अरण्यकाण्ड

सर्ग 40: रावण का परामर्श ठुकराकर आदेश देना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चत्वारिंशः सर्गः ॥३-४०॥

27 श्लोक · 40 में से 75

इस अध्याय में क्या होता है

रावण का परामर्श ठुकराकर आदेश देना

रावण मारीच के हितकर वचनों को वैसे ही अस्वीकार करता है जैसे मरने वाला औषधि को। काल से प्रेरित होकर वह कठोर वचन कहता है: तुम्हारी बात खारी भूमि में बोए बीज-सी व्यर्थ है। खर को मारने वाले उस मूर्ख मनुष्य की पत्नी को हरने का मेरा निश्चय कोई नहीं डिगा सकता। मैंने तुमसे यह नहीं पूछा कि करूँ या न करूँ, केवल सहायता माँगी है। मन्त्री को पूछने पर हाथ जोड़कर बोलना चाहिए; राजा अग्नि, इन्द्र, सोम, यम और वरुण के पाँच रूप धारण करता है। तुम सोने का मृग बनकर सीता को लुभाओ, राम के स्वर में 'हा सीते, हा लक्ष्मण' पुकारो, फिर जहाँ चाहो जाओ। मैं तुम्हें आधा राज्य दूँगा; न मानोगे तो अभी मार डालूँगा।

40.1

मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः ।
उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्

mārīcasya tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ |
ukto na pratijagrāha martukāma ivauṣadham

40.2

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः ।
अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः

taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ |
abravīt paruṣaṃ vākyamayuktaṃ kālacoditaḥ

40.3

दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते ।
वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे

duṣkulaitadayuktārthaṃ mārīca mayi kathyate |
vākyaṃ niṣphalamatyarthaṃ bījamuptamivoṣare

40.4

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे ।
मूर्खस्य पापशीलस्य मानुषस्य विशेषतः

tvadvākyairna tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge |
mūrkhasya pāpaśīlasya mānuṣasya viśeṣataḥ

40.5

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा ।
स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः

yastyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā |
strīvākyaṃ prākṛtaṃ śrutvā vanamekapade gataḥ

40.6

अवश्यं तु मया तस्य संयुगे खरघातिनः ।
प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ

avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ |
prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau

40.7

एवं मे निश्चिता बुद्धिर्हृदि मारीच विद्यते ।
न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः

evaṃ me niścitā buddhirhṛdi mārīca vidyate |
na vyāvartayituṃ śakyā sendrairapi surāsuraiḥ

40.8

दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि ।
अपायं वा उपायं वा कार्यस्यास्य विनिश्चये

doṣaṃ guṇaṃ vā sampṛṣṭastvamevaṃ vaktumarhasi |
apāyaṃ vā upāyaṃ vā kāryasyāsya viniścaye

40.9

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता ।
उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः

sampṛṣṭena tu vaktavyaṃ sacivena vipaścitā |
udyatāñjalinā rājño ya icched bhūtimātmanaḥ

40.10

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् ।
उपचारेण वक्तव्यो युक्तं च वसुधाधिपः

vākyamapratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam |
upacāreṇa vaktavyo yuktaṃ ca vasudhādhipaḥ

40.11

सावमर्दं तु यद्वाक्यमथवा हितमुच्यते ।
नाभिनन्देत तद् राजा मानार्थी मानवर्जितम्

sāvamardaṃ tu yadvākyamathavā hitamucyate |
nābhinandeta tad rājā mānārthī mānavarjitam

40.12

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः ।
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च

pañca rūpāṇi rājāno dhārayantyamitaujasaḥ |
agnerindrasya somasya yamasya varuṇasya ca

40.13

औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् ।
धारयन्ति महात्मानो राजानः क्षणदाचर

auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām |
dhārayanti mahātmāno rājānaḥ kṣaṇadācara

40.14

तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा ।
त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः

tasmāt sarvāsvavasthāsu mānyāḥ pūjyāśca nityadā |
tvaṃ tu dharmamavijñāya kevalaṃ mohamāśritaḥ

40.15

अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम् ।
गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस

abhyāgataṃ tu daurātmyāt paruṣaṃ vadasīdṛśam |
guṇadoṣau na pṛcchāmi kṣemaṃ cātmani rākṣasa

40.16

मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम ।
अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि

mayoktamapi caitāvat tvāṃ pratyamitavikrama |
asmiṃstu sa bhavān kṛtye sāhāyyaṃ kartumarhasi

40.17

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम ।
सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः

śṛṇu tatkarma sāhāyye yatkāryaṃ vacanānmama |
sauvarṇastvaṃ mṛgo bhūtvā citro rajatabindubhiḥ

40.18

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ।
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि

āśrame tasya rāmasya sītāyāḥ pramukhe cara |
pralobhayitvā vaidehīṃ yatheṣṭaṃ gantumarhasi

40.19

त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया ।
आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली

tvāṃ hi māyāmayaṃ dṛṣṭvā kāñcanaṃ jātavismayā |
ānayainamiti kṣipraṃ rāmaṃ vakṣyati maithilī

40.20

अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर ।
हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्

apakrānte ca kākutsthe dūraṃ gatvāpyudāhara |
hā sīte lakṣmaṇetyevaṃ rāmavākyānurūpakam

40.21

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः ।
अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्

tacchrutvā rāmapadavīṃ sītayā ca pracoditaḥ |
anugacchati sambhrāntaḥ saumitrirapi sauhṛdāt

40.22

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् ।
आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव

apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham |
āhariṣyāmi vaidehīṃ sahasrākṣaḥ śacīmiva

40.23

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस ।
राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत

evaṃ kṛtvā tvidaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa |
rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata

40.24

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये ।
अहं त्वानुगमिष्यामि सरथो दण्डकावनम्

gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye |
ahaṃ tvānugamiṣyāmi saratho daṇḍakāvanam

40.25

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् ।
लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया

prāpya sītāmayuddhena vañcayitvā tu rāghavam |
laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā

40.26

नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै ।
एतत् कार्यमवश्यं मे बलादपि करिष्यसि ।
राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते

no cet karoṣi mārīca hanmi tvāmahamadya vai |
etat kāryamavaśyaṃ me balādapi kariṣyasi |
rājño vipratikūlastho na jātu sukhamedhate

40.27

आसाद्य तं जीवितसंशयस्ते
मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः ।
एतद् यथावत् परिगण्य बुद्ध्या
यदत्र पथ्यं कुरु तत्तथा त्वम्

āsādya taṃ jīvitasaṃśayaste
mṛtyurdhruvo hyadya mayā virudhyataḥ |
etad yathāvat parigaṇya buddhyā
yadatra pathyaṃ kuru tattathā tvam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)