बालकाण्ड

सर्ग 25: विश्वामित्र ताटका का परिचय देते हैं

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥

22 श्लोक · 25 में से 77

इस अध्याय में क्या होता है

विश्वामित्र ताटका का परिचय देते हैं

राम पूछते हैं कि एक यक्षिणी, स्त्री होकर, हज़ार हाथियों का बल कैसे रखती है। विश्वामित्र बताते हैं। निःसन्तान यक्ष सुकेतु ने कठोर तप किया और ब्रह्मा ने उसे पुत्र के बदले ताटका नाम की कन्या दी, वही बल देकर। उसका विवाह जम्भ के पुत्र सुन्द से हुआ और उसने मारीच को जन्म दिया। जब अगस्त्य ने सुन्द को मारा, तब ताटका और उसका पुत्र मुनि को खाने दौड़े। अगस्त्य ने मारीच को राक्षस होने का और ताटका को रूप खोकर भयंकर नरभक्षी बनने का शाप दिया। अब वह उसी प्रदेश को उजाड़ती है जहाँ अगस्त्य रहते थे। विश्वामित्र कहते हैं कि गौ और ब्राह्मण के हित के लिए दया छोड़कर इसे मारो; प्रजा की रक्षा के लिए राजपुत्र को कठोर कर्म भी करना पड़ता है।

25.1

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्

atha tasyāprameyasya munervacanamuttamam |
śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram

25.2

अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।
कथं नागसहस्रस्य धारयत्यबला बलम्

alpavīryā yadā yakṣī śrūyate munipuṅgava |
kathaṃ nāgasahasrasya dhārayatyabalā balam

25.3

इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः ।
हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम्

ityuktaṃ vacanaṃ śrutvā rāghavasyāmitaujasaḥ |
harṣayañślakṣṇayā vācā salakṣmaṇamarindamam

25.4

विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा ।
वरदानकृतं वीर्यं धारयत्यबला बलम्

viśvāmitro'bravīd vākyaṃ śṛṇu yena balotkaṭā |
varadānakṛtaṃ vīryaṃ dhārayatyabalā balam

25.5

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।
अनपत्यः शुभाचारः स च तेपे महत्तपः

pūrvamāsīnmahāyakṣaḥ suketurnāma vīryavān |
anapatyaḥ śubhācāraḥ sa ca tepe mahattapaḥ

25.6

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा ।
कन्यारत्नं ददौ राम ताटकां नाम नामतः

pitāmahastu suprītastasya yakṣapatestadā |
kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ

25.7

ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः

dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ |
na tveva putraṃ yakṣāya dadau cāsau mahāyaśāḥ

25.8

तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् ।
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्

tāṃ tu bālāṃ vivardhantīṃ rūpayauvanaśālinīm |
jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm

25.9

कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत ।
मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत्

kasyacittvatha kālasya yakṣī putraṃ vyajāyata |
mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso'bhavat

25.10

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् ।
ताटका सहपुत्रेण प्रधर्षयितुमिच्छति

sunde tu nihate rāma agastyamṛṣisattamam |
tāṭakā sahaputreṇa pradharṣayitumicchati

25.11

भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत ।
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः

bhakṣārthaṃ jātasaṃrambhā garjantī sābhyadhāvata |
āpatantīṃ tu tāṃ dṛṣṭvā agastyo bhagavānṛṣiḥ

25.12

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।
अगस्त्यः परमामर्षस्ताटकामपि शप्तवान्

rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ |
agastyaḥ paramāmarṣastāṭakāmapi śaptavān

25.13

पुरुषादी महायक्षी विकृता विकृतानना ।
इदं रूपम् विहायाशु दारुणं रूपमस्तु ते

puruṣādī mahāyakṣī vikṛtā vikṛtānanā |
idaṃ rūpam vihāyāśu dāruṇaṃ rūpamastu te

25.14

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ।
देशमुत्सादयत्येनमगस्त्याचरितं शुभम्

saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā |
deśamutsādayatyenamagastyācaritaṃ śubham

25.15

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्

enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām |
gobrāhmaṇahitārthāya jahi duṣṭaparākramām

25.16

नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् ।
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन

nahyenāṃ śāpasaṃsṛṣṭāṃ kaścidutsahate pumān |
nihantuṃ triṣu lokeṣu tvāmṛte raghunandana

25.17

नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना

nahi te strīvadhakṛte ghṛṇā kāryā narottama |
cāturvarṇyahitārthaṃ kartavyaṃ rājasūnunā

25.18

नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।
पातकं वा सदोषं वा कर्तव्यं रक्षता सदा

nṛśaṃsamanṛśaṃsaṃ vā prajārakṣaṇakāraṇāt |
pātakaṃ vā sadoṣaṃ vā kartavyaṃ rakṣatā sadā

25.19

राज्यभारनियुक्तानामेष धर्मः सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते

rājyabhāraniyuktānāmeṣa dharmaḥ sanātanaḥ |
adharmyāṃ jahi kākutstha dharmo hyasyāṃ na vidyate

25.20

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्

śrūyate hi purā śakro virocanasutāṃ nṛpa |
pṛthivīṃ hantumicchantīṃ mantharāmabhyasūdayat

25.21

विष्णुना च पुरा राम भृगुपत्नी पतिव्रता ।
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता

viṣṇunā ca purā rāma bhṛgupatnī pativratā |
anindraṃ lokamicchantī kāvyamātā niṣūditā

25.22

एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः ।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।
तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप

etaiścānyaiśca bahubhī rājaputrairmahātmabhiḥ |
adharmasahitā nāryo hatāḥ puruṣasattamaiḥ |
tasmādenāṃ ghṛṇāṃ tyaktvā jahi macchāsanānnṛpa

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)