उद्योग पर्व

अध्याय 93: श्रीकृष्ण कौरवों के पास क्यों आए

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिनवतितमोऽध्यायः ॥

23 श्लोक · 93 में से 196

इस अध्याय में क्या होता है

श्रीकृष्ण कौरवों के पास क्यों आए

माता पिता जैसे वचनों के लिए विदुर को धन्यवाद देकर श्रीकृष्ण आने का कारण बताते हैं। वे दुर्योधन की दुष्टता और क्षत्रियों का वैर जानते हुए भी आए हैं। जो पूरी शक्ति से धर्मकार्य का यत्न करता है, वह सफल न होने पर भी उसका पुण्य पाता है। वे बिना छल के उन कौरवों और सृञ्जयों में शान्ति का यत्न करेंगे जो अन्यथा युद्ध में नष्ट होंगे। विपत्ति में पड़े मित्र को बचाने का यत्न न करने वाले को ज्ञानी क्रूर कहते हैं। कोई अधर्मी यह न कहे कि समर्थ होकर भी श्रीकृष्ण ने क्रुद्ध कौरवों और पाण्डवों को नहीं रोका। यदि मूर्ख उनकी बात न माने, तो वह दैव के वश होगा। यह कहकर श्रीकृष्ण शय्या पर विश्राम करते हैं।

वैशंपायन उवाच

93.1

विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः ।
इदं होवाच वचनं मधुरं मधुसूदनः

vidurasya vacaḥ śrutvā praśritaṃ puruṣottamaḥ |
idaṃ hovāca vacanaṃ madhuraṃ madhusūdanaḥ

श्रीभगवानुवाच

93.2

यथा व्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः ।
सथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत्

yathā vrūyānmahāprājño yathā brūyādvicakṣaṇaḥ |
sathā vācyastvadvidhena bhavatā madvidhaḥ suhṛt

93.3

धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते ।
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत्

dharmārthayuktaṃ tathyaṃ ca yathā tvayyupapadyate |
tathā vacanamukto'sti tvayaitatpitṛmātṛvat

93.4

सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम् ।
श्रृणुष्वागमने हेतुं विदुरावहितो मम

satyaṃ prāptaṃ ca yuktaṃ vā'pyevameva yathā''ttha mām |
śrṛṇuṣvāgamane hetuṃ vidurāvahito mama

93.5

दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् ।
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान्

daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām |
sarvametadahaṃ jānankṣattaḥ prāpto'dya kauravān

93.6

पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम्

paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām |
yo mocayenmṛtyupāśātprāpnuyāddharmamuttamam

93.7

धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः ।
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः

dharmakāryaṃ yatañśaktyā no cetprāpnoti mānavaḥ |
prāpto bhavati tatpuṇyamatra me nāsti saṃśayaḥ

93.8

मनसा चिन्तयन्पापं कर्मणा नातिरोचयन् ।
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः

manasā cintayanpāpaṃ karmaṇā nātirocayan |
na prāpnoti phalaṃ tasyetyevaṃ dharmavido viduḥ

93.9

सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया ।
कुरूणां सृञ्जयानां च सङ्ग्राने विनशिष्यताम्

so'haṃ yatiṣye praśamaṃ kṣattaḥ kartumamāyayā |
kurūṇāṃ sṛñjayānāṃ ca saṅgrāne vinaśiṣyatām

93.10

सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः

seyamāpanmahāghorā kuruṣveva samutthitā |
karṇaduryodhanakṛtā sarve hyete tadanvayāḥ

93.11

व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः

vyasane kliśyamānaṃ hi yo mitraṃ nābhipadyate |
anunīya yathāśakti taṃ nṛśaṃsaṃ vidurbudhāḥ

93.12

आकेशग्रहणान्मित्रमकार्यात्संनिवर्तयन् ।
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम्

ākeśagrahaṇānmitramakāryātsaṃnivartayan |
avācyaḥ kasyacidbhavati kṛtayatno yathābalam

93.13

तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् ।
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति

tatsamarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam |
dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati

93.14

हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया

hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca |
pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye'hamamāyayā

93.15

हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि ।
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति

hite prayatamānaṃ māṃ śaṅkedduryodhano yadi |
hṛdayasya ca me prītirānṛṇyaṃ ca bhaviṣyati

93.16

ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः

jñātīnāṃ hi mitho bhede yanmitraṃ nābhipadyate |
sarvayatnena mādhyasthyaṃ na tanmitraṃ vidurbudhāḥ

93.17

न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा ।
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान्

na māṃ brūyuradharmiṣṭhā mūḍhā hyasuhṛdastathā |
śakto nāvārayatkṛṣṇaḥ saṃrabdhānkurupāṇḍavān

93.18

उभयोः साधयन्नर्थमहामागत इत्युत ।
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम्

ubhayoḥ sādhayannarthamahāmāgata ityuta |
tatra yatnamahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām

93.19

मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् ।
न चेदादास्यते बालो दिष्टस्य वशमेष्यति

mama dharmārthayuktaṃ hi śrutvā vākyamanāmayam |
na cedādāsyate bālo diṣṭasya vaśameṣyati

93.20

अहापयन्पाण्डवार्थं यथाव-
च्छमं कुरूणां यदि चाचरेयम् ।
पुण्यं च मे स्याच्चरितं महात्म-
न्मुच्येरंश्च कुरवो मृत्युपाशात्

ahāpayanpāṇḍavārthaṃ yathāva-
cchamaṃ kurūṇāṃ yadi cācareyam |
puṇyaṃ ca me syāccaritaṃ mahātma-
nmucyeraṃśca kuravo mṛtyupāśāt

93.21

अपि वाचं भाषमाणस्य काव्यां
धर्मरामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः शमार्थं
मां च प्राप्तं कुरवः पूजयेयुः

api vācaṃ bhāṣamāṇasya kāvyāṃ
dharmarāmāmarthavatīmahiṃsrām |
avekṣerandhārtarāṣṭrāḥ śamārthaṃ
māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ

93.22

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः

na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ |
kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ

वैशंपायन उवाच

93.23

इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा ।
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः

ityevamuktvā vacanaṃ vṛṣṇīnāmṛṣabhastadā |
śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)