विराट पर्व

अध्याय 76: विराट युधिष्ठिर के चरणों में गिरते हैं

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः ॥

20 श्लोक · 76 में से 78

इस अध्याय में क्या होता है

विराट युधिष्ठिर के चरणों में गिरते हैं

उत्तर पिता से कहता है कि अब युधिष्ठिर को प्रसन्न करने का समय है। स्वयं विराट को इन भाइयों ने छुड़ाया, गायें और कुरुओं पर विजय इन्हीं का काम है, और पाण्डव पूजनीय हैं, क्योंकि क्रोध में वे विषधर सर्प जैसे हैं। मेरी बहन उत्तरा अर्जुन को अर्पित करें। विराट मान जाते हैं। मन्त्रियों, पुत्र और बन्धुओं के साथ, उत्तरा को आगे करके वे युधिष्ठिर के सामने भूमि पर गिर पड़ते हैं। वे कहते हैं कि तिनकों से ढकी अग्नि पहचानी न गई; अनजाने में जो हुआ, उसे क्षमा करें। वे राज्य, नगर, सेना और कोष अर्पित कर शरण माँगते हैं। क्रोध और शोक से मुक्त युधिष्ठिर कहते हैं कि वे प्रसन्न हैं और विराट में कोई दोष नहीं देखते। हर्षित विराट सारा राज्य उन्हें सौंप देते हैं।

वैशंपायन उवाच

76.1

विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः ।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे

virāṭasya vacaḥ śrutvā pārthivasya mahātmanaḥ |
uttaraḥ pratyuvācedamabhipanno yudhiṣṭhire

76.2

प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये ।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः

prasādanaṃ prāptakālaṃ pāṇḍavasyābhirocaye |
tejasvī balavāñśūro rājarājeśvaraḥ prabhuḥ

76.3

उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन ।
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे ।

uttarāṃ ca svasāraṃ me pārthasyāmitrakarśana |
praṇipatya prayacchāmastataḥ śiṣṭā bhavāmahe |

76.4

वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे

vayaṃ ca sarve sāmātyāḥ kuntīputraṃ yudhiṣṭhiram |
prasādyābhyupatiṣṭhāmo rājankiṃ karavāgahe

76.5

राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया

rājaṃstvamasi saṃgrāme gṛhītastena mokṣitaḥ |
eteṣāṃ bāhuvīryeṇa gāvaśca vijitāstvayā

76.6

कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः

kuravo nirjitā yasmātsaṃgrāme'mitatejasaḥ |
eṣa tatsarvamakarotkuntīputro yudhiṣṭhiraḥ

76.7

अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः ।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम्

arcyāḥ pūjyāśca mānyāśca pratyuttheyāśca pāṇḍavāḥ |
arvārhāścābhivādyāśca prāptakālaṃ ca me matam

76.8

पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः ।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः

pūjyatāṃ pūjanīyāśca mahābhāgāśca pāṇḍavāḥ |
na hyete kupitā śeṣaṃ kuryurāśīviṣopamāḥ

76.9

तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः

tasmācchīghraṃ prapadyema kuntīputraṃ yudhiṣṭhiram |
prasādayāmyahaṃ tatra saha pārthermahātmabhiḥ

76.10

उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम्

uttarāmagrataḥ kṛtvā śiraḥsnātāṃ kṛtāñjaliḥ |
jānāmyahamidaṃ sarvameṣāṃ tu balapauruṣam |
kule ca janma mahati phalgunasya ca vikramam

76.11

उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः ।
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत्

uttarātpāṇḍavāñśrutvā virāṭo ripusūdanaḥ |
uttaraṃ cāpi saṃprekṣya prāptakālamacintayat

76.12

ततो विराटः सामात्यः सहपुत्रः सबान्धवः ।
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः

tato virāṭaḥ sāmātyaḥ sahaputraḥ sabāndhavaḥ |
uttarāmagrataḥ kṛtvā śiraḥsnātāṃ kṛtāñjaliḥ |
bhūmau nipatitastūrṇaṃ pāṇḍavasya samīpataḥ

विराट उवाच

76.13

प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः ।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः

prasīdatu mahārājo dharmaputro yudhiṣṭhiraḥ |
pracchannarūpaveṣatvānnāgnirdṛṣṭastṛṇairvṛtaḥ

76.14

शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः

śirasā'bhiprapannosmi saputraparicārakaḥ

76.15

यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः ।
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा ।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल

yadasmābhirajānadbhiradhikṣipto mahīpatiḥ |
avamatya kṛtaṃ sarvamajñānātprākṛte yathā |
kṣantumarhasi tatsarvaṃ dharmajño dharmavatsala

76.16

यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव ।
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः

yadidaṃ māmakaṃ rāṣṭraṃ puraṃ rājyaṃ ca pārthiva |
sadaṇḍakośaṃ visṛje tava vaśyosmi pārthiva |
vayaṃ ca sarve sāmātyā bhavantaṃ śaraṇaṃ gatāḥ

वैशंपायन उवाच

76.17

तं धर्मराजः पतितं महीतले
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः
प्रनष्टमन्युर्गतशोकमत्सरः

taṃ dharmarājaḥ patitaṃ mahītale
sabandhuvargaṃ prasamīkṣya pārthivam |
uvāca vākyaṃ paralokadarśanaḥ
pranaṣṭamanyurgataśokamatsaraḥ

76.18

समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम

samīkṣya tuṣṭosmi narendrasattama

76.19

क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव ।
न चैव किंचित्पश्यामि विकृतं ते नराधिप

kṣāntametanmahābāho yanmāṃ vadasi pārthiva |
na caiva kiṃcitpaśyāmi vikṛtaṃ te narādhipa

76.20

ततो विराटः परमामितुष्टः
समेत्य राज्ञा समयं चकार ।
राज्यं च सर्वं विससर्ज तस्मै
सदण्डकोशं सपुरं महात्मा

tato virāṭaḥ paramāmituṣṭaḥ
sametya rājñā samayaṃ cakāra |
rājyaṃ ca sarvaṃ visasarja tasmai
sadaṇḍakośaṃ sapuraṃ mahātmā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)