अयोध्याकाण्ड

सर्ग 70: भरत केकय से अयोध्या के लिए चलते हैं

इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥२-७०॥

30 श्लोक · 70 में से 119

इस अध्याय में क्या होता है

भरत केकय से अयोध्या के लिए चलते हैं

भरत अभी स्वप्न की बात कह ही रहे होते हैं कि थके हुए दूत राजभवन में प्रवेश करते हैं। वे भरत के चरण छूते हैं और वसिष्ठ का सन्देश सुनाते हैं, पुरोहित और मन्त्री आपका कुशल पूछते हैं; शीघ्र लौटिए, आवश्यक कार्य है। वे भेंट प्रस्तुत करते हैं। भरत पिता, राम, लक्ष्मण और तीनों माताओं का कुशल पूछते हैं; दूत कहते हैं कि जिनका कुशल आप चाहते हैं वे सब कुशल हैं, आप शीघ्रता करें। भरत नाना अश्वपति से विदा लेते हैं। वे उनका सिर सूँघकर हाथी, राजभवन में पाले उत्तम कुत्ते, घोड़े, सोना और विश्वस्त सेवक भेंट में देते हैं। सेना की रक्षा में, शत्रुघ्न को साथ लेकर, भरत सौ से अधिक रथों के साथ ऐसे निकलते हैं जैसे कोई सिद्ध इन्द्रलोक से निकलता है।

70.1

भरते ब्रुवति स्वप्नम् दूताः ते क्लान्त वाहनाः ।
प्रविश्य असह्य परिखम् रम्यम् राज गृहम् पुरम्

bharate bruvati svapnam dūtāḥ te klānta vāhanāḥ |
praviśya asahya parikham ramyam rāja gṛham puram

70.2

समागम्य तु राज्ञा च राज पुत्रेण च अर्चिताः ।
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतम् वचः

samāgamya tu rājñā ca rāja putreṇa ca arcitāḥ |
rājñaḥ pādau gṛhītvā tu tam ūcur bharatam vacaḥ

70.3

पुरोहितः त्वा कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया

purohitaḥ tvā kuśalam prāha sarve ca mantriṇaḥ |
tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā

70.4

इमानि च महार्हाणि वस्त्राण्याभरणानि च ।
प्रतिगृह्य विशालाक्ष मातुलस्य च दापय

imāni ca mahārhāṇi vastrāṇyābharaṇāni ca |
pratigṛhya viśālākṣa mātulasya ca dāpaya

70.5

अत्र विम्शति कोट्यः तु नृपतेर् मातुलस्य ते ।
दश कोट्यः तु सम्पूर्णाः तथैव च नृप आत्मज

atra vimśati koṭyaḥ tu nṛpater mātulasya te |
daśa koṭyaḥ tu sampūrṇāḥ tathaiva ca nṛpa ātmaja

70.6

प्रतिगृह्य च तत् सर्वम् स्वनुरक्तः सुहृज् जने ।
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान्

pratigṛhya ca tat sarvam svanuraktaḥ suhṛj jane |
dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān

70.7

कच्चित् सुकुशली राजा पिता दशरथो मम ।
कच्चिच् च अरागता रामे लक्ष्मणे वा महात्मनि

kaccit sukuśalī rājā pitā daśaratho mama |
kaccic ca arāgatā rāme lakṣmaṇe vā mahātmani

70.8

आर्या च धर्म निरता धर्मज्ञा धर्म दर्शिनी ।
अरोगा च अपि कौसल्या माता रामस्य धीमतः

āryā ca dharma niratā dharmajñā dharma darśinī |
arogā ca api kausalyā mātā rāmasya dhīmataḥ

70.9

कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य सारोगा च अपि मध्यमा

kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā |
śatrughnasya ca vīrasya sārogā ca api madhyamā

70.10

आत्म कामा सदा चण्डी क्रोधना प्राज्ञ मानिनी ।
अरोगा च अपि कैकेयी माता मे किम् उवाच ह

ātma kāmā sadā caṇḍī krodhanā prājña māninī |
arogā ca api kaikeyī mātā me kim uvāca ha

70.11

एवम् उक्ताः तु ते दूता भरतेन महात्मना ।
ऊचुः सम्प्रश्रितम् वाक्यम् इदम् तम् भरतम् तदा

evam uktāḥ tu te dūtā bharatena mahātmanā |
ūcuḥ sampraśritam vākyam idam tam bharatam tadā

70.12

कुशलाः ते नर व्याघ्र येषाम् कुशलम् इच्चसि ।
श्रीश्च त्वाम् वृणुते पद्मा युज्यताम् चापि ते रकः

kuśalāḥ te nara vyāghra yeṣām kuśalam iccasi |
śrīśca tvām vṛṇute padmā yujyatām cāpi te rakaḥ

70.13

भरतः च अपि तान् दूतान् एवम् उक्तः अभ्यभाषत ।
आपृच्चे अहम् महा राजम् दूताः सम्त्वरयन्ति माम्

bharataḥ ca api tān dūtān evam uktaḥ abhyabhāṣata |
āpṛcce aham mahā rājam dūtāḥ samtvarayanti mām

70.14

एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिव आत्मजः ।
दूतैः सम्चोदितः वाक्यम् मातामहम् उवाच ह

evam uktvā tu tān dūtān bharataḥ pārthiva ātmajaḥ |
dūtaiḥ samcoditaḥ vākyam mātāmaham uvāca ha

70.15

राजन् पितुर् गमिष्यामि सकाशम् दूत चोदितः ।
पुनर् अपि अहम् एष्यामि यदा मे त्वम् स्मरिष्यसि

rājan pitur gamiṣyāmi sakāśam dūta coditaḥ |
punar api aham eṣyāmi yadā me tvam smariṣyasi

70.16

भरतेन एवम् उक्तः तु नृपो मातामहः तदा ।
तम् उवाच शुभम् वाक्यम् शिरस्य् आघ्राय राघवम्

bharatena evam uktaḥ tu nṛpo mātāmahaḥ tadā |
tam uvāca śubham vākyam śirasy āghrāya rāghavam

70.17

गच्च तात अनुजाने त्वाम् कैकेयी सुप्रजाः त्वया ।
मातरम् कुशलम् ब्रूयाः पितरम् च परम् तप

gacca tāta anujāne tvām kaikeyī suprajāḥ tvayā |
mātaram kuśalam brūyāḥ pitaram ca param tapa

70.18

पुरोहितम् च कुशलम् ये च अन्ये द्विज सत्तमाः ।
तौ च तात महा इष्वासौ भ्रातरु राम लक्ष्मणौ

purohitam ca kuśalam ye ca anye dvija sattamāḥ |
tau ca tāta mahā iṣvāsau bhrātaru rāma lakṣmaṇau

70.19

तस्मै हस्ति उत्तमामः चित्रान् कम्बलान् अजिनानि च ।
अभिसत्कृत्य कैकेयो भरताय धनम् ददौ

tasmai hasti uttamāmaḥ citrān kambalān ajināni ca |
abhisatkṛtya kaikeyo bharatāya dhanam dadau

70.20

रुक्म निष्क सहस्रे द्वे षोडश अश्व शतानि च ।
सत्कृत्य कैकेयी पुत्रम् केकयो धनम् आदिशत्

rukma niṣka sahasre dve ṣoḍaśa aśva śatāni ca |
satkṛtya kaikeyī putram kekayo dhanam ādiśat

70.21

तथा अमात्यान् अभिप्रेतान् विश्वास्यामः च गुण अन्वितान् ।
ददाव् अश्व पतिः शीघ्रम् भरताय अनुयायिनः

tathā amātyān abhipretān viśvāsyāmaḥ ca guṇa anvitān |
dadāv aśva patiḥ śīghram bharatāya anuyāyinaḥ

70.22

ऐरावतान् ऐन्द्र शिरान् नागान् वै प्रिय दर्शनान् ।
खरान् शीघ्रान् सुसम्युक्तान् मातुलो अस्मै धनम् ददौ

airāvatān aindra śirān nāgān vai priya darśanān |
kharān śīghrān susamyuktān mātulo asmai dhanam dadau

70.23

अन्तः पुरे अतिसम्वृद्धान् व्याघ्र वीर्य बल अन्वितान् ।
दम्ष्ट्र आयुधान् महा कायान् शुनः च उपायनम् ददौ

antaḥ pure atisamvṛddhān vyāghra vīrya bala anvitān |
damṣṭra āyudhān mahā kāyān śunaḥ ca upāyanam dadau

70.24

स मातामहम् आपृच्च्य मातुलम् च युधा जितम् ।
रथम् आरुह्य भरतः शत्रुघ्न सहितः ययौ

sa mātāmaham āpṛccya mātulam ca yudhā jitam |
ratham āruhya bharataḥ śatrughna sahitaḥ yayau

70.25

बभूव ह्यस्य हृदते चिन्ता सुमहती तदा ।
त्वरया चापि दूतानाम् स्वप्नस्यापि च दर्शनात्

babhūva hyasya hṛdate cintā sumahatī tadā |
tvarayā cāpi dūtānām svapnasyāpi ca darśanāt

70.26

स स्ववेश्माभ्यतिक्रम्य नरनागश्वसम्वृतम् ।
प्रपेदे सुमहच्छ्रीमान् राजमार्गमनुत्तमम्

sa svaveśmābhyatikramya naranāgaśvasamvṛtam |
prapede sumahacchrīmān rājamārgamanuttamam

70.27

अभ्यतीत्य ततोऽपश्यदन्तः पुरमुदारधीः ।
ततस्तद्भरतः श्रीमानाविवेशानिवारितः

abhyatītya tato'paśyadantaḥ puramudāradhīḥ |
tatastadbharataḥ śrīmānāviveśānivāritaḥ

70.28

स माता महमापृच्च्य मातुलम् च युधाजितम् ।
रथमारुह्य भरतः शत्रुघ्नसहितो ययौ

sa mātā mahamāpṛccya mātulam ca yudhājitam |
rathamāruhya bharataḥ śatrughnasahito yayau

70.29

रथान् मण्डल चक्रामः च योजयित्वा परः शतम् ।
उष्ट्र गो अश्व खरैः भृत्या भरतम् यान्तम् अन्वयुः

rathān maṇḍala cakrāmaḥ ca yojayitvā paraḥ śatam |
uṣṭra go aśva kharaiḥ bhṛtyā bharatam yāntam anvayuḥ

70.30

बलेन गुप्तः भरतः महात्मा ।
सह आर्यकस्य आत्म समैः अमात्यैः ।
आदाय शत्रुघ्नम् अपेत शत्रुर् ।
गृहात् ययौ सिद्धैव इन्द्र लोकात्

balena guptaḥ bharataḥ mahātmā |
saha āryakasya ātma samaiḥ amātyaiḥ |
ādāya śatrughnam apeta śatrur |
gṛhāt yayau siddhaiva indra lokāt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)