उद्योग पर्व

अध्याय 25: संजय धृतराष्ट्र का शान्ति-संदेश सुनाते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि पञ्चविंशोऽध्यायः ॥

15 श्लोक · 25 में से 196

इस अध्याय में क्या होता है

संजय धृतराष्ट्र का शान्ति-संदेश सुनाते हैं

पाण्डव, सृञ्जय, श्रीकृष्ण, सात्यकि और विराट एकत्र होते हैं, और युधिष्ठिर संदेश सुनाने को कहते हैं। संजय सबको नाम लेकर सम्बोधित करते हैं । राजा धृतराष्ट्र शान्ति चाहते हैं और उन्होंने उतावली से उनका रथ जुतवाया; पाण्डवों को भी शान्ति प्रिय हो। वे कुलीन और कोमल हैं, अपने को कलंकित न करें। जिस युद्ध में सबका नाश हो और जीत-हार बराबर हो, वह ज्ञानी का काम नहीं। कौरवों को कुचलकर भी, स्वजनों को मारकर पाया जीवन मृत्यु के समान है। और द्रोण, भीष्म, अश्वत्थामा, शल्य, कृप और कर्ण से रक्षित कौरवों को कौन जीत सकता है? हाथ जोड़कर संजय श्रीकृष्ण और वृद्ध द्रुपद की शरण लेते हैं: कौरवों और सृञ्जयों दोनों का कल्याण कैसे हो? वे कहते हैं, यही भीष्म और राजा का मत है।

युधिष्ठिर उवाच

25.1

समागताः पाण्डवाः सृञ्जयाश्च
जनार्दनो युयुधानो विराटः ।
यत्ते वाक्यं धृतराष्ट्रानुशिष्टं
गावल्गणे ब्रूहि तत्सूतपुत्र

samāgatāḥ pāṇḍavāḥ sṛñjayāśca
janārdano yuyudhāno virāṭaḥ |
yatte vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ
gāvalgaṇe brūhi tatsūtaputra

संजय उवाच

25.2

अजातशत्रुं च वृकोदरं च
धनञ्जयं माद्रवतीसुतौ च ।
आमन्त्रये वासुदेवं च शौरिं
युयुधानं चेकितानं विराटम्

ajātaśatruṃ ca vṛkodaraṃ ca
dhanañjayaṃ mādravatīsutau ca |
āmantraye vāsudevaṃ ca śauriṃ
yuyudhānaṃ cekitānaṃ virāṭam

25.3

पञ्चालानामधिपं चैव वृद्धं
धृष्टद्युम्नं पार्षतं याज्ञसेनिम् ।
सर्वे वाचं शृणुतेमां मदीयां
वक्ष्यामि यां भूतिमिच्छन्कुरूणाम्

pañcālānāmadhipaṃ caiva vṛddhaṃ
dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim |
sarve vācaṃ śṛṇutemāṃ madīyāṃ
vakṣyāmi yāṃ bhūtimicchankurūṇām

25.4

शमं राजा धृतराष्ट्रोऽभिनन्द-
न्नयोजयत्त्वरमाणो रथं मे ।
सभ्रातृपुत्रस्वजनस्य राज्ञ-
स्तद्रोचतां पाण्डवानां शमोऽस्तु

śamaṃ rājā dhṛtarāṣṭro'bhinanda-
nnayojayattvaramāṇo rathaṃ me |
sabhrātṛputrasvajanasya rājña-
stadrocatāṃ pāṇḍavānāṃ śamo'stu

25.5

सर्वैर्धर्मैः समुपेतास्तु पार्थाः
संस्थानेन मार्दनेवार्जवेन ।
जाताः कुले ह्यनृशंसा वदान्या
हीनिषेवाः कर्मणां निश्चयज्ञाः

sarvairdharmaiḥ samupetāstu pārthāḥ
saṃsthānena mārdanevārjavena |
jātāḥ kule hyanṛśaṃsā vadānyā
hīniṣevāḥ karmaṇāṃ niścayajñāḥ

25.6

न युज्यते कर्म युष्मासु हीनं
सत्वं हि वस्तादृशं भीमसेनाः ।
उद्भासते ह्यञ्जनबिन्दुवत्त-
च्छुभ्रे वस्त्रे यद्भवेत्किल्बिषं वः

na yujyate karma yuṣmāsu hīnaṃ
satvaṃ hi vastādṛśaṃ bhīmasenāḥ |
udbhāsate hyañjanabinduvatta-
cchubhre vastre yadbhavetkilbiṣaṃ vaḥ

25.7

सर्वक्षयो दृश्यते यत्र कृत्स्नः
पापोदयो भावसंस्थः कुरूणाम् ।
कस्तत्र कुर्याञ्जातु कर्म प्रजानन्
पराजयो यत्र समो जयश्च

sarvakṣayo dṛśyate yatra kṛtsnaḥ
pāpodayo bhāvasaṃsthaḥ kurūṇām |
kastatra kuryāñjātu karma prajānan
parājayo yatra samo jayaśca

25.8

ते वै धन्या यैः कृतं ज्ञातिकार्यं
ते वै पुत्राः सुहृदो बान्धवाश्च ।
उपक्रुष्टं जीवितं सन्त्यजेयु-
र्यतः कुरूणां नियतो वै भवः स्यात्

te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ
te vai putrāḥ suhṛdo bāndhavāśca |
upakruṣṭaṃ jīvitaṃ santyajeyu-
ryataḥ kurūṇāṃ niyato vai bhavaḥ syāt

25.9

ते चेत्कुरूननुशिष्याथ पार्था
निर्णीय सर्वान्द्विषतो निगृह्य ।
समं वस्तज्जीवितं मृत्युन स्या-
द्यज्जीवध्वं ज्ञातिवधेन साधु

te cetkurūnanuśiṣyātha pārthā
nirṇīya sarvāndviṣato nigṛhya |
samaṃ vastajjīvitaṃ mṛtyuna syā-
dyajjīvadhvaṃ jñātivadhena sādhu

25.10

को ह्येव युष्मान्सह केशवेन
सचेकितानान्पार्षतबाहुगुप्तान् ।
ससात्यकीन्विषहेत प्रजेतुं
लब्ध्वाऽपि देवान्सचिवान्सहेन्द्रान्

ko hyeva yuṣmānsaha keśavena
sacekitānānpārṣatabāhuguptān |
sasātyakīnviṣaheta prajetuṃ
labdhvā'pi devānsacivānsahendrān

25.11

को वा कुरून्द्रोणभीष्माभिगुप्ता-
नश्वत्थाम्ना शल्यकृपादिभिश्च ।
रणे विजेतुं विषहेत राजन्
राधेयगुप्तान्सह भूमिपालैः

ko vā kurūndroṇabhīṣmābhiguptā-
naśvatthāmnā śalyakṛpādibhiśca |
raṇe vijetuṃ viṣaheta rājan
rādheyaguptānsaha bhūmipālaiḥ

25.12

महद्बलं धार्तराष्ट्रस्य राज्ञः
को वै शक्तो हन्तुमक्षीयमाणः ।
सोऽहं जये चैव पराजये च
निःश्रेयसं नाधिगच्छामि किंचित्

mahadbalaṃ dhārtarāṣṭrasya rājñaḥ
ko vai śakto hantumakṣīyamāṇaḥ |
so'haṃ jaye caiva parājaye ca
niḥśreyasaṃ nādhigacchāmi kiṃcit

25.13

कथं हि नीचा इव दौष्कुलेया
निर्धर्मार्थं कर्म कुर्युश्च पार्थाः ।
सोऽहं प्रसाद्य प्रणतो वासुदेवं
पञ्चालानामधिपं चैव वृद्धम्

kathaṃ hi nīcā iva dauṣkuleyā
nirdharmārthaṃ karma kuryuśca pārthāḥ |
so'haṃ prasādya praṇato vāsudevaṃ
pañcālānāmadhipaṃ caiva vṛddham

25.14

कृताञ्जलिः शरणं वः प्रपद्ये
कथं स्वस्ति स्यात्कुरुसृञ्जयानाम् ।
न ह्येवमेवं वचनं वासुदेवो
धनञ्जयो वा जातु किंचिन्न कुर्यात्

kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye
kathaṃ svasti syātkurusṛñjayānām |
na hyevamevaṃ vacanaṃ vāsudevo
dhanañjayo vā jātu kiṃcinna kuryāt

25.15

प्रणान्दद्याद्याचमानः कुतोऽन्य-
देतद्विद्वन्साधनार्थं ब्रवीमि ।
एतद्राज्ञो भीष्मपुरोगमस्य
मतं यद्वः शान्तिरिहोत्तमा स्यात्

praṇāndadyādyācamānaḥ kuto'nya-
detadvidvansādhanārthaṃ bravīmi |
etadrājño bhīṣmapurogamasya
mataṃ yadvaḥ śāntirihottamā syāt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)