उद्योग पर्व

अध्याय 107: गालव का शोक और गरुड़ की सहायता

19 श्लोक · 107 में से 196

इस अध्याय में क्या होता है

गालव का शोक और गरुड़ की सहायता

विश्वामित्र की आज्ञा के बाद गालव न बैठ पाते हैं, न सो पाते हैं, न भोजन करते हैं। सूखकर हड्डियों का ढाँचा बने गालव विलाप करते हैं: न धन है, न धनी मित्र; ऐसे घोड़े कहाँ से लाऊँ? ऋण न चुका सकने वाले का जीना मरने से बुरा है, और वचन तोड़ने वाले को न यश मिलता है, न सन्तति, न शुभ गति। वे निश्चय करते हैं कि प्राण त्यागने से पहले एक बड़ा प्रयत्न करेंगे, और मन ही मन अविनाशी योगेश्वर श्रीकृष्ण को प्रणाम करते हैं। तभी उनके मित्र विनतानन्दन गरुड़ आते हैं और बताते हैं कि इन्द्र के छोटे भाई विष्णु ने उन्हें गालव की सहायता के लिए पहले ही कह दिया है। वे गालव को जहाँ चाहें वहाँ ले चलने को तैयार हैं।

नारद उवच

107.1

एवमुक्तस्तदा तेन विश्वामित्रेण धीमता ।
नास्ते न शेते नाहारं कुरुते गालवस्तदा

evamuktastadā tena viśvāmitreṇa dhīmatā |
nāste na śete nāhāraṃ kurute gālavastadā

107.2

त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः ।
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ।
गालवो दुःखितो दुःखाद्विललाप सुयोधन

tvagasthibhūto hariṇāścintāśokaparāyaṇaḥ |
śocamāno'timātraṃ sa dahyamānaśca manyunā |
gālavo duḥkhito duḥkhādvilalāpa suyodhana

107.3

कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः ।
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम

kutaḥ puṣṭāni mitrāṇi kuto'rthāḥ sañcayaḥ kṛtaḥ |
hayānāṃ candraśubhrāṇāṃ śatānyaṣṭau kuto mama

107.4

कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे ।
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे

kuto me bhojane śraddhā sukhaśraddhā kutaśca me |
śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me

107.5

अहं पारे समुद्रस्य पृथिव्या वा परं परात् ।
गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे

ahaṃ pāre samudrasya pṛthivyā vā paraṃ parāt |
gatvā''tmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me

107.6

अदनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।
ऋणं धारयमाणस्य कुतः सुखमनीहया

adanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ |
ṛṇaṃ dhārayamāṇasya kutaḥ sukhamanīhayā

107.7

सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्

suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayamīpsitam |
pratikartumaśaktasya jīvitānmaraṇaṃ varam

107.8

प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति

pratiśrutya kariṣyeti kartavyaṃ tadakurvataḥ |
mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati

107.9

न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः ।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा

na rūpamanṛtasyāsti nānṛtasyāsti santatiḥ |
nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā

107.10

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः

kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham |
aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ

107.11

न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम् ।
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम्

na jīvatyadhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam |
pāpo dhruvamavāpnoti vināśaṃ nāśayankṛtam

107.12

सोऽहं पापः कृतघ्नस्य कृपणश्चानृतोऽपि च ।
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम्

so'haṃ pāpaḥ kṛtaghnasya kṛpaṇaścānṛto'pi ca |
guroryaḥ kṛtakāryaḥ saṃstatkaromi na bhāṣitam

107.13

सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ।
अर्थिता न मया काचित्कृतपूर्वा दिवौकसाम्

so'haṃ prāṇānvimokṣyāmi kṛtvā yatnamanuttamam |
arthitā na mayā kācitkṛtapūrvā divaukasām

107.14

मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे ।
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम्

mānayanti ca māṃ sarve tridaśā yajñasaṃstare |
ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram |
viṣṇuṃ gacchāmyahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam

107.15

भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान् ।
प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम्

bhogā yasmātpratiṣṭhante vyāpya sarvānsurāsurān |
praṇato draṣṭumicchāmi kṛṣṇaṃ yoginamavyayam

107.16

एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया

evamukte sakhā tasya garuḍo vinatātmajaḥ |
darśayāmāsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā

107.17

सहृद्भवान्मम मतः सुहृदां च मतः सुहृत् ।
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति

sahṛdbhavānmama mataḥ suhṛdāṃ ca mataḥ suhṛt |
īpsitenābhilāṣeṇa yoktavyo vibhave sati

107.18

विभवश्चास्ति मे विप्र वासवावरजो द्विज ।
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे

vibhavaścāsti me vipra vāsavāvarajo dvija |
pūrvamuktastvadarthaṃ ca kṛtaḥ kāmaśca tena me

107.19

स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।
देशं पारं पृथिव्या वा गच्छ गालव मा चिरम्

sa bhavānetu gacchāva nayiṣye tvāṃ yathāsukham |
deśaṃ pāraṃ pṛthivyā vā gaccha gālava mā ciram

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)