उक्तं बहुविधं वाक्यं धर्मराजेन माधव ।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया
uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava |
dharmajñena vadānyena śrutaṃ caiva hi tattvayā
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनाशीतितमोऽध्यायः ॥
18 श्लोक · 79 में से 196
नकुल कहते हैं कि श्रीकृष्ण ने युधिष्ठिर की बात, भीम की शान्ति की इच्छा और बल का बखान, और अर्जुन के वचन सुने हैं; अब वे सबको तौलकर समयोचित करें। परिस्थिति से मत बदलता है: वनवास में कौरव कुछ और सोचते थे, अज्ञातवास में कुछ और, और अब प्रकट होने पर कुछ और। श्रीकृष्ण की कृपा से सात अक्षौहिणी एकत्र हैं। कौरव सभा में वे पहले मधुर फिर भय दिखाने वाले वचन कहें, ताकि मूर्ख दुर्योधन विचलित हो, और सात्यकि, विराट, द्रुपद तथा धृष्टद्युम्न का नाम लें। उनके जाने मात्र से धर्मराज का इष्ट निःसन्देह सिद्ध होगा। विदुर, भीष्म, द्रोण और बाह्लीक हित समझते हैं और धृतराष्ट्र तथा उनके पुत्र को मनाएँगे। जब सुनने वाले विदुर हों और कहने वाले जनार्दन, तब कौन सी बात मार्ग से भटकेगी?
नकुल उवाच
उक्तं बहुविधं वाक्यं धर्मराजेन माधव ।
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया
uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava |
dharmajñena vadānyena śrutaṃ caiva hi tattvayā
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव ।
संशमो बाहुवीर्य च ख्यापितं माधवात्मनः
matamājñāya rājñaśca bhīmasenena mādhava |
saṃśamo bāhuvīrya ca khyāpitaṃ mādhavātmanaḥ
तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् ।
आत्मनश्च मतं वीर कथितं भवताऽसकृत्
tathaiva phālgunenāpi yaduktaṃ tattvayā śrutam |
ātmanaśca mataṃ vīra kathitaṃ bhavatā'sakṛt
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् ।
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम
sarvametadatikramya śrutvā paramataṃ bhavān |
yatprāptakālaṃ manyethāstatkuryāḥ puruṣottama
तस्मिंरतस्मिन्निमित्ते हि मतं भवति केशव ।
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम
tasmiṃratasminnimitte hi mataṃ bhavati keśava |
prāptakālaṃ manuṣyeṇa kṣamaṃ kāryamarindama
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।
अनित्यमतयो लोके नराः पुरुषसत्तम
anyathā cintito hyarthaḥ punarbhavati so'nyathā |
anityamatayo loke narāḥ puruṣasattama
अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु ।
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा
anyathābuddhayo hyāsannasmāsu vanavāsiṣu |
adṛśyeṣvanyathā kṛṣṇa dṛśyeṣu punaranyathā
अस्माकमपि वार्ष्णेय वने विचरतां तदा ।
न तथा प्रणयो राज्ये यथा संप्रति वर्तते
asmākamapi vārṣṇeya vane vicaratāṃ tadā |
na tathā praṇayo rājye yathā saṃprati vartate
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।
अक्षौहिण्यो हि सप्ते मास्त्वत्प्रसादाज्जनार्दन
nivṛttavanavāsānnaḥ śrutvā vīra samāgatāḥ |
akṣauhiṇyo hi sapte māstvatprasādājjanārdana
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषात् ।
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान्
imānhi puruṣavyāghrānacintyabalapauruṣāt |
āttaśastrānraṇe dṛṣṭvā na vyathediha kaḥ pumān
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम् ।
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः
sa bhavānkurumadhye taṃ sāntvapūrvaṃ bhayottaram |
brūyādvākyaṃ yathā mando na vyatheta suyodhanaḥ
युधिष्ठिरं भीमसेनं बीभत्सुं चापराचितम् ।
सहदेवं च मां चैव त्वां च रामं च केशव
yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparācitam |
sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava
सात्यकिं च महावीर्यं विराटं च महात्मजम् ।
द्रुपदं च महामात्यं धृष्टद्युम्नं च माधव
sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca mahātmajam |
drupadaṃ ca mahāmātyaṃ dhṛṣṭadyumnaṃ ca mādhava
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् ।
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि
kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam |
māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi
स भवान्गमनादेव साधयिष्यत्यसंशयम् ।
इष्टमर्थं महाबाहो धर्मराजस्य केवलम्
sa bhavāngamanādeva sādhayiṣyatyasaṃśayam |
iṣṭamarthaṃ mahābāho dharmarājasya kevalam
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः ।
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ
viduraścaiva bhīṣmaśca droṇaśca sahabāhlikaḥ |
śreyaḥ samarthā vijñātumucyamānāstvayā'nagha
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् ।
तं च पापसमाचारं सहामात्यं सुयोधनम्
te cainamanuneṣyanti dhṛtarāṣṭraṃ janādhipam |
taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन ।
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि
śrotā cārthasya vidurastvaṃ ca vaktā janārdana |
kamivārthaṃ nivartantaṃ sthāpayetāṃ na vartmani
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)