उद्योग पर्व

अध्याय 172: भीष्म शिखण्डी पर प्रहार नहीं करेंगे

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥

21 श्लोक · 172 में से 196

इस अध्याय में क्या होता है

भीष्म शिखण्डी पर प्रहार नहीं करेंगे

भीष्म पाण्डव पक्ष की गणना पूरी करते हैं। भीमसेन के मामा पुरुजित कुन्तिभोज अतिरथी हैं, जो भानजों के लिए जी-जान से लड़ेंगे। हिडिम्बा से जन्मे भीम-पुत्र घटोत्कच, मायावी राक्षसराज, रथयूथपों के यूथप हैं। श्रीकृष्ण को आगे रखकर ये राजा युधिष्ठिर की सेना चलाएँगे। भीष्म कहते हैं कि विजय या मृत्यु की इच्छा से मैं इन सबसे लड़ूँगा, और सन्ध्या में सूर्य-चन्द्र जैसे साथ आने वाले श्रीकृष्ण और अर्जुन को भी रोकूँगा। एक अपवाद वे घोषित करते हैं। पिता का प्रिय करने के लिए मैंने राज्य छोड़ा, ब्रह्मचर्य-व्रत लिया और देवव्रत नाम से प्रसिद्ध हूँ। मैं स्त्री को, या जो पहले स्त्री थी उसे, कभी नहीं मारूँगा। शिखण्डी कन्या रूप में जन्मे और पुरुष बने, इसलिए मैं उनसे नहीं लड़ूँगा।

भीष्म उवाच

172.1

रोचमानो महाराज पाण्डवानां महारथः ।
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत

rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ |
yotsyate'maravatsaṃkhye parasainyeṣu bhārata

172.2

पुरुजित्कृन्तिभोजश्च महेष्वासो महाबलः ।
मातुलो भीमसेनस्य स च मेऽतिरथो मतः

purujitkṛntibhojaśca maheṣvāso mahābalaḥ |
mātulo bhīmasenasya sa ca me'tiratho mataḥ

172.3

एष वीरो महेष्वासः कृती च निपुणश्च ह ।
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः

eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha |
citrayodhī ca śaktaśca mato me rathapuṅgavaḥ

172.4

स योत्स्यति हि विक्रम्य मघवानिव दानवैः ।
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः

sa yotsyati hi vikramya maghavāniva dānavaiḥ |
yodhā ye cāsya vikhyātāḥ sarve yuddhaviśāradāḥ

172.5

भागिनेयकृते वीरः स करिष्यति संगरे ।
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः

bhāgineyakṛte vīraḥ sa kariṣyati saṃgare |
sumahatkarma pāṇḍūnāṃ sthitaḥ priyahite rataḥ

172.6

भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः ।
मतो मे बहुमायावी रथयूथपयूथपः

bhaimasenirmahārāja haiḍimbo rākṣaseśvaraḥ |
mato me bahumāyāvī rathayūthapayūthapaḥ

172.7

योत्स्यते समरे तात मायावी समरप्रियः ।
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः

yotsyate samare tāta māyāvī samarapriyaḥ |
ye cāsya rākṣasā vīrāḥ sacivā vaśavartinaḥ

172.8

एते चान्ये च बहवो नानाजनपदेश्वराः ।
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः

ete cānye ca bahavo nānājanapadeśvarāḥ |
sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ

172.9

एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः ।
रथाश्चातिरथाश्चैव ये चान्येऽर्धंरथा नृप

ete prādhānyato rājanpāṇḍavasya mahātmanaḥ |
rathāścātirathāścaiva ye cānye'rdhaṃrathā nṛpa

172.10

नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप ।
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना

neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa |
mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā

172.11

तैरहं समरे वीर मायाविद्भिर्जयैषिभिः ।
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे

tairahaṃ samare vīra māyāvidbhirjayaiṣibhiḥ |
yotsyāmi jayamākāṅkṣannatha vā nidhanaṃ raṇe

172.12

वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ ।
सन्ध्यागताविवार्केन्दू सभेष्येते रथोत्तमौ

vāsudevaṃ ca pārthaṃ ca cakragāṇḍīvadhāriṇau |
sandhyāgatāvivārkendū sabheṣyete rathottamau

172.13

यं चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः ।
सह सैन्यानहं तांश्च प्रतीयां रणमूर्धनि

yaṃ caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ |
saha sainyānahaṃ tāṃśca pratīyāṃ raṇamūrdhani

172.14

एते रथाश्चातिरथाश्च तुभ्यं
यथाप्रधानं नृप कीर्तिता मया ।
तथा परे येऽर्धरथाश्च केचि-
त्तथैंव तेषामपि कौरवेन्द्र

ete rathāścātirathāśca tubhyaṃ
yathāpradhānaṃ nṛpa kīrtitā mayā |
tathā pare ye'rdharathāśca keci-
ttathaiṃva teṣāmapi kauravendra

172.15

अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः ।
सर्वांस्तान्वारयिष्यामि यावद्द्रक्ष्यामि भारत

arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ |
sarvāṃstānvārayiṣyāmi yāvaddrakṣyāmi bhārata

172.16

पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् ।
उद्यतेषमथो दृष्ट्वा प्रतियुध्यन्तमाहवे

pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam |
udyateṣamatho dṛṣṭvā pratiyudhyantamāhave

172.17

लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया ।
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः

lokastaṃ veda yadahaṃ pituḥ priyacikīrṣayā |
prāptaṃ rājyaṃ parityajya brahmacaryavrate sthitaḥ

172.18

चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम् ।
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम्

citrāṅgadaṃ kauravāṇāmādhipatye'bhyaṣecayam |
vicitravīryaṃ ca śiśuṃ yauvarājye'bhyaṣecayam

172.19

देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु ।
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन

devavratatvaṃ vijñāpya pṛthivīṃ sarvarājasu |
naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kadācana

172.20

स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।
कन्या भूत्वा पुमाञ्चातो न योत्स्ये तेन भारत

sa hi strīpūrvako rājañśikhaṇḍī yadi te śrutaḥ |
kanyā bhūtvā pumāñcāto na yotsye tena bhārata

172.21

सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ ।
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप

sarvāṃstvanyānhaniṣyāmi pārthivānbharatarṣabha |
yānsameṣyāmi samare na tu kuntīsutānnṛpa

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)