एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
evamuktaḥ suparṇena tathyaṃ vacanamuttamam |
vimṛśyāvahito rājā niścitya ca punaḥ punaḥ
इति श्रीमन्महाभारते उद्योगपर्वणि भगवाद्यनपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥
21 श्लोक · 115 में से 196
सहस्रों यज्ञ करने वाले ययाति प्रसन्न होते हैं कि गरुड़ और गालव अन्य राजाओं को छोड़कर उनके पास आए, पर स्वीकार करते हैं कि उनका धन क्षीण हो चुका है। वे उन्हें खाली हाथ नहीं लौटा सकते, क्योंकि याचक की आशा तोड़ना कुल का नाश करता है। इसलिए वे अपनी पुत्री माधवी देते हैं, जो देवकन्या जैसी सुन्दर है और चार राजवंशों की स्थापना करने वाली है। राजा इसके शुल्क में राज्य तक दे देंगे; बस मुझे इससे दौहित्र मिलें। गालव उसे स्वीकार करते हैं और घोड़ों का मार्ग खुला देखकर गरुड़ घर चले जाते हैं। गालव माधवी के साथ अयोध्या के पुत्रहीन इक्ष्वाकुवंशी राजा हर्यश्व के पास जाकर शुल्क लेकर उसे पत्नी रूप में देने का प्रस्ताव करते हैं।
नारद उवाच
एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः
evamuktaḥ suparṇena tathyaṃ vacanamuttamam |
vimṛśyāvahito rājā niścitya ca punaḥ punaḥ
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत्
yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ |
yayātiḥ sarvakāśīśa idaṃ vacanamabravīt
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम्
dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham |
nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām
अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च
atītya ca nṛpānanyānādityakulasaṃbhavān |
matsakāśamanuprāptāvetāṃ buddhimavekṣya ca
अद्य मे सफलं जन्म तारितं चाद्य मे कलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ
adya me saphalaṃ janma tāritaṃ cādya me kalam |
adyāyaṃ tārito deśo mama tārkṣya tvayā'nagha
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे
vaktumicchāmi tu sakhe yathā jānāsi māṃ purā |
na tathā vittavānasmi kṣīṇaṃ vittaṃ ca me sakhe
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे
na ca śakto'smi te kartuṃ moghamāgamanaṃ khaga |
na cāśāmasya viparṣervitathīkartumutsahe
पुत्रीं दास्यामि यत्कार्यमियं संपादयिष्यति ।
अभिगम्य हताशो हि निवृत्तो दहते कुलम्
putrīṃ dāsyāmi yatkāryamiyaṃ saṃpādayiṣyati |
abhigamya hatāśo hi nivṛtto dahate kulam
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।
प्रथाशानाशनं लोके देहि नास्तीति वा वचः
nātaḥ paraṃ vainateya kiṃcitpāpiṣṭhamucyate |
prathāśānāśanaṃ loke dehi nāstīti vā vacaḥ
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम्
hatāśo hyakṛtārthaḥ sanhataḥ saṃbhāvito naraḥ |
hinasti tasya putrāṃśca pautrāṃścākurvato hitam
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम ।
माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी
tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama |
mādhavī nāma tārkṣyeyaṃ sarvadharmapradāyinī
इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ।
सदा देवमनुष्यणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम्
iyaṃ surasutaprakhyā sarvadharmopacāyinī |
sadā devamanuṣyaṇāmasurāṇāṃ ca gālava |
kāṅkṣitā rūpato bālā sutā me pratigṛhyatām
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम् ।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते
asyāḥ śulkaṃ pradāsyanti nṛpā rājyamapi dhravam |
kiṃ punaḥ śyāmakarṇānāṃ hayānāṃ dve catuḥśate
स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम् ।
अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो
sa bhavāpratigṛhṇātu mamaitāṃ mādhavīṃ sutām |
ahaṃ dauhitravāntsyāṃ vai vara eṣa mama prabho
स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा ।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया
sa tasya vacanaṃ śrutvā brāhmaṇaḥ śaṃsitavrataḥ |
pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā |
punardrakṣyāva ityuktvā pratasthe saha kanyayā
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम्
upalabdhamidaṃ dvāramaśvānāmiti cāṇḍajaḥ |
uktvā gālavamāpṛcchya jagāma bhavanaṃ svakam
गते पतगराजे तु गालवः सह कन्यया ।
चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत्
gate patagarāje tu gālavaḥ saha kanyayā |
cintayānaḥ kṣamaṃdāne rājānaṃ śulkato'gamat
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम्
so'gacchanmanasekṣvākuṃ haryaśvaṃ rājasattamam |
ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम्
kośadhānyabalopetaṃ priyapauraṃ dvijapriyam |
prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी
tamupāgamya vipraḥ sa haryaśvaṃ gālavo'bravīt |
kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī
इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम्
iyaṃ śulkena bhāryārthaṃ haryaśva pratigṛhyatām |
śulkaṃ te kīrtiyiṣyāmi tacchrutvā saṃpradhāryatām
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)