कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय
kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram |
kathamenaṃ na vedāhaṃ tanmamācakṣva sañjaya
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टषष्टितमोऽध्यायः ॥
21 श्लोक · 68 में से 196
धृतराष्ट्र पूछते हैं कि संजय सब लोकों के महेश्वर माधव को कैसे जानते हैं, जबकि वे स्वयं नहीं जानते। संजय कहते हैं कि राजा के पास विद्या नहीं, पर उनकी विद्या क्षीण नहीं हुई; विद्याहीन, अन्धकार से घिरा व्यक्ति केशव को नहीं जानता। वे छल नहीं करते और भक्ति से शुद्ध हुए भाव से शास्त्र द्वारा जनार्दन को जानते हैं। हृषीकेश की शरण जाने को कहने पर दुर्योधन मना करते हैं: देवकीपुत्र लोकों का नाश भी कर दें, तो भी अर्जुन को सखा कहने वाले केशव के पास वे नहीं जाएँगे। गान्धारी उन्हें ऐश्वर्य का लोभी दुष्टात्मा कहकर फटकारती हैं। व्यास कहते हैं कि धृतराष्ट्र श्रीकृष्ण के प्रिय हैं। संजय कहते हैं कि अजितेन्द्रिय मनुष्य केशव को नहीं पा सकते; इन्द्रियनिग्रह ही ज्ञानियों का मार्ग है।
धृतराष्ट्र उवाच
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् ।
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय
kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram |
kathamenaṃ na vedāhaṃ tanmamācakṣva sañjaya
सञ्जय उवाच
श्रृणु राजन्न ते विद्या मम विद्या न हीयते ।
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम्
śrṛṇu rājanna te vidyā mama vidyā na hīyate |
vidyāhīnastamodhvasto nābhijānāti keśavam
विद्यया तात जानामि त्रियुगं मधुसूदनम् ।
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम्
vidyayā tāta jānāmi triyugaṃ madhusūdanam |
kartāramakṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam
धृतराष्ट्र उवाच
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने ।
यया त्वमभिजानासि त्रियुगं मधुसूदनम्
gāvalgaṇe'tra kā bhaktiryā te nityā janārdane |
yayā tvamabhijānāsi triyugaṃ madhusūdanam
सञ्जय उवाच
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे ।
शुद्धभावं गतो भक्त्या शास्त्रद्वेद्मि जनार्दनम्
māyāṃ na seve bhadraṃ te na vṛthādharmamācare |
śuddhabhāvaṃ gato bhaktyā śāstradvedmi janārdanam
धृतराष्ट्र उवाच
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् ।
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम्
duryodhana hṛṣīkeśaṃ prapadyasva janārdanam |
āpto naḥ sañjayastāta śaraṇaṃ gaccha keśavam
दुर्योधन उवाच
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति ।
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम्
bhagavāndevakīputro lokāṃścennihaniṣyati |
pravadannarjune sakhyaṃ nāhaṃ gacche'dya keśavam
धृतराष्ट्र उवाच
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः ।
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः
avāggāndhāri putraste gacchatyeṣa sudurmatiḥ |
īrṣurdurātmā mānī ca śreyasāṃ vacanātigaḥ
गान्धार्युवाच
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग ।
ऐश्वर्यजीतिते हित्वा पितरं मां च बालिश
aiśvaryakāma duṣṭātmanvṛddhānāṃ śāsanātiga |
aiśvaryajītite hitvā pitaraṃ māṃ ca bāliśa
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् ।
निहतो भीमसेनेन स्मर्ताति वचनं पितुः
vardhayandurhṛdāṃ prītiṃ māṃ ca śokena vardhayan |
nihato bhīmasenena smartāti vacanaṃ pituḥ
व्यास उवाच
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे ।
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते
priyo'si rājankṛṣṇasya dhṛtarāṣṭra nibodha me |
yasya te sañjayo dūto yastvāṃ śreyasi yokṣyate
जानात्येष हृषीकेशं पुराणं यच्च वै परम् ।
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात्
jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai param |
śuśrūṣamāṇamaikāgryaṃ mokṣyate mahato bhayāt
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः ।
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः
vaicitravīrya puruṣāḥ krodhaharṣasamāvṛtāḥ |
sitā bahuvidhaiḥ pāśairye na tuṣṭāḥ svakairdhanaiḥ
यमस्य वशमायान्ति काममूढाः पुनः पुनः ।
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः
yamasya vaśamāyānti kāmamūḍhāḥ punaḥ punaḥ |
andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ
एष एकायनः पन्था येन यान्ति मनीषिणः ।
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सञ्जति
eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ |
taṃ dṛṣṭvā mṛtyumatyeti mahāṃstatra na sañjati
धृतराष्ट्र उवाच
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् ।
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम्
aṅga sañjaya me śaṃsa panthānamakutobhayam |
yena gatvā hṛṣīkeśaṃ prāpnuyāṃ siddhimuttamām
सञ्जय उवाच
नाकृतात्मा कृतात्मानं जातु विद्याञ्जनार्दनम् ।
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात्
nākṛtātmā kṛtātmānaṃ jātu vidyāñjanārdanam |
ātmanastu kriyopāyo nānyatrendriyanigrahāt
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः ।
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम्
indriyāṇāmudīrṇānāṃ kāmatyāgo'pramādataḥ |
apramādo'vihiṃsā ca jñānayonirasaṃśayam
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः ।
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः
indriyāṇāṃ yame yatto bhava rājannatandritaḥ |
buddhiśca te mā cyuvatu niyacchaināṃ yatastataḥ
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् ।
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः
etajjñānaṃ vidurviprā dhruvamindriyadhāraṇam |
etajjñānaṃ ca panthāśca yena yānti manīṣiṇaḥ
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः ।
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति
aprāpyaḥ keśavo rājannindriyairajitairnṛbhiḥ |
āgamādhigamādyogādvaśī tattve prasīdati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)