राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।
प्राप्ता किमर्थं भवती ब्रूहि किं करवामि ते
rādheyo'hamādhirathiḥ karṇastvāmabhivādaye |
prāptā kimarthaṃ bhavatī brūhi kiṃ karavāmi te
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
12 श्लोक · 145 में से 196
जप पूरा कर कर्ण हाथ जोड़कर प्रणाम करते हैं: मैं राधा और अधिरथ का पुत्र कर्ण हूँ, आपकी क्या सेवा करूँ? कुन्ती कहती हैं: तुम कौन्तेय हो, राधेय नहीं; तुम सूतकुल में नहीं जन्मे। कुन्तिभोज के घर कन्यावस्था में मैंने तुम्हें जना, तुम मेरे पहले पुत्र हो। तेजस्वी सूर्यदेव ने तुम्हें उत्पन्न किया, कुण्डलों और सहज कवच के साथ। अपने भाइयों को न जानकर तुम मोह से धृतराष्ट्र के पुत्रों की सेवा करते हो, यह तुम्हें शोभा नहीं देता। माता-पिता को प्रसन्न करना ही धर्म का फल है। अर्जुन की जीती लक्ष्मी फिर ले लो। कौरव कर्ण और अर्जुन को बलराम और जनार्दन की तरह एक देखें। पाँच भाइयों के बीच तुम देवताओं में ब्रह्मा की तरह शोभा पाओगे। स्वयं को सूतपुत्र मत कहो।
कर्ण उवाच
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।
प्राप्ता किमर्थं भवती ब्रूहि किं करवामि ते
rādheyo'hamādhirathiḥ karṇastvāmabhivādaye |
prāptā kimarthaṃ bhavatī brūhi kiṃ karavāmi te
कुन्त्युवाच
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता ।
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः
kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā |
nāsi sūtakule jātaḥ karṇa tadviddhi me vacaḥ
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः ।
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक
kānīnastvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ |
kuntirājasya bhavane pārthastvamasi putraka
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः ।
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम्
prakāśakarmā tapano yo'yaṃ devo virocanaḥ |
ajījanattvāṃ mayyeṣa karṇa śastrabhṛtāṃ varam
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः ।
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे
kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ |
jātastvamasi durdharṣa mayā putra piturgṛhe
स त्वं भ्रातॄनसंबुद्ध्य मोहद्यदुपसेवसे ।
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः
sa tvaṃ bhrātṝnasaṃbuddhya mohadyadupasevase |
dhārtarāṣṭrānna tadyuktaṃ tvayi putra viśeṣataḥ
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये ।
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी
etaddharmaphalaṃ putra narāṇāṃ dharmaniścaye |
yattuṣyantyasya pitaro mātā cāpyekadarśinī
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः ।
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष यौधिष्ठिरीं श्रियम्
arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhādasādhubhiḥ |
ācchidya dhārtarāṣṭrebhyo bhuṅkṣa yaudhiṣṭhirīṃ śriyam
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् ।
सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः ।
adya paśyantu kuravaḥ karṇārjunasamāgamam |
saubhrātreṇa samālakṣya saṃnamantāmasādhavaḥ |
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ ।
असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः
karṇārjunau vai bhavatāṃ yathā rāmajanārdanau |
asādhyaṃ kiṃ nu loke syādyuvayoḥ saṃhitātmanoḥ
कर्ण शोभिष्यसे नूनं पञ्चमिर्भ्रातृभिर्वृतः ।
देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे
karṇa śobhiṣyase nūnaṃ pañcamirbhrātṛbhirvṛtaḥ |
devaiḥ parivṛto brahmā vedyāmiva mahādhvare
उपपद्यो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु ।
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान्
upapadyo guṇaiḥ sarvairjyeṣṭhaḥ śreṣṭheṣu bandhuṣu |
sūtaputreti mā śabdaḥ pārthastvamasi vīryavān
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)