आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् ।
अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्
ājñapto rāvaṇenetthaṃ pratikūlaṃ ca rājavat |
abravīt paruṣaṃ vākyaṃ niḥśaṅko rākṣasādhipam
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥३-४१॥
20 श्लोक · 41 में से 75
अपने अहित का राजसी आदेश पाकर मारीच निर्भय होकर कहता है: तुम्हें पुत्र, राज्य और मन्त्रियों सहित विनाश का यह मार्ग किसने दिखाया? कौन पापी है जो तुम्हें सुखी देखकर प्रसन्न नहीं? निश्चय ही तुम्हें इस मार्ग से न रोकने वाले तुम्हारे मन्त्री वध के योग्य हैं। राजा की कृपा से मन्त्री धर्म, अर्थ, काम और यश पाते हैं, और उसके दोष से सब नष्ट हो जाता है। दूसरों के अपराध से अनेक सज्जन परिवार सहित नष्ट हो जाते हैं। मारीच कहता है कि राम के दर्शन मात्र से मेरी मृत्यु निश्चित है, और सीता को हरोगे तो परिवार सहित तुम भी मरोगे। यदि मेरे साथ आश्रम से सीता को लाओगे तो न तुम बचोगे, न मैं, न लंका, न राक्षस।
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् ।
अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम्
ājñapto rāvaṇenetthaṃ pratikūlaṃ ca rājavat |
abravīt paruṣaṃ vākyaṃ niḥśaṅko rākṣasādhipam
केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।
सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर
kenāyamupadiṣṭaste vināśaḥ pāpakarmaṇā |
saputrasya sarājyasya sāmātyasya niśācara
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् ।
केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः
kastvayā sukhinā rājan nābhinandati pāpakṛt |
kenedamupadiṣṭaṃ te mṛtyudvāramupāyataḥ
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर ।
इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा
śatravastava suvyaktaṃ hīnavīryā niśācara |
icchanti tvāṃ vinaśyantamuparuddhaṃ balīyasā
केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना ।
यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर
kenedamupadiṣṭaṃ te kṣudreṇāhitabuddhinā |
yastvāmicchati naśyantaṃ svakṛtena niśācara
वध्याः खलु न वध्यन्ते सचिवास्तव रावण ।
ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः
vadhyāḥ khalu na vadhyante sacivāstava rāvaṇa |
ye tvāmutpathamārūḍhaṃ na nigṛhṇanti sarvaśaḥ
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे
amātyaiḥ kāmavṛtto hi rājā kāpathamāśritaḥ |
nigrāhyaḥ sarvathā sadbhiḥ sa nigrāhyo na gṛhyase
धर्ममर्थं च कामं च यशश्च जयतां वर ।
स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर
dharmamarthaṃ ca kāmaṃ ca yaśaśca jayatāṃ vara |
svāmiprasādāt sacivāḥ prāpnuvanti niśācara
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।
व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः
viparyaye tu tatsarvaṃ vyarthaṃ bhavati rāvaṇa |
vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ
राजमूलो हि धर्मश्च यशश्च जयतां वर ।
तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः
rājamūlo hi dharmaśca yaśaśca jayatāṃ vara |
tasmāt sarvāsvavasthāsu rakṣitavyā narādhipāḥ
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ।
न चातिप्रतिकूलेन नाविनीतेन राक्षस
rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara |
na cātipratikūlena nāvinītena rākṣasa
ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै ।
विषमेषु रथाः शीघ्रं मन्दसारथयो यथा
ye tīkṣṇamantrāḥ sacivā bhujyante saha tena vai |
viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः ।
परेषामपराधेन विनष्टाः सपरिच्छदाः
bahavaḥ sādhavo loke yuktadharmamanuṣṭhitāḥ |
pareṣāmaparādhena vinaṣṭāḥ saparicchadāḥ
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।
रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा
svāminā pratikūlena prajāstīkṣṇena rāvaṇa |
rakṣyamāṇā na vardhante meṣā gomāyunā yathā
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ |
yeṣāṃ tvaṃ karkaśo rājā durbuddhirajitendriyaḥ
तदिदं काकतालीयं घोरमासादितं मया ।
अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि
tadidaṃ kākatālīyaṃ ghoramāsāditaṃ mayā |
atra tvaṃ śocanīyo'si sasainyo vinaśiṣyasi
मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति ।
अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः
māṃ nihatya tu rāmo'sāvacirāt tvāṃ vadhiṣyati |
anena kṛtakṛtyo'smi mriye cāpyariṇā hataḥ
दर्शनादेव रामस्य हतं मामवधारय ।
आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्
darśanādeva rāmasya hataṃ māmavadhāraya |
ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया ।
नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः
ānayiṣyasi cet sītāmāśramāt sahito mayā |
naiva tvamapi nāhaṃ vai naiva laṅkā na rākṣasāḥ
निवार्यमाणस्तु मया हितैषिणा
न मृष्यसे वाक्यमिदं निशाचर ।
परेतकल्पा हि गतायुषो नरा
हितं न गृह्णन्ति सुहृद्भिरीरितम्
nivāryamāṇastu mayā hitaiṣiṇā
na mṛṣyase vākyamidaṃ niśācara |
paretakalpā hi gatāyuṣo narā
hitaṃ na gṛhṇanti suhṛdbhirīritam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)