अरण्यकाण्ड

सर्ग 70: कबन्ध की भुजाओं का छेदन

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्ततितमः सर्गः ॥३-७०॥

19 श्लोक · 70 में से 75

इस अध्याय में क्या होता है

कबन्ध की भुजाओं का छेदन

भाइयों को भुजाओं में पकड़े कबन्ध पूछता है, मुझे देखकर भी खड़े क्यों हो? भाग्य ने तुम्हें मेरा भोजन बनाकर भेजा है। पराक्रम का अवसर देखकर लक्ष्मण राम से कहते हैं कि यह हमें खा जाए, इससे पहले इसकी भुजाएँ काट दें। देश-काल जानने वाले दोनों भाई तलवारें खींचते हैं; राम दाहिनी और लक्ष्मण बाईं भुजा काट देते हैं। कबन्ध मेघ-सी गर्जना के साथ गिरकर पूछता है, तुम कौन हो? लक्ष्मण बताते हैं: ये इक्ष्वाकु कुल के राम हैं और मैं इनका छोटा भाई; वन में रहते हुए इनकी पत्नी को एक राक्षस हर ले गया। प्रसन्न कबन्ध दोनों नरश्रेष्ठों का स्वागत करता है और आनन्दित होता है कि उन्होंने उसकी बन्धन बनी भुजाएँ काट दीं।

70.1

तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्

tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau |
bāhupāśaparikṣiptau kabandho vākyamabravīt

70.2

तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ ।
आहारार्थं तु संदिष्टौ दैवेन हतचेतनौ

tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau |
āhārārthaṃ tu saṃdiṣṭau daivena hatacetanau

70.3

तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा ।
उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः

tacchrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā |
uvācārtisamāpanno vikrame kṛtaniścayaḥ

70.4

त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ।
तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू

tvāṃ ca māṃ ca purā tūrṇamādatte rākṣasādhamaḥ |
tasmādasibhyāmasyāśu bāhū chindāvahe gurū

70.5

भीषणोऽयं महाकायो राक्षसा भुजविक्रमः ।
लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति

bhīṣaṇo'yaṃ mahākāyo rākṣasā bhujavikramaḥ |
lokaṃ hyatijitaṃ kṛtvā hyāvāṃ hantumihecchati

70.6

निश्चेष्टानां वधो राजन् कुत्सितो जगतीपतेः ।
क्रतुमध्योपनीतानां पशूनामिव राघव

niśceṣṭānāṃ vadho rājan kutsito jagatīpateḥ |
kratumadhyopanītānāṃ paśūnāmiva rāghava

70.7

एतत् संजल्पितं श्रुत्वा तयोः क्रुद्धस्तु राक्षसः ।
विदार्यास्यं ततो रौद्रं तौ भक्षयितुमारभत्

etat saṃjalpitaṃ śrutvā tayoḥ kruddhastu rākṣasaḥ |
vidāryāsyaṃ tato raudraṃ tau bhakṣayitumārabhat

70.8

ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ ।
अच्छिन्दन्तां सुसंहृष्टौ बाहू तस्यांसदेशतः

tatastau deśakālajñau khaḍgābhyāmeva rāghavau |
acchindantāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśataḥ

70.9

दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः ।
चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः

dakṣiṇo dakṣiṇaṃ bāhumasaktamasinā tataḥ |
ciccheda rāmo vegena savyaṃ vīrastu lakṣmaṇaḥ

70.10

स पपात महाबाहुश्छिन्नबाहुर्महास्वनः ।
खं च गां च दिशश्चैव नादयञ्जलदो यथा

sa papāta mahābāhuśchinnabāhurmahāsvanaḥ |
khaṃ ca gāṃ ca diśaścaiva nādayañjalado yathā

70.11

स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः ।
दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः

sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ |
dīnaḥ papraccha tau vīrau kau yuvāmiti dānavaḥ

70.12

इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः ।
शशंस तस्य काकुस्त्थं कबन्धस्य महाबलः

iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ |
śaśaṃsa tasya kākustthaṃ kabandhasya mahābalaḥ

70.13

अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः ।
तस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्

ayamikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ |
tasyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam

70.14

मात्रा प्रतिहते राज्ये रामः प्रव्राजितो वनम् ।
मया सह चरत्येष भार्यया च महद् वनम्

mātrā pratihate rājye rāmaḥ pravrājito vanam |
mayā saha caratyeṣa bhāryayā ca mahad vanam

70.15

अस्य देवप्रभावस्य वसतो विजने वने ।
रक्षसापहृता भार्या यामिच्छन्ताविहागतौ

asya devaprabhāvasya vasato vijane vane |
rakṣasāpahṛtā bhāryā yāmicchantāvihāgatau

70.16

त्वं तु को वा किमर्थं वा कबन्धसदृशो वने ।
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे

tvaṃ tu ko vā kimarthaṃ vā kabandhasadṛśo vane |
āsyenorasi dīptena bhagnajaṅgho viceṣṭase

70.17

एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः ।
उवाच वचनं प्रीतस्तदिन्द्रवचनं स्मरन्

evamuktaḥ kabandhastu lakṣmaṇenottaraṃ vacaḥ |
uvāca vacanaṃ prītastadindravacanaṃ smaran

70.18

स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि वामहम् ।
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ

svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi vāmaham |
diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau

70.19

विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद् यथा ।
तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव

virūpaṃ yacca me rūpaṃ prāptaṃ hyavinayād yathā |
tanme śṛṇu naravyāghra tattvataḥ śaṃsatastava

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)