उद्योग पर्व

अध्याय 139: अर्जुन से लड़ने के विचार से भीष्म-द्रोण दुःखी

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥

22 श्लोक · 139 में से 196

इस अध्याय में क्या होता है

अर्जुन से लड़ने के विचार से भीष्म-द्रोण दुःखी

दुर्योधन उदास होकर, नीचे देखते हुए, भौंहें सिकोड़े खड़ा रहता है और कुछ नहीं बोलता। दोनों वृद्ध एक-दूसरे को देखकर फिर कहते हैं। भीष्म: सेवाभावी, द्वेषरहित, ब्राह्मणभक्त और सत्यवादी पार्थ से लड़ना पड़े, इससे बड़ा दुःख क्या? द्रोण: मुझे धनञ्जय अपने पुत्र अश्वत्थामा से भी अधिक प्रिय है; क्षत्रधर्म के कारण उससे लड़ना पड़े तो क्षत्रिय की जीविका को धिक्कार है। तुम्हें कुरुवृद्ध, मैं, विदुर और वासुदेव समझा चुके, फिर भी बल के भरोसे उफनती गंगा पार करना चाहते हो। जिसकी विजय सत्यवादिनी, कठोर व्रत वाली द्रौपदी चाहती है, जिसके मन्त्री जनार्दन और भाई अर्जुन हैं, उस युधिष्ठिर को कौन जीतेगा? हमारी आयु बीत चुकी; युद्ध बहुत हुआ। पुत्रों, मन्त्रियों और मित्रों सहित यमलोक मत जाओ।

वैशंपायन उवाच

139.1

एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः ।
संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह

evamuktastu vimanāstiryagdṛṣṭiradhomukhaḥ |
saṃhatya ca bhruvormadhyaṃ na kiñcidvyājahāra ha

139.2

तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्योन्यमन्तिकात् ।
पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ

taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyamantikāt |
punarevottaraṃ vākyamuktavantau nararṣabhau

भीष्म उवाच

139.3

शुश्रूषमनसूयं च ब्रह्मण्यं सत्यवादिनम् ।
प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम्

śuśrūṣamanasūyaṃ ca brahmaṇyaṃ satyavādinam |
pratiyotsyāmahe pārthamato duḥkhataraṃ nu kim

द्रोण उवाच

139.4

अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये ।
बहुमानः परो राजन्सन्नतिश्च कपिध्वजे

aśvatthāmni yathā putre bhūyo mama dhanañjaye |
bahumānaḥ paro rājansannatiśca kapidhvaje

139.5

तं चेत्पुत्रात्प्रियतमं प्रतियोत्स्ये धनञ्जयम् ।
क्षात्रं धर्ममनुष्ठाय धिगस्तु क्षत्रिजीविकाम्

taṃ cetputrātpriyatamaṃ pratiyotsye dhanañjayam |
kṣātraṃ dharmamanuṣṭhāya dhigastu kṣatrijīvikām

139.6

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः ।
मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः

yasya loke samo nāsti kaścidanyo dhanurdharaḥ |
matprasādātsa bībhatsuḥ śreyānanyairdhanurdharaiḥ

139.7

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः ।
न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः

mitradhrugduṣṭabhāvaśca nāstiko'thānṛjuḥ śaṭhaḥ |
na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ

139.8

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति ।
चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति

vāryamāṇo'pi pāpebhyaḥ pāpātmā pāpamicchati |
codyamāno'pi pāpena śubhātmā śubhamicchati

139.9

मिथ्योपचरिता ह्येते वर्तमान ह्यनुप्रिये ।
अहितत्वाय कल्पन्ते दोषा भरतसत्तम

mithyopacaritā hyete vartamāna hyanupriye |
ahitatvāya kalpante doṣā bharatasattama

139.10

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च ।
वासुदेवेन च तथा श्रेयो नैवाभिमन्यसे

tvamuktaḥ kuruvṛddhena mayā ca vidureṇa ca |
vāsudevena ca tathā śreyo naivābhimanyase

139.11

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि ।
सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे

asti me balamityeva sahasā tvaṃ titīrṣasi |
sagrāhanakramakaraṃ gaṅgāvegamivoṣṇage

139.12

वाससैव यथा हि त्वं प्रावृण्वानोऽभिमन्यसे ।
स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम्

vāsasaiva yathā hi tvaṃ prāvṛṇvāno'bhimanyase |
srajaṃ tyaktāmiva prāpya lobhādyaudhiṣṭhirīṃ śriyam

139.13

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् ।
वनस्थमपि राज्यस्थः पाण्डवं को विजेष्यति

draupadīsahitaṃ pārthaṃ sāyudhairbhrātṛbhirvṛtam |
vanasthamapi rājyasthaḥ pāṇḍavaṃ ko vijeṣyati

139.14

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः ।
तमैलविलमासाद्य धर्मराजो व्यराजत

nideśe yasya rājānaḥ sarve tiṣṭhanti kiṅkarāḥ |
tamailavilamāsādya dharmarājo vyarājata

139.15

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च ।
स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः

kuberasadanaṃ prāpya tato ratnānyavāpya ca |
sphītamākramya te rāṣṭraṃ rājyamicchanti pāṇḍavāḥ

139.16

दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः ।
आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ

dattaṃ hutamadhītaṃ ca brāhmaṇāstarpitā dhanaiḥ |
āvayorgatamāyuśca kṛtakṛtyau ca viddhi nau

139.17

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च ।
विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि

tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca |
vigrahaṃ pāṇḍavaiḥ kṛtvā mahadvyasanamāpsyasi

139.18

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी ।
तपोघोरव्रता देवी कथं जेष्यसि पाण्डवम्

draupadī yasya cāśāste vijayaṃ satyavādinī |
tapoghoravratā devī kathaṃ jeṣyasi pāṇḍavam

139.19

मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः ।
सर्वशस्त्रभृतां श्रेष्ठः कथं जेष्यसि पाण्डवम्

mantrī janārdano yasya bhrātā yasya dhanañjayaḥ |
sarvaśastrabhṛtāṃ śreṣṭhaḥ kathaṃ jeṣyasi pāṇḍavam

139.20

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः ।
तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम्

sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ |
tamugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam

139.21

पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता ।
सुहृदा मञ्जमानेषु सुहृत्सु व्यसनार्णवे

punaruktaṃ ca vakṣyāmi yatkāryaṃ bhūtimicchatā |
suhṛdā mañjamāneṣu suhṛtsu vyasanārṇave

139.22

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये ।
मा गमः सतुतामात्यःसमित्रश्च यमक्षयम्

alaṃ yuddhena tairvīraiḥ śāmya tvaṃ kuruvṛddhaye |
mā gamaḥ satutāmātyaḥsamitraśca yamakṣayam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)