दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः
duryodhana vijānīhi yattvāṃ vakṣyāmi putraka |
utpathaṃ manyase mārgamanabhijña ivādhvagaḥ
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चषष्टितमोऽध्यायः ॥
16 श्लोक · 65 में से 196
धृतराष्ट्र दुर्योधन से कहते हैं कि तुम मार्ग न जानने वाले पथिक की तरह कुमार्ग को मार्ग मान रहे हो। पाँचों पाण्डव पाँच महाभूतों जैसे हैं। युधिष्ठिर परम धर्म में स्थित हैं; भीम के समान बलवान कोई नहीं, उन्हें धमकाना आँधी को ललकारते वृक्ष जैसा है; पर्वतों में मेरु जैसे गाण्डीवधारी से कौन बुद्धिमान लड़ेगा? सात्यकि तुम्हारी सेना को नष्ट करेंगे। श्रीकृष्ण के लिए एक ओर पत्नी, जाति, बन्धु, अपना आत्मा और पृथ्वी है, और दूसरी ओर अकेले धनञ्जय। वे कहते हैं कि भीष्म और हितैषियों की बात मानो, जो दोनों पक्षों से समान स्नेह रखते हैं, और याद करो कि विराटनगर में अकेले अर्जुन ने सबको भगा दिया था। उन्हें भाई मानो और उनकी जीविका दो।
धृतराष्ट्र उवाच
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक ।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः
duryodhana vijānīhi yattvāṃ vakṣyāmi putraka |
utpathaṃ manyase mārgamanabhijña ivādhvagaḥ
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि ।
पञ्चानामिव भूतानां महतां लोकधारिणाम्
pañcānāṃ pāṇḍuputrāṇāṃ yattejaḥ prajihīrṣasi |
pañcānāmiva bhūtānāṃ mahatāṃ lokadhāriṇām
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् ।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि
yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmamihāsthitam |
parāṃ gatimasaṃpretya na tvaṃ jetumihārhasi
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले ।
रणान्तकं तर्जयसे महावातमिव द्रुमः
bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale |
raṇāntakaṃ tarjayase mahāvātamiva drumaḥ
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव ।
युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान्
sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ sikhariṇāmiva |
yudhi gāṇḍivadhanvānaṃ ko nu yudhyeta buddhimān
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् ।
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव
dhṛṣṭadyumnaśca pāñcālyaḥ kamivādya na śātayet |
śatrumadhye śarānmuñcandevarāḍaśanīmiva
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु ।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः
sātyakiścāpi durdharṣaḥ saṃmato'ndhakavṛṣṇiṣu |
dhvaṃsayiṣyati te senāṃ pāṇḍaveyahite rataḥ
यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान्
yaḥ punaḥ pratimānena trīllokānatiricyate |
taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yuddhyeta buddhimān
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः ।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः
ekato hyasya dārāśca jñātayaśca sabāndhavāḥ |
ātmā ca pṛthivī ceyamekataśca dhanañjayaḥ
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः
vāsudevo'pi durdharṣo yatātmā yatra pāṇḍavaḥ |
aviṣahyaṃ pṛthivyāpi tadbalaṃ yatra keśavaḥ
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् ।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम्
tiṣṭha tāta satāṃ vākye suhṛdāmarthavādinām |
vṛddhaṃ śāntanavaṃ bhīṣmaṃ titikṣasva pitāmaham
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्
māṃ ca bruvāṇaṃ śuśrūṣa kurūṇāmarthadarśinam |
droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam
एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा ।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत
ete hyapi yataivāhaṃ mantumarhasi tāṃstathā |
sarve dharmavido hyete tulyasnehāśca bhārata
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः ।
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत
yattadvirāṭanagare saha bhrātṛbhiragrataḥ |
utsṛjya gāḥ susantrastaṃ balaṃ te samaśīryata
यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम् ।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
yaccaiva nagare tasmiñśrūyate mahadadbhutam |
ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते ।
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय
arjunastattathākārṣītkiṃ punaḥ sarva eva te |
sa bhrātṝnabhijānīhi vṛttyā taṃ pratipādaya
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)