उद्योग पर्व

अध्याय 189: शिखण्डी के विवाह से रहस्य खुलता है

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि एकोननवत्यधिकशततमोऽध्यायः ॥

25 श्लोक · 189 में से 196

इस अध्याय में क्या होता है

शिखण्डी के विवाह से रहस्य खुलता है

द्रुपद की पुत्री शिल्प और द्रोण से धनुर्विद्या सीखती है। युवा होने पर माता आग्रह करती है कि पुत्र की तरह इसके लिए भी पत्नी लाई जाए। द्रुपद हिचकते हैं; रानी को विश्वास है कि शिव का वचन व्यर्थ नहीं होगा। वे दशार्ण के शक्तिशाली राजा हिरण्यवर्मा की पुत्री को चुनते हैं, और विवाह करके शिखण्डी काम्पिल्य लौटते हैं। कुछ समय बाद वधू जान लेती है कि शिखण्डी स्त्री है और लज्जा से अपनी धायों और सखियों को बताती है, जो उसके पिता तक समाचार भेजती हैं। छल से क्रुद्ध हिरण्यवर्मा का दूत एकान्त में द्रुपद से कहता है: तुमने मेरे बल और कुल का अपमान किया; जब तक हो सके भोग भोग लो, मैं तुम्हें उखाड़ने आ रहा हूँ।

भीष्म उवाच

189.1

चकार यत्नं द्रुपदः सुतायाः सर्वकर्मसु ।
ततो लेख्यादिषु तथा शिल्पेषु च परंतप

cakāra yatnaṃ drupadaḥ sutāyāḥ sarvakarmasu |
tato lekhyādiṣu tathā śilpeṣu ca paraṃtapa

189.2

इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ।
तस्य माता महाराज राजानं वरवर्णिनी

iṣvastre caiva rājendra droṇaśiṣyo babhūva ha |
tasya mātā mahārāja rājānaṃ varavarṇinī

189.3

चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ।
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।
स्त्रियं मत्वा ततश्चिन्तां प्रपेदे सह भार्यया

codayāmāsa bhāryārthaṃ kanyāyāḥ putravattadā |
tatastāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām |
striyaṃ matvā tataścintāṃ prapede saha bhāryayā

द्रुपद उवाच

189.4

कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः

kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī |
mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ

भार्योवाच

189.5

न तन्मिथ्या महाराज भविष्यति कथंचन ।
त्रैलोक्यकर्ता कस्माद्धि वृथा वक्तुमिहार्हति

na tanmithyā mahārāja bhaviṣyati kathaṃcana |
trailokyakartā kasmāddhi vṛthā vaktumihārhati

189.6

यदि ते रोचते राजन्वक्ष्यामि श्रृणु मे वचः ।
श्रुत्वेदानीं प्रपद्येथाः स्वां मतिं पृषतात्मज

yadi te rocate rājanvakṣyāmi śrṛṇu me vacaḥ |
śrutvedānīṃ prapadyethāḥ svāṃ matiṃ pṛṣatātmaja

189.7

क्रियतामस्य यत्नेन विधिवद्दारसंग्रहः ।
भविता तद्वचः सत्यमिति मे निश्चिता मतिः

kriyatāmasya yatnena vidhivaddārasaṃgrahaḥ |
bhavitā tadvacaḥ satyamiti me niścitā matiḥ

189.8

ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दंपती ।
वरयाञ्चक्रतुः कन्यां दशार्णाधिपतेः सुताम्

tatastau niścayaṃ kṛtvā tasminkārye'tha daṃpatī |
varayāñcakratuḥ kanyāṃ daśārṇādhipateḥ sutām

189.9

ततो राजा द्रुपदो राजसिंहः
सर्वान्राज्ञः कुलतः सन्निशाम्य ।
दाशार्णकस्य नृपतेस्तनूजां
शिखण्डिने वरयामास दारान्

tato rājā drupado rājasiṃhaḥ
sarvānrājñaḥ kulataḥ sanniśāmya |
dāśārṇakasya nṛpatestanūjāṃ
śikhaṇḍine varayāmāsa dārān

189.10

हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः ।
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने

hiraṇyavarmeti nṛpo yo'sau dāśārṇakaḥ smṛtaḥ |
sa ca prādānmahīpālaḥ kanyāṃ tasmai śikhaṇḍine

189.11

स च राजा दशार्णेषु महानासीत्सुदुर्जयः ।
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः

sa ca rājā daśārṇeṣu mahānāsītsudurjayaḥ |
hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ

189.12

कृते विवाहे तु तदा सा कन्या राजसत्तम ।
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी

kṛte vivāhe tu tadā sā kanyā rājasattama |
yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī

189.13

कृतदारः शिखण्डी च काम्पिल्यं पुनरागमत् ।
न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल ।
यदा त्वेनामजानात्सा स्त्रियमेव नृपात्मजा

kṛtadāraḥ śikhaṇḍī ca kāmpilyaṃ punarāgamat |
na ca sā veda tāṃ kanyāṃ kaṃcitkālaṃ striyaṃ kila |
yadā tvenāmajānātsā striyameva nṛpātmajā

189.14

धात्रीणां च सखीनां च व्रीडयाना न्यवेदयत् ।
कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम्

dhātrīṇāṃ ca sakhīnāṃ ca vrīḍayānā nyavedayat |
kanyāṃ pāñcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm

189.15

ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा ।
जग्मुरार्ति परां प्रेष्याः प्रेषयामासुरेव च

tatastā rājaśārdūla dhātryo dāśārṇikāstadā |
jagmurārti parāṃ preṣyāḥ preṣayāmāsureva ca

189.16

ततो दशार्णाधिपतेः प्रेष्याः सर्वा न्यवेदयन् ।
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः

tato daśārṇādhipateḥ preṣyāḥ sarvā nyavedayan |
vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ

189.17

शिखण्ड्यपि महाराज पुंवद्राजकुले तदा ।
विजहार म्रुदा युक्तः स्त्रीत्वं नैवातिरोचयन्

śikhaṇḍyapi mahārāja puṃvadrājakule tadā |
vijahāra mrudā yuktaḥ strītvaṃ naivātirocayan

189.18

ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।
हिरण्यवर्मा राजेन्द्र रोषादर्तिं जगाम ह

tataḥ katipayāhasya tacchrutvā bharatarṣabha |
hiraṇyavarmā rājendra roṣādartiṃ jagāma ha

189.19

ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।
दूतं प्रस्थापयामास द्रुपदस्य निवेशनम्

tato dāśārṇako rājā tīvrakopasamanvitaḥ |
dūtaṃ prasthāpayāmāsa drupadasya niveśanam

189.20

ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः ।
एक एकान्तसुत्सार्य रहो वचनमब्रवीत्

tato drupadamāsādya dūtaḥ kāñcanavarmaṇaḥ |
eka ekāntasutsārya raho vacanamabravīt

189.21

दाशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।
अभिष्गात्प्रकुपितो विप्रलब्धस्त्वयाऽनघ

dāśārṇarājo rājaṃstvāmidaṃ vacanamabravīt |
abhiṣgātprakupito vipralabdhastvayā'nagha

189.22

अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव ।
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि

avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava |
yanme kanyāṃ svakanyārthe mohādyācitavānasi

189.23

तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।
एष त्वं सजनामात्यमुद्धरामि स्थिरो भव

tasyādya vipralambhasya phalaṃ prāpnuhi durmate |
eṣa tvaṃ sajanāmātyamuddharāmi sthiro bhava

189.24

अवमत्य च वीर्यं मे कुलं चारित्रमेव च ।
विप्रलम्भस्त्वयापूर्वो मनुष्येषु प्रवर्तितः

avamatya ca vīryaṃ me kulaṃ cāritrameva ca |
vipralambhastvayāpūrvo manuṣyeṣu pravartitaḥ

189.25

कुरु सर्वाणि कार्याणि भुङ्क्ष्व कभोगाननुत्तमान् ।
अभियास्यामि शीघ्रं त्वां समुद्धर्तुं सबान्धवम्

kuru sarvāṇi kāryāṇi bhuṅkṣva kabhogānanuttamān |
abhiyāsyāmi śīghraṃ tvāṃ samuddhartuṃ sabāndhavam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)