प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्
pratigṛhya tato'strāṇi prahṛṣṭavadanaḥ śuciḥ |
gacchanneva ca kākutstho viśvāmitramathābravīt
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥
22 श्लोक · 28 में से 77
आगे चलते हुए राम कहते हैं कि अब मेरे पास ऐसे अस्त्र हैं जिन्हें देवता भी नहीं रोक सकते, कृपया इनके उपसंहार का उपाय भी बताइए। विश्वामित्र संहार-मन्त्र सिखाते हैं और कुछ और शक्तियाँ देते हैं: सत्यवन्त, सत्यकीर्ति, धृष्ट, रभस, प्रतिहारतर, पराङ्मुख, अवाङ्मुख, लक्षाक्ष, विषम और अनेक, जिनके अन्त में धन और धान्य हैं। ये सब देह धरकर राम के सामने आते हैं, कुछ अंगारों जैसे, कुछ धुएँ जैसे, कुछ सूर्य और चन्द्र जैसे, हाथ जोड़कर आज्ञा माँगते हैं। राम कहते हैं कि मेरे मन में रहो और बुलाने पर आना; वे परिक्रमा करके चले जाते हैं। फिर बादल जैसे पर्वत के पास घना वन देखकर राम पूछते हैं कि यह किसका आश्रम है, जहाँ यज्ञ की रक्षा करनी है और राक्षस मारने हैं।
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्
pratigṛhya tato'strāṇi prahṛṣṭavadanaḥ śuciḥ |
gacchanneva ca kākutstho viśvāmitramathābravīt
गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि ।
अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव
gṛhītāstro'smi bhagavan durādharṣaḥ surairapi |
astrāṇāṃ tvahamicchāmi saṃhārān munipuṅgava
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः ।
संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः
evaṃ bruvati kākutsthe viśvāmitro mahātapāḥ |
saṃhārān vyājahārātha dhṛtimān suvrataḥ śuciḥ
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्
satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasameva ca |
pratihārataraṃ nāma parāṅmukhamavāṅmukham
लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ ।
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ
lakṣyālakṣyāvimau caiva dṛḍhanābhasunābhakau |
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।
ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ
padmanābhamahānābhau dundunābhasunābhakau |
jyotiṣaṃ śakunaṃ caiva nairāsyavimalāvubhau
यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा ।
शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा ।
सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा
yaugandharavinidrau ca daityapramathanau tathā |
śucibāhurmahābāhurniṣkalirvirucastathā |
sārcirmālī dhṛtimālī vṛttimān rucirastathā
पित्र्यः सौमनसश्चैव विधूतमकरावुभौ ।
परवीरं रतिं चैव धनधान्यौ च राघव
pitryaḥ saumanasaścaiva vidhūtamakarāvubhau |
paravīraṃ ratiṃ caiva dhanadhānyau ca rāghava
कामरूपं कामरुचिं मोहमावरणं तथा ।
जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा
kāmarūpaṃ kāmaruciṃ mohamāvaraṇaṃ tathā |
jṛmbhakaṃ sarvanābhaṃ ca panthanavaruṇau tathā
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव
kṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ |
pratīccha mama bhadraṃ te pātrabhūto'si rāghava
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।
दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः
bāḍhamityeva kākutsthaḥ prahṛṣṭenāntarātmanā |
divyabhāsvaradehāśca mūrtimantaḥ sukhapradāḥ
केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा ।
चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा
kecidaṅgārasadṛśāḥ kecid dhūmopamāstathā |
candrārkasadṛśāḥ kecit prahvāñjalipuṭāstathā
रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।
इमे स्म नरशार्दूल शाधि किं करवाम ते
rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ |
ime sma naraśārdūla śādhi kiṃ karavāma te
गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ
gamyatāmiti tānāha yatheṣṭaṃ raghunandanaḥ |
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्
atha te rāmamāmantrya kṛtvā cāpi pradakṣiṇam |
evamastviti kākutsthamuktvā jagmuryathāgatam
स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्
sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim |
gacchannevātha madhuraṃ ślakṣṇaṃ vacanamabravīt
किमेतन्मेघसंकाशं पर्वतस्याविदूरतः ।
वृक्षखण्डमितो भाति परं कौतूहलं हि मे
kimetanmeghasaṃkāśaṃ parvatasyāvidūrataḥ |
vṛkṣakhaṇḍamito bhāti paraṃ kautūhalaṃ hi me
दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।
नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम्
darśanīyaṃ mṛgākīrṇaṃ manoharamatīva ca |
nānāprakāraiḥ śakunairvalgubhāṣairalaṅkṛtam
निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् ।
अनया त्ववगच्छामि देशस्य सुखवत्तया
niḥsṛtāḥsmo muniśreṣṭha kāntārād romaharṣaṇāt |
anayā tvavagacchāmi deśasya sukhavattayā
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः
sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tvidam |
saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ
तव यज्ञस्य विघ्नाय दुरात्मानो महामुने ।
भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी
tava yajñasya vighnāya durātmāno mahāmune |
bhagavaṃstasya ko deśaḥ sā yatra tava yājñikī
रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः ।
एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो
rakṣitavyā kriyā brahman mayā vadhyāśca rākṣasāḥ |
etat sarvaṃ muniśreṣṭha śrotumicchāmyahaṃ prabho
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)