उद्योग पर्व

अध्याय 100: दानवों का नगर हिरण्यपुर

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि शततमोऽध्यायः ॥

19 श्लोक · 100 में से 196

इस अध्याय में क्या होता है

दानवों का नगर हिरण्यपुर

नारद मातलि को हिरण्यपुर ले आते हैं। यह दैत्यों और दानवों का महान नगर है, जिसे पाताल में विश्वकर्मा ने बनाया और मय ने मन से रचा। यहाँ के निवासी सहस्रों प्रकार की माया जानते हैं और पूर्वकाल में मिले वरों के कारण इन्द्र, यम, वरुण और कुबेर के भी वश में नहीं आते। कालखञ्ज, नैर्ऋत, यातुधान और वे निवातकवच यहीं रहते हैं जिन्हें स्वयं इन्द्र भी नहीं दबा पाते। नारद सोने, चाँदी और पद्मराग मणियों के भवन तथा इच्छानुसार फल-फूल देने वाले वृक्ष दिखाते हैं। वे मातलि से वर खोजने को कहते हैं। मातलि मना कर देते हैं। देव और दानव भाई होकर भी सदा के वैरी हैं, इसलिए वे शत्रुपक्ष से सम्बन्ध नहीं जोड़ेंगे और स्वर्गवासियों का अप्रिय नहीं करेंगे।

नारद उवाच

100.1

हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् ।
दैत्यानां दानवानां च मायाशतविचारिणाम्

hiraṇyapuramityetatkhyātaṃ puravaraṃ mahat |
daityānāṃ dānavānāṃ ca māyāśatavicāriṇām

100.2

अनल्पेन प्रयत्नेन निर्मितं विश्वकर्मणा ।
मयेन मनसा सृष्टं पातालतलमाश्रितम्

analpena prayatnena nirmitaṃ viśvakarmaṇā |
mayena manasā sṛṣṭaṃ pātālatalamāśritam

100.3

अत्र मायासहस्राणि वविकुर्वाणा महौजसः ।
दानवा निवसन्ति स्म शूरा दत्तवराः पुरा

atra māyāsahasrāṇi vavikurvāṇā mahaujasaḥ |
dānavā nivasanti sma śūrā dattavarāḥ purā

100.4

नैते शक्रेण नान्येन यमेन वरुणेन वा ।
शक्यन्ते वशमानेतुं तथैव धनदेन च

naite śakreṇa nānyena yamena varuṇena vā |
śakyante vaśamānetuṃ tathaiva dhanadena ca

100.5

असुराः कालखञ्जाश्च तथा वुष्णुपदोद्भवाः ।
नैर्ऋता यातुधानाश्च ब्रह्मपादोद्भवाश्च ये

asurāḥ kālakhañjāśca tathā vuṣṇupadodbhavāḥ |
nairṛtā yātudhānāśca brahmapādodbhavāśca ye

100.6

दंष्ट्रिणो भीमवेगाश्च वातवेगपराक्रमाः ।
मायावीर्योपसंपन्ना निवसन्त्यत्र मातले

daṃṣṭriṇo bhīmavegāśca vātavegaparākramāḥ |
māyāvīryopasaṃpannā nivasantyatra mātale

100.7

निवातकवचा नाम दानवा युद्धदुर्मदाः ।
जानासि च यथा शक्रो नैताञ्शक्रोति बाधितुं

nivātakavacā nāma dānavā yuddhadurmadāḥ |
jānāsi ca yathā śakro naitāñśakroti bādhituṃ

100.8

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः ।
निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः

bahuśo mātale tvaṃ ca tava putraśca gomukhaḥ |
nirbhagno devarājaśca sahaputraḥ śacīpatiḥ

100.9

पश्य वेश्मानि रौक्माणि मातले राजतानि च ।
कर्मणा विधियुक्तेन युक्तान्युपगतानि च

paśya veśmāni raukmāṇi mātale rājatāni ca |
karmaṇā vidhiyuktena yuktānyupagatāni ca

100.10

वैदूर्यमणिचित्राणि प्रवालरुचिराणि च ।
अर्कस्फटिकशुभ्राणि वज्रसारोञ्ज्वलानि च

vaidūryamaṇicitrāṇi pravālarucirāṇi ca |
arkasphaṭikaśubhrāṇi vajrasāroñjvalāni ca

100.11

पार्थिवानीव चाभास्ति पद्मरागमयानि च ।
शैलानीव च दृश्यन्ते दारवाणीव चाप्युत

pārthivānīva cābhāsti padmarāgamayāni ca |
śailānīva ca dṛśyante dāravāṇīva cāpyuta

100.12

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च ।
मणिजालविचित्राणि प्रांशूनि निबिडानि च

sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca |
maṇijālavicitrāṇi prāṃśūni nibiḍāni ca

100.13

नैतानि शक्यं निर्देष्टु रूपतो द्रव्यतस्तथा ।
गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च

naitāni śakyaṃ nirdeṣṭu rūpato dravyatastathā |
guṇataścaiva siddhāni pramāṇaguṇavanti ca

100.14

आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत ।
रत्नवन्ति महार्हाणि भाजनान्यासनानि च

ākrīḍānpaśya daityānāṃ tathaiva śayanānyuta |
ratnavanti mahārhāṇi bhājanānyāsanāni ca

100.15

जलदाभांस्तथा शैलांस्तोयप्रस्रवणानि च ।
कामपुष्पफलांश्चापि पादपान्कापचारिणः

jaladābhāṃstathā śailāṃstoyaprasravaṇāni ca |
kāmapuṣpaphalāṃścāpi pādapānkāpacāriṇaḥ

100.16

मातले कश्चिदत्रापि रुचिरस्ते वरो भवेत् ।
अथवाऽन्यां दिशं भूमेर्गच्छाव यदि मन्यसे

mātale kaścidatrāpi ruciraste varo bhavet |
athavā'nyāṃ diśaṃ bhūmergacchāva yadi manyase

100.17

मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् ।
देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम्

mātalistvabravīdenaṃ bhāṣamāṇaṃ tathāvidham |
devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām

100.18

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः ।
परपक्षेण संबन्धं रोचयिष्याम्यहं कथम्

nityānuṣaktavairā hi bhrātaro devadānavāḥ |
parapakṣeṇa saṃbandhaṃ rocayiṣyāmyahaṃ katham

100.19

अन्यत्र साधु गच्छाव द्रष्टुं नार्हामि दानवान् ।
जानामि तव चात्मानं हिंसात्मकमनं तथा

anyatra sādhu gacchāva draṣṭuṃ nārhāmi dānavān |
jānāmi tava cātmānaṃ hiṃsātmakamanaṃ tathā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)