तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः
teṣām tat vacanam śrutvā vasiṣṭhaḥ pratyuvāca ha |
mitra amātya gaṇān sarvān brāhmaṇāms tān idam vacaḥ
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टषष्ठितमः सर्गः ॥२-६८॥
22 श्लोक · 68 में से 119
वसिष्ठ सभा को उत्तर देते हैं। भरत शत्रुघ्न के साथ अपने मामा के घर राजगृह में सुख से रह रहे हैं; शीघ्रगामी दूत भेजकर उन्हें बुलाया जाए। वे सिद्धार्थ, विजय, जयन्त, अशोक और नन्दन को चुनते हैं और उन्हें समझाते हैं, शीघ्र जाओ, मुख पर शोक प्रकट न होने दो, और भरत को यह न बताना कि राम वन गए हैं या पिता का देहान्त हो गया है। केवल इतना कहना कि पुरोहित और मन्त्री आपका कुशल पूछते हैं और आपका शीघ्र आना आवश्यक है। दूत तेज घोड़ों पर चल पड़ते हैं, और सर्ग उनका मार्ग बताता है, मालिनी नदी, हस्तिनापुर के पास गंगा, शरदण्डा आदि नदियाँ, और अन्त में थके घोड़ों के साथ वे रात में गिरिव्रज पहुँचते हैं।
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठः प्रत्युवाच ह ।
मित्र अमात्य गणान् सर्वान् ब्राह्मणाम्स् तान् इदम् वचः
teṣām tat vacanam śrutvā vasiṣṭhaḥ pratyuvāca ha |
mitra amātya gaṇān sarvān brāhmaṇāms tān idam vacaḥ
यद् असौ मातुल कुले पुरे राज गृहे सुखी ।
भरतः वसति भ्रात्रा शत्रुघ्नेन समन्वितः
yad asau mātula kule pure rāja gṛhe sukhī |
bharataḥ vasati bhrātrā śatrughnena samanvitaḥ
तत् शीघ्रम् जवना दूता गच्चन्तु त्वरितैः हयैः ।
आनेतुम् भ्रातरौ वीरौ किम् समीक्षामहे वयम्
tat śīghram javanā dūtā gaccantu tvaritaiḥ hayaiḥ |
ānetum bhrātarau vīrau kim samīkṣāmahe vayam
गच्चन्तु इति ततः सर्वे वसिष्ठम् वाक्यम् अब्रुवन् ।
तेषाम् तत् वचनम् श्रुत्वा वसिष्ठो वाक्यम् अब्रवीत्
gaccantu iti tataḥ sarve vasiṣṭham vākyam abruvan |
teṣām tat vacanam śrutvā vasiṣṭho vākyam abravīt
एहि सिद्ध अर्थ विजय जयन्त अशोक नन्दन ।
श्रूयताम् इतिकर्तव्यम् सर्वान् एव ब्रवीमि वः
ehi siddha artha vijaya jayanta aśoka nandana |
śrūyatām itikartavyam sarvān eva bravīmi vaḥ
पुरम् राज गृहम् गत्वा शीघ्रम् शीघ्र जवैः हयैः ।
त्यक्त शोकैः इदम् वाच्यः शासनात् भरतः मम
puram rāja gṛham gatvā śīghram śīghra javaiḥ hayaiḥ |
tyakta śokaiḥ idam vācyaḥ śāsanāt bharataḥ mama
पुरोहितः त्वाम् कुशलम् प्राह सर्वे च मन्त्रिणः ।
त्वरमाणः च निर्याहि कृत्यम् आत्ययिकम् त्वया
purohitaḥ tvām kuśalam prāha sarve ca mantriṇaḥ |
tvaramāṇaḥ ca niryāhi kṛtyam ātyayikam tvayā
मा च अस्मै प्रोषितम् रामम् मा च अस्मै पितरम् मृतम् ।
भवन्तः शम्सिषुर् गत्वा राघवाणाम् इमम् क्षयम्
mā ca asmai proṣitam rāmam mā ca asmai pitaram mṛtam |
bhavantaḥ śamsiṣur gatvā rāghavāṇām imam kṣayam
कौशेयानि च वस्त्राणि भूषणानि वराणि च ।
क्षिप्रम् आदाय राज्ञः च भरतस्य च गच्चत
kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca |
kṣipram ādāya rājñaḥ ca bharatasya ca gaccata
दत्तपथ्यशना दूताजग्मुः स्वम् स्वम् निवेशनम् ।
केकयाम्स्ते गमिष्यन्तो हयानारुह्य सम्मतान्
dattapathyaśanā dūtājagmuḥ svam svam niveśanam |
kekayāmste gamiṣyanto hayānāruhya sammatān
ततः प्रास्थानिकम् कृत्वा कार्यशेषमनन्तरम् ।
वसिष्ठेनाभ्यनुज्ञाता दूताः सम्त्वरिता ययुः
tataḥ prāsthānikam kṛtvā kāryaśeṣamanantaram |
vasiṣṭhenābhyanujñātā dūtāḥ samtvaritā yayuḥ
न्यन्तेनापरतालस्य प्रलम्बस्योत्तरम् प्रति ।
निषेवमाणास्ते जग्मुर्नदीम् मध्येन मालिनीम्
nyantenāparatālasya pralambasyottaram prati |
niṣevamāṇāste jagmurnadīm madhyena mālinīm
ते हस्तिनापुरे गङ्गाम् तीर्त्वा प्रत्यङ्मुखा ययुः ।
पाञलदेशमासाद्य मध्येन कुरुजाङ्गलम्
te hastināpure gaṅgām tīrtvā pratyaṅmukhā yayuḥ |
pāñaladeśamāsādya madhyena kurujāṅgalam
सराम्सि च सुपूर्णानि नदीश्च विमलोदकाः ।
निरीक्षमाणास्ते जग्मुर्दूताः कार्यवशाद्द्रुतम्
sarāmsi ca supūrṇāni nadīśca vimalodakāḥ |
nirīkṣamāṇāste jagmurdūtāḥ kāryavaśāddrutam
ते प्रसन्नोदकाम् दिव्याम् नानाविहगसेविताम् ।
उपातिजग्मुर्वेगेन शरदण्डाम् जनाकुलाम्
te prasannodakām divyām nānāvihagasevitām |
upātijagmurvegena śaradaṇḍām janākulām
निकूलवृक्षमासाद्य दिव्यम् सत्योपयाचनम् ।
अभिगम्याभिवाद्यम् तम् कुलिङ्गाम् प्राविशन् पुरीम्
nikūlavṛkṣamāsādya divyam satyopayācanam |
abhigamyābhivādyam tam kuliṅgām prāviśan purīm
अभिकालम् ततः प्राप्यते बोधिभवनाच्च्युताम् ।
पितृपैतामहीम् पुण्याम् तेरुरिक्षुमतीम् नदीम्
abhikālam tataḥ prāpyate bodhibhavanāccyutām |
pitṛpaitāmahīm puṇyām terurikṣumatīm nadīm
अवेक्स्याञ्जलिपानाम्श्च ब्राह्मणान् वेदपारगान् ।
ययुर्मध्येन बाह्लीकान् सुदामानम् च पर्वतम्
aveksyāñjalipānāmśca brāhmaṇān vedapāragān |
yayurmadhyena bāhlīkān sudāmānam ca parvatam
विष्णोः पदम् प्रेक्षमाणा विपाशाम् चापि शाल्मालीम् ।
नदीर्वापीस्तटाकानि पल्वलानि सराम्सि च
viṣṇoḥ padam prekṣamāṇā vipāśām cāpi śālmālīm |
nadīrvāpīstaṭākāni palvalāni sarāmsi ca
पस्यन्तो विविधाम्श्चापि सिमहव्याग्रमृगद्विपान् ।
ययुः पथातिमहता शासनम् भर्तुरीप्सवः
pasyanto vividhāmścāpi simahavyāgramṛgadvipān |
yayuḥ pathātimahatā śāsanam bharturīpsavaḥ
ते श्रान्त वाहना दूता विकृष्टेन सता पथा ।
गिरि व्रजम् पुर वरम् शीघ्रम् आसेदुर् अन्जसा
te śrānta vāhanā dūtā vikṛṣṭena satā pathā |
giri vrajam pura varam śīghram āsedur anjasā
भर्तुः प्रिय अर्थम् कुल रक्षण अर्थम् ।
भर्तुः च वम्शस्य परिग्रह अर्थम् ।
अहेडमानाः त्वरया स्म दूता ।
रात्र्याम् तु ते तत् पुरम् एव याताः
bhartuḥ priya artham kula rakṣaṇa artham |
bhartuḥ ca vamśasya parigraha artham |
aheḍamānāḥ tvarayā sma dūtā |
rātryām tu te tat puram eva yātāḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)