स्त्री पर्व

अध्याय 26: मृतकों की गणना और दाह-संस्कार

इति श्रीमन्महाभारते स्त्रीपर्वणि श्राद्धपर्वणि षड्‌विंशोऽध्यायः ॥

44 श्लोक · 26 में से 27

इस अध्याय में क्या होता है

मृतकों की गणना और दाह-संस्कार

श्रीकृष्ण गान्धारी से उठने को कहते हैं: कुरु तुम्हारे ही दोष से मरे, क्योंकि तुमने ईर्ष्यालु, अभिमानी पुत्र को आगे रखा; बीते का शोक दुःख पर दुःख बढ़ाता है। वे मौन हो जाती हैं। धृतराष्ट्र पूछते हैं कि कितने मरे और कहाँ गए। युधिष्ठिर करोड़ों और सहस्रों में मृतकों की गणना बताते हैं; प्रसन्न मन से देह होमने वाले इन्द्र-जैसे लोकों को, अनिच्छा से मरने वाले गन्धर्वों के पास, और सामने से कटे वीर ब्रह्मलोक गए। यह उन्हें तीर्थयात्रा में मिले अनुग्रह से ज्ञात है। वे धौम्य, सञ्जय, विदुर और युयुत्सु से चन्दन, अगुरु, घी और रेशमी वस्त्र मँगवाते हैं; साम और ऋचाओं के घोष में राजाओं का दाह होता है, और विदुर असंख्य अनाथ मृतकों को ढेर करके जलाते हैं। फिर सब गङ्गा की ओर जाते हैं।

श्रीभगवानुवाच

26.1

उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः ।
तवैव ह्यपराधेन कुरवो निधनं गताः

uttiṣṭhottiṣṭha gāndhāri mā ca śoke manaḥ kṛthāḥ |
tavaiva hyaparādhena kuravo nidhanaṃ gatāḥ

26.2

यत्त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् ।
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे

yattvaṃ putraṃ durātmānamīrṣumatyantamāninam |
duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase

26.3

निष्ठुरं वैरपुरुषं वृद्धानां शासनातिगम् ।
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि

niṣṭhuraṃ vairapuruṣaṃ vṛddhānāṃ śāsanātigam |
kathamātmakṛtaṃ doṣaṃ mayyādhātumihecchasi

26.4

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते

mṛtaṃ vā yadi vā naṣṭaṃ yo'tītamanuśocati |
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate

26.5

तपोर्थीयं ब्राह्मणी धत्त गर्भं
गौर्वोढारं धावितारं तुरङ्गी ।
शूद्रा दासं पशुपालं च वैश्या
वधार्थीयं त्वद्विधा राजपुत्री

taporthīyaṃ brāhmaṇī dhatta garbhaṃ
gaurvoḍhāraṃ dhāvitāraṃ turaṅgī |
śūdrā dāsaṃ paśupālaṃ ca vaiśyā
vadhārthīyaṃ tvadvidhā rājaputrī

वैशंपायन उवाच

26.6

तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् ।
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना

tacchrutvā vāsudevasya punaruktaṃ vaco'priyam |
tūṣṇīṃ babhūva gāndhārī śokavyākulalocanā

26.7

धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः ।
पर्यपृच्छत धर्मज्ञो धर्मराजं युधिष्ठिरम्

dhṛtarāṣṭrastu rājarṣirnigṛhyābuddhijaṃ tamaḥ |
paryapṛcchata dharmajño dharmarājaṃ yudhiṣṭhiram

26.8

जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव ।
हतानां यदि जानीषे परिमाणं वदस्वं मे

jīvatāṃ parimāṇajñaḥ sainyānāmasi pāṇḍava |
hatānāṃ yadi jānīṣe parimāṇaṃ vadasvaṃ me

युधिष्ठिर उवाच

26.9

दशायुतसहस्राणि सहस्राणि च विंशतिः ।
कोट्यः षष्टिश्च षट् चैव ह्यस्मिन्राजन्मृधे हताः

daśāyutasahasrāṇi sahasrāṇi ca viṃśatiḥ |
koṭyaḥ ṣaṣṭiśca ṣaṭ caiva hyasminrājanmṛdhe hatāḥ

26.10

आलक्षाणां च वीराणां सहस्राणि चतुर्दश ।
दश चान्यानि राजेन्द्र शतं षष्टिश्च भारत

ālakṣāṇāṃ ca vīrāṇāṃ sahasrāṇi caturdaśa |
daśa cānyāni rājendra śataṃ ṣaṣṭiśca bhārata

धृतराष्ट्र उवाच

26.11

युधिष्ठिरगतिं कां ते गताः पुरुषसत्तम ।
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः

yudhiṣṭhiragatiṃ kāṃ te gatāḥ puruṣasattama |
ācakṣva me mahābāho sarvajño hyasi me mataḥ

युधिष्ठिर उवाच

26.12

यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे ।
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः

yairhutāni śarīrāṇi hṛṣṭaiḥ paramasaṃyuge |
devarājasamām̐llokāngatāste satyavikramāḥ

26.13

ये त्वहृष्टेन मनसा मर्तव्यमिति भारत ।
युध्यमाना हताः सङ्ख्ये गन्धर्वैः सह सङ्गताः

ye tvahṛṣṭena manasā martavyamiti bhārata |
yudhyamānā hatāḥ saṅkhye gandharvaiḥ saha saṅgatāḥ

26.14

ये च सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः ।
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति

ye ca saṅgrāmabhūmiṣṭhā yācamānāḥ parāṅmukhāḥ |
śastreṇa nidhanaṃ prāptā gatāste guhyakānprati

26.15

पात्यमानाः परैर्ये तु हीयमाना निरायुधाः ।
हीनिषेवा महात्मानः परानभिमुखा रणे

pātyamānāḥ parairye tu hīyamānā nirāyudhāḥ |
hīniṣevā mahātmānaḥ parānabhimukhā raṇe

26.16

छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः ।
हतास्ते ब्रह्मसदनं गता वीराः सुवर्चसः

chidyamānāḥ śitaiḥ śastraiḥ kṣatradharmaparāyaṇāḥ |
hatāste brahmasadanaṃ gatā vīrāḥ suvarcasaḥ

26.17

ये त्वत्र निहता राजन्नन्तरायोधनं प्रति ।
यथाकथञ्चित्पुरुषास्ते गता ह्युत्तरां गतिम्

ye tvatra nihatā rājannantarāyodhanaṃ prati |
yathākathañcitpuruṣāste gatā hyuttarāṃ gatim

धृतराष्ट्र उवाच

26.18

केन ज्ञानबलेनैव पुत्र पश्यसि सिद्धवत् ।
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया

kena jñānabalenaiva putra paśyasi siddhavat |
tanme vada mahābāho śrotavyaṃ yadi vai mayā

युधिष्ठिर उवाच

26.19

निदेशाद्भवतः पूर्वं वने विचरता मया ।
तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः

nideśādbhavataḥ pūrvaṃ vane vicaratā mayā |
tīrthayātrāprasaṅgena samprāpto'yamanugrahaḥ

26.20

देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् ।
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा

devarṣirlomaśo dṛṣṭastataḥ prāpto'smyanusmṛtim |
divyaṃ cakṣurapi prāptaṃ jñānayogena vai purā

धृतराष्ट्र उवाच

26.21

ये त्वनाथा जनास्तात नाथवन्तश्च पाण्‍डव ।
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्

ye tvanāthā janāstāta nāthavantaśca pāṇ‍ḍava |
kaccitteṣāṃ śarīrāṇi dhakṣyanti vidhipūrvakam

युधिष्ठिर उवाच

26.22

न येषां शान्तिकर्तारो न च येऽत्राहिताग्नयः ।
वयं च तेषां कुर्यामो बहुत्वात्तात कर्मणाम्

na yeṣāṃ śāntikartāro na ca ye'trāhitāgnayaḥ |
vayaṃ ca teṣāṃ kuryāmo bahutvāttāta karmaṇām

26.23

यान्सुपर्णाश्च गुध्राश्च विकर्षन्ति ततस्ततः ।
तेषां सङ्कर्षणा लोका भविष्यन्ति न संशयः

yānsuparṇāśca gudhrāśca vikarṣanti tatastataḥ |
teṣāṃ saṅkarṣaṇā lokā bhaviṣyanti na saṃśayaḥ

वैशम्पायन उवाच

26.24

एवमुक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।
आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम्

evamuktvā mahārāja kuntīputro yudhiṣṭhiraḥ |
ādideśa sudharmāṇaṃ dhaumyaṃ sūtaṃ ca sañjayam

26.25

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् ।
इन्द्रसेनमुखान्भृत्यान्सूतांश्चैव सहस्रशः

viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam |
indrasenamukhānbhṛtyānsūtāṃścaiva sahasraśaḥ

26.26

भवन्तः कारयन्त्वेषां प्रेतकार्याण्यशेषतः ।
यथा नाथवतां किञ्चिच्छरीरं न विनश्यति

bhavantaḥ kārayantveṣāṃ pretakāryāṇyaśeṣataḥ |
yathā nāthavatāṃ kiñciccharīraṃ na vinaśyati

26.27

शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः ।
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा

śāsanāddharmarājasya kṣattā sūtaśca sañjayaḥ |
sudharmā dhaumyasahita indrasenādayastathā

26.28

चन्दनागुरुकाष्ठानि तथा कालीयकान्युत ।
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च

candanāgurukāṣṭhāni tathā kālīyakānyuta |
ghṛtaṃ tailaṃ ca gandhāṃśca kṣaumāṇi vasanāni ca

26.29

समाहृत्य महार्हाणि दारुणां चैव सञ्चयान् ।
रथांश्च मृदितास्तत्र नानाप्रहरणानि च

samāhṛtya mahārhāṇi dāruṇāṃ caiva sañcayān |
rathāṃśca mṛditāstatra nānāpraharaṇāni ca

26.30

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् ।
दाहयामासुरव्याग्राः शास्त्रदृष्टेन कर्मणा

citāḥ kṛtvā prayatnena yathāmukhyānnarādhipān |
dāhayāmāsuravyāgrāḥ śāstradṛṣṭena karmaṇā

26.31

दुर्योधनं च राजानं भ्रातॄंश्चास्य कर्मणा ॥
शल्यं शलं च राजानं भूरिश्रवसमेव च

duryodhanaṃ ca rājānaṃ bhrātṝṃścāsya karmaṇā ||
śalyaṃ śalaṃ ca rājānaṃ bhūriśravasameva ca

26.32

जयद्रथं च राजानमभिमन्युं च भारत ।
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्

jayadrathaṃ ca rājānamabhimanyuṃ ca bhārata |
dauḥśāsaniṃ lakṣmaṇaṃ ca dhṛṣṭaketuṃ ca pārthivam

26.33

बृहद्वलं सोमदत्तं सृञ्जयं च महारथम् ।
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा

bṛhadvalaṃ somadattaṃ sṛñjayaṃ ca mahāratham |
rājānaṃ kṣemadhanvānaṃ virāṭadrupadau tathā

26.34

शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् ।
युधामन्युं च विक्रान्तमुत्तमौजसमेव च

śikhaṇḍinaṃ ca pāñcālyaṃ dhṛṣṭadyumnaṃ ca pārṣatam |
yudhāmanyuṃ ca vikrāntamuttamaujasameva ca

26.35

कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् ।
अचलं वृषकं चैव भगदत्ते च पार्थिवम्

kausalyaṃ draupadeyāṃśca śakuniṃ cāpi saubalam |
acalaṃ vṛṣakaṃ caiva bhagadatte ca pārthivam

26.36

कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् ।
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्

karṇaṃ vaikartanaṃ caiva sahaputramamarṣaṇam |
kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān

26.37

घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च ।
अलम्बुसं राक्षसेन्द्रं जलसन्धं च पार्थिवम्

ghaṭotkacaṃ rākṣasendraṃ bakabhrātarameva ca |
alambusaṃ rākṣasendraṃ jalasandhaṃ ca pārthivam

26.38

एतांश्चान्यांस्च सुबहून्पार्थिवांश्च सहस्रशः ।
धृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् ।

etāṃścānyāṃsca subahūnpārthivāṃśca sahasraśaḥ |
dhṛtadhārāhutairdīptaiḥ pāvakaiḥ samadāhayan |

26.39

पितृमेधाश्च केषाञ्चित्प्रावर्तन्त महात्मनाम् ।
सामभिश्चाप्यगायन्त तेऽन्वशासत चापरैः

pitṛmedhāśca keṣāñcitprāvartanta mahātmanām |
sāmabhiścāpyagāyanta te'nvaśāsata cāparaiḥ

26.40

साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः ।
कश्मलं सर्वभूतानां निशायां समपद्यत

sāmnāmṛcāṃ ca nādena strīṇāṃ ca ruditasvanaiḥ |
kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata

26.41

हुताश्च तत्प्रदीप्ताश्च दीप्यमानाश्च पावकाः ।
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः

hutāśca tatpradīptāśca dīpyamānāśca pāvakāḥ |
nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ

26.42

ये चाप्यनाथास्तत्रासन्नानादेशसमागताः ।
तांश्च सर्वान्समानीय राशीकृत्वा सहस्रशः

ye cāpyanāthāstatrāsannānādeśasamāgatāḥ |
tāṃśca sarvānsamānīya rāśīkṛtvā sahasraśaḥ

26.43

चित्वा दारुभिरव्यग्रैः प्रभूतैः स्नेहपाचितैः ।
दाहयामास तान्सर्वान्विदुरो राजशासनात्

citvā dārubhiravyagraiḥ prabhūtaiḥ snehapācitaiḥ |
dāhayāmāsa tānsarvānviduro rājaśāsanāt

26.44

कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः ।
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्

kārayitvā kriyāsteṣāṃ kururājo yudhiṣṭhiraḥ |
dhṛtarāṣṭraṃ puraskṛtya gaṅgāmabhimukho'gamat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)