अरण्यकाण्ड

सर्ग 19: खर का चौदह राक्षसों को भेजना

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनविंशः सर्गः ॥३-१९॥

26 श्लोक · 19 में से 75

इस अध्याय में क्या होता है

खर का चौदह राक्षसों को भेजना

बहन को गिरी हुई, रक्त से सनी और विरूप देखकर खर क्रोध से जल उठता है और पूछता है कि यह किसने किया। कौन है जो काले विषधर नाग को उँगली से छेड़ता है? वह प्रतिज्ञा करता है कि बाणों से उस शत्रु के प्राण पी लेगा। रोती हुई शूर्पणखा बताती है कि दो युवक हैं, सुन्दर, बलवान, तपस्वी वेश में, दशरथ के पुत्र राम और लक्ष्मण, और उनके साथ एक सुन्दर स्त्री है; उसी स्त्री के कारण मेरी यह दशा हुई। वह कहती है, मैं रणभूमि में उन दोनों भाइयों और उस स्त्री का रक्त पीना चाहती हूँ। खर तुरन्त मृत्यु के समान चौदह भयंकर राक्षसों को आदेश देता है कि जाकर उन दोनों पुरुषों और उस स्त्री को मार डालो, जिससे मेरी बहन उनका रक्त पी सके।

19.1

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः

tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām |
bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ

19.2

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् ।
व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता

uttiṣṭha tāvadākhyāhi pramohaṃ jahi sambhramam |
vyaktamākhyāhi kena tvamevaṃrūpā virūpitā

19.3

कः कृष्णसर्पमासीनमाशीविषमनागसम् ।
तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया

kaḥ kṛṣṇasarpamāsīnamāśīviṣamanāgasam |
tudatyabhisamāpannamaṅgulyagreṇa līlayā

19.4

कालपाशं समासज्य कण्ठे मोहान्न बुध्यते ।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्

kālapāśaṃ samāsajya kaṇṭhe mohānna budhyate |
yastvāmadya samāsādya pītavān viṣamuttamam

19.5

बलविक्रमसम्पन्ना कामगा कामरूपिणी ।
इमामवस्थां नीता त्वं केनान्तकसमागता

balavikramasampannā kāmagā kāmarūpiṇī |
imāmavasthāṃ nītā tvaṃ kenāntakasamāgatā

19.6

देवगन्धर्वभूतानामृषीणां च महात्मनाम् ।
कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह

devagandharvabhūtānāmṛṣīṇāṃ ca mahātmanām |
ko'yamevaṃ mahāvīryastvāṃ virūpāṃ cakāra ha

19.7

नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् ।
अमरेषु सहस्राक्षं महेन्द्रं पाकशासनम्

nahi paśyāmyahaṃ loke yaḥ kuryānmama vipriyam |
amareṣu sahasrākṣaṃ mahendraṃ pākaśāsanam

19.8

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तगैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः

adyāhaṃ mārgaṇaiḥ prāṇānādāsye jīvitāntagaiḥ |
salile kṣīramāsaktaṃ niṣpibanniva sārasaḥ

19.9

निहतस्य मया संख्ये शरसंकृत्तमर्मणः ।
सफेनं रुधिरं कस्य मेदिनी पातुमिच्छति

nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ |
saphenaṃ rudhiraṃ kasya medinī pātumicchati

19.10

कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः ।
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे

kasya patrarathāḥ kāyānmāṃsamutkṛtya saṃgatāḥ |
prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe

19.11

तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ।
मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे

taṃ na devā na gandharvā na piśācā na rākṣasāḥ |
mayāpakṛṣṭaṃ kṛpaṇaṃ śaktāstrātuṃ mahāhave

19.12

उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि ।
येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता

upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitumarhasi |
yena tvaṃ durvinītena vane vikramya nirjitā

19.13

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः ।
ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्

iti bhrāturvacaḥ śrutvā kruddhasya ca viśeṣataḥ |
tataḥ śūrpaṇakhā vākyaṃ sabāṣpamidamabravīt

19.14

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ

taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau

19.15

फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ

phalamūlāśanau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyāstāṃ bhrātarau rāmalakṣmaṇau

19.16

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।
देवौ वा दानवावेतौ न तर्कयितुमुत्सहे

gandharvarājapratimau pārthivavyañjanānvitau |
devau vā dānavāvetau na tarkayitumutsahe

19.17

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता ।
दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा

taruṇī rūpasampannā sarvābharaṇabhūṣitā |
dṛṣṭā tatra mayā nārī tayormadhye sumadhyamā

19.18

ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताहं यथानाथासती तथा

tābhyāmubhābhyāṃ sambhūya pramadāmadhikṛtya tām |
imāmavasthāṃ nītāhaṃ yathānāthāsatī tathā

19.19

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि

tasyāścānṛjuvṛttāyāstayośca hatayoraham |
saphenaṃ pātumicchāmi rudhiraṃ raṇamūrdhani

19.20

एष मे प्रथमः कामः कृतस्तत्र त्वया भवेत् ।
तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे

eṣa me prathamaḥ kāmaḥ kṛtastatra tvayā bhavet |
tasyāstayośca rudhiraṃ pibeyamahamāhave

19.21

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्

iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān |
vyādideśa kharaḥ kruddho rākṣasānantakopamān

19.22

मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह

mānuṣau śastrasampannau cīrakṛṣṇājināmbarau |
praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha

19.23

तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ ।
इयं च भगिनी तेषां रुधिरं मम पास्यति

tau hatvā tāṃ ca durvṛttāmupāvartitumarhatha |
iyaṃ ca bhaginī teṣāṃ rudhiraṃ mama pāsyati

19.24

मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः ।
शीघ्रं सम्पाद्यतां गत्वा तौ प्रमथ्य स्वतेजसा

manoratho'yamiṣṭo'syā bhaginyā mama rākṣasāḥ |
śīghraṃ sampādyatāṃ gatvā tau pramathya svatejasā

19.25

युष्माभिर्निहतौ दृष्ट्वा तावुभौ भ्रातरौ रणे ।
इयं प्रहृष्टा मुदिता रुधिरं युधि पास्यति

yuṣmābhirnihatau dṛṣṭvā tāvubhau bhrātarau raṇe |
iyaṃ prahṛṣṭā muditā rudhiraṃ yudhi pāsyati

19.26

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश ।
तत्र जग्मुस्तया सार्धं घना वातेरिता इव

iti pratisamādiṣṭā rākṣasāste caturdaśa |
tatra jagmustayā sārdhaṃ ghanā vāteritā iva

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)