स्त्री पर्व

अध्याय 15: गान्धारी की दृष्टि से युधिष्ठिर के नख

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि पञ्चदशोऽध्यायः ॥

21 श्लोक · 15 में से 27

इस अध्याय में क्या होता है

गान्धारी की दृष्टि से युधिष्ठिर के नख

गान्धारी क्रोध से पूछती हैं कि राजा कहाँ है। युधिष्ठिर काँपते हुए हाथ जोड़कर आगे आते हैं और कहते हैं कि मैं आपके पुत्रों का क्रूर हत्यारा हूँ, शाप के योग्य हूँ। वे केवल लम्बी साँस लेती हैं। जब युधिष्ठिर चरणों में झुकते हैं, गान्धारी पट्टी के किनारे से उनके पैरों की उँगलियों के सिरे देख लेती हैं, और उनके सुन्दर नख विकृत हो जाते हैं। यह देखकर अर्जुन वासुदेव के पीछे छिप जाते हैं। क्रोध शान्त होने पर गान्धारी माता की भाँति उन्हें सान्त्वना देती हैं। फिर पाण्डव कुन्ती के पास जाते हैं, जो पुत्रों को घावों से भरा देखकर मुख ढककर रोती हैं। कुन्ती रोती द्रौपदी को उठाती हैं, और गान्धारी द्रौपदी से कहती हैं कि शोक न करो, यह विनाश काल-प्रेरित था, जैसा विदुर ने कहा था।

वैशम्पायन उवाच

15.1

तमेवमुक्त्वा गान्धारी युधिष्ठिरमपृच्छत ।
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता

tamevamuktvā gāndhārī yudhiṣṭhiramapṛcchata |
kva sa rājeti sakrodhā putrapautravadhārditā

15.2

तामभ्यगच्छत्कौन्तेयो वेपमानः कृताञ्जलिः ।
युधिष्ठिरस्तु गान्धारीं मधुरं वाक्यमब्रवीत्

tāmabhyagacchatkaunteyo vepamānaḥ kṛtāñjaliḥ |
yudhiṣṭhirastu gāndhārīṃ madhuraṃ vākyamabravīt

15.3

पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः ।
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्

putrahantā nṛśaṃso'haṃ tava devi yudhiṣṭhiraḥ |
śāpārhaḥ pṛthivīnāśe hetubhūtaḥ śapasva mām

15.4

नहि मे जीवितेनार्थो न राज्येन सुखेन वा ।
तादृशान्सुहृदो हत्वा प्रमूढस्य सुहृद्द्रुहः

nahi me jīvitenārtho na rājyena sukhena vā |
tādṛśānsuhṛdo hatvā pramūḍhasya suhṛddruhaḥ

15.5

तमेवंवादिनं भीतं सन्निकर्षागतं तदा ।
नोवाच किञ्चिद्गान्धारी निःश्वासपरमा नृप

tamevaṃvādinaṃ bhītaṃ sannikarṣāgataṃ tadā |
novāca kiñcidgāndhārī niḥśvāsaparamā nṛpa

15.6

तस्मावनतदेहस्य पादयोर्निपतिष्यतः ।
युधिष्ठिरस्य नृपतेर्धर्मज्ञा दीर्घदर्शिनी

tasmāvanatadehasya pādayornipatiṣyataḥ |
yudhiṣṭhirasya nṛpaterdharmajñā dīrghadarśinī

15.7

अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा ।
ततः स कुनखीभूतो दर्शनीयनखो नृपः

aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā |
tataḥ sa kunakhībhūto darśanīyanakho nṛpaḥ

15.8

तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः

taṃ dṛṣṭvā cārjuno'gacchadvāsudevasya pṛṣṭhataḥ

15.9

एवं सञ्चेष्टमानांस्तानितश्चेतश्च भारत ।
गान्धारी विगतक्रोधा सांत्वयामास मातृवत्

evaṃ sañceṣṭamānāṃstānitaścetaśca bhārata |
gāndhārī vigatakrodhā sāṃtvayāmāsa mātṛvat

15.10

ते पाण्डवा अनुज्ञाता मातरं वीतमत्सराः ।
अभ्यगच्छन्त सहिताः पृथां पृथुवलक्षसः

te pāṇḍavā anujñātā mātaraṃ vītamatsarāḥ |
abhyagacchanta sahitāḥ pṛthāṃ pṛthuvalakṣasaḥ

15.11

चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता ।
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्

cirasya dṛṣṭvā putrānsā putrādhibhirabhiplutā |
bāṣpamāhārayaddevī vastreṇāvṛtya vai mukham

15.12

ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा ।
अपश्यदेनाञ्शस्त्रौघैर्बहुधा परिविक्षतान्

tato bāṣpaṃ samutsṛjya saha putraistadā pṛthā |
apaśyadenāñśastraughairbahudhā parivikṣatān

15.13

सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनःपुनः ।
अन्वशोचत दुःखार्ता द्रौपदीं निहतात्मजाम् ।
रुदन्तीमथ पाञ्चालीं ददर्श पतितां भुवि

sā tānekaikaśaḥ putrānsaṃspṛśantī punaḥpunaḥ |
anvaśocata duḥkhārtā draupadīṃ nihatātmajām |
rudantīmatha pāñcālīṃ dadarśa patitāṃ bhuvi

द्रौपद्युवाच

15.14

आर्ये पौत्रास्तु ते सर्वे सौभद्रसहिता गताः ।
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा अनिन्दिते ।
किन्नु राज्येन मे कार्यं विहीनायाः सुतैर्वरैः

ārye pautrāstu te sarve saubhadrasahitā gatāḥ |
na tvāṃ te'dyābhigacchanti ciraṃ dṛṣṭvā anindite |
kinnu rājyena me kāryaṃ vihīnāyāḥ sutairvaraiḥ

15.15

तां समाश्वासयामास पृथा पृथललोचना ।
उत्थाप्याङ्केन सुदतीं रुदतीं शोककर्शिताम्

tāṃ samāśvāsayāmāsa pṛthā pṛthalalocanā |
utthāpyāṅkena sudatīṃ rudatīṃ śokakarśitām

15.16

तयैव सहिता चापि पुत्रैरनुगता पृथा ।
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्

tayaiva sahitā cāpi putrairanugatā pṛthā |
abhyagacchata gāndhārīmārtāmārtatarā svayam

वैशम्पायन उवाच

15.17

तामुवाचाथ गान्धारी सह कुन्त्या यशस्विनीम् ।
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखितां

tāmuvācātha gāndhārī saha kuntyā yaśasvinīm |
maivaṃ putrīti śokārtā paśya māmapi duḥkhitāṃ

15.18

मन्ये लोकविनाशोऽयं कालपर्यायनोदितः ।
अवश्यभावी सम्प्राप्तः स्वभावाद्रोमहर्षणः

manye lokavināśo'yaṃ kālaparyāyanoditaḥ |
avaśyabhāvī samprāptaḥ svabhāvādromaharṣaṇaḥ

15.19

इदं तत्समनुप्राप्तं विदुरस्य वचो महत् ।
असिद्धानुनये कृष्णे यदुवाच महामतिः

idaṃ tatsamanuprāptaṃ vidurasya vaco mahat |
asiddhānunaye kṛṣṇe yaduvāca mahāmatiḥ

15.20

तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः ।
मा शुचो न हि शोच्यास्ते सङ्ग्रामे निधनं गताः

tasminnaparihārye'rthe vyatīte ca viśeṣataḥ |
mā śuco na hi śocyāste saṅgrāme nidhanaṃ gatāḥ

15.21

यथैवाहं तथैव त्वं को वामाश्वासयिष्यति ।
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्

yathaivāhaṃ tathaiva tvaṃ ko vāmāśvāsayiṣyati |
mamaiva hyaparādhena kulamagryaṃ vināśitam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)