उद्योग पर्व

अध्याय 142: श्रीकृष्ण युद्ध का दिन निश्चित करते हैं

20 श्लोक · 142 में से 196

इस अध्याय में क्या होता है

श्रीकृष्ण युद्ध का दिन निश्चित करते हैं

कर्ण का उत्तर सुनकर श्रीकृष्ण मुस्कराते हैं: तो मेरा दिया राज्य तुम्हें नहीं लुभाता, मेरी दी पृथ्वी पर तुम शासन नहीं करना चाहते। पाण्डवों की विजय निश्चित है। अर्जुन की ध्वजा पर उग्र वानरराज इन्द्रध्वज की तरह ऊँचा उठा है। फिर टेक आती है: जब तुम श्रीकृष्ण को सारथि बने अर्जुन को देखोगे, वज्र जैसी गाण्डीव की टंकार सुनोगे, युधिष्ठिर को तपते और भीम को मदमत्त हाथी जैसा देखोगे, तब न कृत रहेगा, न त्रेता, न द्वापर। कर्ण, जाकर द्रोण, भीष्म और कृप से कहना कि यह मास सुखद है। आज से सातवें दिन इन्द्र देवता वाली अमावस्या है; उसी दिन युद्ध हो। दुर्योधन के पीछे चलकर शस्त्र से मरने वाले राजा उत्तम गति पाएँगे।

वैशंपायन उवाच

142.1

कर्णस्य वचनं श्रुत्वा केशवः परवीरहा ।
उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं यथा

karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā |
uvāca prahasanvākyaṃ smitapūrvamidaṃ yathā

श्रीभगवानुवाच

142.2

अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम् ।
मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि

api tvāṃ na labhetkarṇa rājyalambhopapādanam |
mayā dattāṃ hi pṛthivīṃ na praśāsitumicchasi

142.3

ध्रुवो जयः पाण्डवानामितीदं
न संशयः कश्चन विद्यतेऽत्र ।
जयध्वजो दृश्यते पाण्डवस्य
समुच्छ्रितो वानरराज उग्रः ।

dhruvo jayaḥ pāṇḍavānāmitīdaṃ
na saṃśayaḥ kaścana vidyate'tra |
jayadhvajo dṛśyate pāṇḍavasya
samucchrito vānararāja ugraḥ |

142.4

दिव्या माया विहिता भौमनेन
समुच्छ्रिता इन्द्रकेतुप्रकाशाः ।
दिव्यानि भूतानि जयावहानि
दृश्यन्ति चैवात्र भयानकानि

divyā māyā vihitā bhaumanena
samucchritā indraketuprakāśāḥ |
divyāni bhūtāni jayāvahāni
dṛśyanti caivātra bhayānakāni

142.5

न सञ्जते शैलवनस्पतिभ्य
ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।
श्रीमान्ध्वजः कर्ण धनञ्जयस्य
समुच्छ्रितः पावकतुल्यरूपः

na sañjate śailavanaspatibhya
ūrdhvaṃ tiryagyojanamātrarūpaḥ |
śrīmāndhvajaḥ karṇa dhanañjayasya
samucchritaḥ pāvakatulyarūpaḥ

142.6

यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् ।
ऐन्द्रमस्त्रं विकुर्वाणमुभे चाप्यग्निमारुते

yadā drakṣyasi saṅgrāme śvetāśvaṃ kṛṣṇasārathim |
aindramastraṃ vikurvāṇamubhe cāpyagnimārute

142.7

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः ।
न तदा भविता त्रेता न कृतं द्वापरं न च

gāṇḍīvasya ca nirghoṣaṃ visphūrjitamivāśaneḥ |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

142.8

यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् ।
जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम्

yadā drakṣyasi saṅgrāme kuntīputraṃ yudhiṣṭhiram |
japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm

142.9

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च

ādityamiva durdharṣaṃ tapantaṃ śatruvāhinīm |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

142.10

यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् ।
दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे

yadā drakṣyasi saṅgrāme bhīmasenaṃ mahābalam |
duḥśāsanasya rudhiraṃ pītvā nṛtyantamāhave

142.11

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।
न तदा भविता त्रेता न कृतं द्वापरं न च

prabhinnamiva mātaṅgaṃ pratidviradaghātinam |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

142.12

यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् ।
सुयोधनंच राजानं सैन्धवं च जयद्रथम्

yadā drakṣyasi saṅgrāme droṇaṃ śāntanavaṃ kṛpam |
suyodhanaṃca rājānaṃ saindhavaṃ ca jayadratham

142.13

युद्धायापततस्तूर्णं वारितान्सव्यसाचिना ।
न तदा भविता त्रेता न कृतं द्वापरं न च

yuddhāyāpatatastūrṇaṃ vāritānsavyasācinā |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

142.14

यदा द्रक्ष्यसि सङ्‌ग्रामे माद्रीपुत्रौ महाबलौ ।
वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव

yadā drakṣyasi saṅ‌grāme mādrīputrau mahābalau |
vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva

142.15

विगाढे शस्त्रसंपाते परवीररथारुजौ ।
न तदा भविता त्रेता न कृतं द्वापरं न च

vigāḍhe śastrasaṃpāte paravīrarathārujau |
na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca

142.16

ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् ।
सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः

brūyāḥ karṇa ito gatvā droṇaṃ śāntanavaṃ kṛpam |
saumyo'yaṃ vartate māsaḥ suprāpayavasendhanaḥ

142.17

सर्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।
निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः

sarvauṣadhivanasphītaḥ phalavānalpamakṣikaḥ |
niṣpaṅko rasavattoyo nātyuṣṇaśiśiraḥ sukhaḥ

142.18

सप्तमाच्चापि दिवसादमावास्या भविष्यति ।
सङ्ग्रामो युज्यतां तस्यां तामाहुः शक्रदेवताम्

saptamāccāpi divasādamāvāsyā bhaviṣyati |
saṅgrāmo yujyatāṃ tasyāṃ tāmāhuḥ śakradevatām

142.19

तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः ।
यद्वो मनीषितं तद्वै सर्वं संपादयाम्यहम्

tathā rājño vadeḥ sarvānye yuddhāyābhyupāgatāḥ |
yadvo manīṣitaṃ tadvai sarvaṃ saṃpādayāmyaham

142.20

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम्

rājāno rājaputrāśca duryodhanavaśānugāḥ |
prāpya śastreṇa nidhanaṃ prāpsyanti gatimuttamām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)