राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
rājaputraiḥ parivṛtastathā bhṛtyaiśca sattama |
upāropya rathe karṇaṃ niryāto madhusūdanaḥ
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चत्वारिंशदधिकशततमोऽध्यायः ॥
29 श्लोक · 140 में से 196
जनमेजय के पूछने पर वैशम्पायन रथ में कर्ण से कहे श्रीकृष्ण के वचन सुनाते हैं: तुमने वेदपारंगत ब्राह्मणों की सेवा की है और धर्मशास्त्र की सूक्ष्म बातें जानते हो। शास्त्र कहते हैं कि अविवाहित कन्या से जन्मे पुत्र का पिता वही है जो उस कन्या से विवाह करे। इस प्रकार तुम धर्म से पाण्डु के पुत्र हो। चलो, राजा बनोगे। पिता की ओर से पाण्डव और माता की ओर से वृष्णि तुम्हारे हैं। पाण्डव जानें कि तुम युधिष्ठिर से पहले जन्मे कुन्तीपुत्र हो। पाँचों पाण्डव, द्रौपदी के पुत्र और वृष्णि तुम्हारे चरण पकड़ेंगे। धौम्य अग्नि में होम करेंगे और मैं तुम्हारा अभिषेक करूँगा। युधिष्ठिर श्वेत चँवर लिए युवराज होंगे, भीम छत्र धरेंगे, अर्जुन रथ हाँकेंगे, और छठे काल में द्रौपदी तुम्हारे पास आएँगी। राज्य करो और कुन्ती को आनन्द दो।
जनमेजय उवाच
राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः
rājaputraiḥ parivṛtastathā bhṛtyaiśca sattama |
upāropya rathe karṇaṃ niryāto madhusūdanaḥ
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान्
kimabravīdrathopasthe rādheyaṃ paravīrahā |
kāni sāntvāni govindaḥ sūtaputre prayuktavān
उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् ।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः
udyanmeghasvanaḥ kāle yatkṛṣṇaḥ karṇamabravīt |
mṛdu vā yadi vā tīkṣṇaṃ tanmamācakṣva sarvaśaḥ
वैशंपायन उवाच
आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च ।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च
ānupūrvyeṇa vākyāni tīkṣṇāni ca mṛdūni ca |
priyāṇi dharmayuktāni satyāni ca hitāni ca
हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत
hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ |
yānyabravīdameyātmā tāni me śrṛṇu bhārata
वासुदेव उवाच
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया
upāsitāste rādheya brāhmaṇā vedapāragāḥ |
tattvārthaṃ paripṛṣṭāśca niyatenānasūyayā
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः
tvameva karṇa jānāsi vedavādānsanātanān |
tvameva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः
kānīnaśca sahoḍhaśca kanyāyāṃ yaśca jāyate |
voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ
सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः ।
निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि
so'si karṇa tathājātaḥ pāṇḍoḥ putrosi dharmataḥ |
niścayāddharmaśāstrāṇāmehi rājā bhaviṣyasi
पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ
pitṛpakṣe ca te pārthā mātṛpakṣe ca vṛṣṇayaḥ |
dvau pakṣāvabhijānīhi tvametau puruṣarṣabha
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात्
mayā sārdhamito yātamadya tvāṃ tāta pāṇḍavāḥ |
abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः
pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ |
draupadeyāstathā pañca saubhadraścāparājitaḥ
राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः
rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ |
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः
hiraṇmayāṃśca te kumbhānrājatānpārthivāṃstathā |
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ
राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् ।
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति
rājanyā rājakanyāścāpyānayantvābhiṣecanam |
ṣaṣṭhe tvāṃ ca tathā kāle draupadyupagamiṣyati
अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः ।
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः
agniṃ juhotu vai dhaumyaḥ saṃśitātmā dvijottamaḥ |
adya tvāmabhiṣiñcantu cāturvaidyā dvijātayaḥ
पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः ।
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः
purohitaḥ pāṇḍavānāṃ brahmakarmaṇyavasthitaḥ |
tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ।
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम्
draupadeyāstathā pañca pāñcālāścedayastathā |
ahaṃ ca tvā'bhiṣekṣyāmi rājānaṃ pṛthivīpatim
युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः ।
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।
yuvarājo'stu te rājā dharmaputro yudhiṣṭhiraḥ |
gṛhītvā vyajanaṃ śvetaṃ dharmātmā saṃśitavrataḥ |
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ।
छत्रं च ते महाश्वेतं भीमसेनो महाबलः
upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ |
chatraṃ ca te mahāśvetaṃ bhīmaseno mahābalaḥ
अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि ।
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम्
abhiṣiktasya kaunteyo dhārayiṣyati mūrdhani |
kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ।
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति
rathaṃ śvetahayairyuktamarjuno vāhayiṣyati |
abhimanyuśca te nityaṃ pratyāsanno bhaviṣyati
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ।
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः ।
nakulaḥ sahadevaśca draupadeyāśca pañca ye |
pañcālāścānuyāsyanti śikhaṇḍī ca mahārathaḥ |
अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः ।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते
ahaṃ ca tvā'nuyāsyāmi sarve cāndhakavṛṣṇayaḥ |
dāśārhāḥ parivārāste dāśārṇāśca viśāṃpate
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः
bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ |
japairhomaiśca saṃyukto maṅgalaiśca pṛthagvidhaiḥ
पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः ।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा
purogamāśca te santu draviḍāḥ sahakuntalaiḥ |
āndhrāstālacarāścaiva cūcupā veṇupāstathā
स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः
stuvantu tvāṃ ca bahubhiḥ stutibhiḥ sūtamāgadhāḥ |
vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय
sa tvaṃ parivṛtaḥ pārthairnakṣatrairiva candramāḥ |
praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः
mitrāṇi te prahṛṣyantu vyathantu ripavastathā |
saubhrātraṃ caiva te'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)