर और ऐषीक, ब्रह्मास्त्र, मोदकी और शिखरी नाम की दो गदाएँ, धर्मपाश, कालपाश और वरुणपाश, पैनाक, नारायण और आग्नेय अस्त्र, वायव्य, हयशिर और क्रौंच, शक्तियाँ, और सुलाने, शान्त करने, बरसाने, सुखाने, तपाने, रुलाने और मोहित करने वाले अस्त्र, मानव, गान्धर्व, सौर और सत्य अस्त्र। पूर्वमुख होकर, पवित्र होकर राम मन्त्र ग्रहण करते हैं। अस्त्र तेजस्वी रूप में प्रकट होकर हाथ जोड़ते हैं और कहते हैं: हम आपके दास हैं। राम उन्हें छूकर कहते हैं कि आवश्यकता पड़ने पर मेरे मन में उपस्थित होना।
अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम्
atha tāṃ rajanīmuṣya viśvāmitro mahāyaśāḥ |
prahasya rāghavaṃ vākyamuvāca madhurasvaram
परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः
parituṣṭo'smi bhadraṃ te rājaputra mahāyaśaḥ |
prītyā paramayā yukto dadāmyastrāṇi sarvaśaḥ
देवासुरगणान् वापि सगन्धर्वोरगान् भुवि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि
devāsuragaṇān vāpi sagandharvoragān bhuvi |
yairamitrān prasahyājau vaśīkṛtya jayiṣyasi
तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद् दिव्यं तव दास्यामि राघव
tāni divyāni bhadraṃ te dadāmyastrāṇi sarvaśaḥ |
daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava
धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च
dharmacakraṃ tato vīra kālacakraṃ tathaiva ca |
viṣṇucakraṃ tathātyugramaindraṃ cakraṃ tathaiva ca
वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव
vajramastraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā |
astraṃ brahmaśiraścaiva aiṣīkamapi rāghava
ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।
गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे
dadāmi te mahābāho brāhmamastramanuttamam |
gade dve caiva kākutstha modakīśikharī śubhe
प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।
धर्मपाशमहं राम कालपाशं तथैव च
pradīpte naraśārdūla prayacchāmi nṛpātmaja |
dharmapāśamahaṃ rāma kālapāśaṃ tathaiva ca
वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् ।
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन
vāruṇaṃ pāśamastraṃ ca dadānyahamanuttamam |
aśanī dve prayacchāmi śuṣkārdre raghunandana
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः
dadāmi cāstraṃ painākamastraṃ nārāyaṇaṃ tathā |
āgneyamastraṃ dayitaṃ śikharaṃ nāma nāmataḥ
वायव्यं प्रथमं नाम ददामि तव चानघ ।
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च
vāyavyaṃ prathamaṃ nāma dadāmi tava cānagha |
astraṃ hayaśiro nāma krauñcamastraṃ tathaiva ca
शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।
कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम्
śaktidvayaṃ ca kākutstha dadāmi tava rāghava |
kaṅkālaṃ musalaṃ ghoraṃ kāpālamatha kiṅkiṇīm
वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः ।
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः
vadhārthaṃ rakṣasāṃ yāni dadāmyetāni sarvaśaḥ |
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ
असिरत्नं महाबाहो ददामि नृवरात्मज ।
गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः
asiratnaṃ mahābāho dadāmi nṛvarātmaja |
gāndharvamastraṃ dayitaṃ mohanaṃ nāma nāmataḥ
प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव ।
वर्षणं शोषणं चैव संतापनविलापने
prasvāpanaṃ praśamanaṃ dadmi saumyaṃ ca rāghava |
varṣaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane
मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः
mādanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā |
gāndharvamastraṃ dayitaṃ mānavaṃ nāma nāmataḥ
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः
paiśācamastraṃ dayitaṃ mohanaṃ nāma nāmataḥ |
pratīccha naraśārdūla rājaputra mahāyaśaḥ
तामसं नरशार्दूल सौमनं च महाबलम् ।
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज
tāmasaṃ naraśārdūla saumanaṃ ca mahābalam |
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja
सत्यमस्त्रं महाबाहो तथा मायामयं परम् ।
सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम्
satyamastraṃ mahābāho tathā māyāmayaṃ param |
sauraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam
सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम्
somāstraṃ śiśiraṃ nāma tvāṣṭramastraṃ sudāruṇam |
dāruṇaṃ ca bhagasyāpi śīteṣumatha mānavam
एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज
etān rāma mahābāho kāmarūpān mahābalān |
gṛhāṇa paramodārān kṣiprameva nṛpātmaja
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्
sthitastu prāṅmukho bhūtvā śucirmunivarastadā |
dadau rāmāya suprīto mantragrāmamanuttamam
सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्
sarvasaṃgrahaṇaṃ yeṣāṃ daivatairapi durlabham |
tānyastrāṇi tadā vipro rāghavāya nyavedayat
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्
japatastu munestasya viśvāmitrasya dhīmataḥ |
upatasthurmahārhāṇi sarvāṇyastrāṇi rāghavam
ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा ।
इमे च परमोदार किंकरास्तव राघव
ūcuśca muditā rāmaṃ sarve prāñjalayastadā |
ime ca paramodāra kiṃkarāstava rāghava
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै ।
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः
yadyadicchasi bhadraṃ te tatsarvaṃ karavāma vai |
tato rāmaḥ prasannātmā tairityukto mahābalaiḥ
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत्
pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā |
manasā me bhaviṣyadhvamiti tānyabhyacodayat
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे
tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim |
abhivādya mahātejā gamanāyopacakrame
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)