स्त्री पर्व

अध्याय 12: श्रीकृष्ण की फटकार, राजा का मन बदलता है

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वादशोऽध्यायः ॥

17 श्लोक · 12 में से 27

इस अध्याय में क्या होता है

श्रीकृष्ण की फटकार, राजा का मन बदलता है

मधुसूदन राजा से कहते हैं: आपने वेद, शास्त्र, पुराण और राजधर्म पढ़े हैं, फिर अपने ही दोष पर दूसरों पर क्रोध क्यों? मैंने, भीष्म, द्रोण, विदुर और सञ्जय ने आपको रोका था, पर पाण्डवों को अधिक बलवान जानकर भी आपने न सुना। स्थिरबुद्धि राजा अपने दोष देखता है; हितकर बात न मानने वाला नष्ट होता है। आप दुर्योधन के वश में रहे, जिसने पाञ्चाली को सभा में घसीटा और भीम के हाथों बदले में मारा गया; आपने निर्दोष पाण्डवों को त्यागा। धृतराष्ट्र मानते हैं कि यह सब सत्य है; पुत्र-स्नेह ने उन्हें धर्म से डिगाया। वे प्रसन्न हैं कि श्रीकृष्ण से रक्षित भीम उनकी भुजाओं में नहीं आए। अब शान्त होकर वे रोते हुए भीम, अर्जुन और माद्री के पुत्रों को गले लगाते हैं।

वैशम्पायन उवाच

12.1

तत एनमुपातिष्ठञ्शौचार्थं परिचारकाः ।
कृतशौचं पुनश्चैनं ओवाच मधुसूदनः

tata enamupātiṣṭhañśaucārthaṃ paricārakāḥ |
kṛtaśaucaṃ punaścainaṃ ovāca madhusūdanaḥ

12.2

राजन्नधीता वेदास्ते शास्त्राणि विविधानि च ।
श्रुतानि च पुराणानि राजधर्माश्च केवलाः

rājannadhītā vedāste śāstrāṇi vividhāni ca |
śrutāni ca purāṇāni rājadharmāśca kevalāḥ

12.3

एवं विद्वान्महाप्राज्ञः समर्थः सन्बलाबले ।
आत्मापराधात्कस्मात्त्वं कुरुषे कोपमीदृशम्

evaṃ vidvānmahāprājñaḥ samarthaḥ sanbalābale |
ātmāparādhātkasmāttvaṃ kuruṣe kopamīdṛśam

12.4

उक्तवांस्त्वां तदैवाहं भीष्मद्रोणौ च भारत ।
विदुरः सञ्जयश्चैव वाक्यं राजन्न तत्कृथाः

uktavāṃstvāṃ tadaivāhaṃ bhīṣmadroṇau ca bhārata |
viduraḥ sañjayaścaiva vākyaṃ rājanna tatkṛthāḥ

12.5

स वार्यमाणो नास्माकमकार्षीर्वचनं तदा ।
पाण्डवानधिकाञ्चानन्बले शौर्ये च कौरव

sa vāryamāṇo nāsmākamakārṣīrvacanaṃ tadā |
pāṇḍavānadhikāñcānanbale śaurye ca kaurava

12.6

राजा हि यः स्थिरप्रज्ञः स्वयं दोषानवेक्षते ।
देशकालविभागं च परं श्रयेः स विन्दति

rājā hi yaḥ sthiraprajñaḥ svayaṃ doṣānavekṣate |
deśakālavibhāgaṃ ca paraṃ śrayeḥ sa vindati

12.7

उच्यमानस्तु यः श्रेयो गृह्णीते नो हिताहिते ।
आपदः समनुप्राप्य सोऽभ्येति विलयं किल

ucyamānastu yaḥ śreyo gṛhṇīte no hitāhite |
āpadaḥ samanuprāpya so'bhyeti vilayaṃ kila

12.8

ततोऽन्यवृत्तमात्मानं समवेक्षस्व भारत ।
राजंस्त्वं ह्यविधेयात्मा दुर्योधनवशे स्थितः

tato'nyavṛttamātmānaṃ samavekṣasva bhārata |
rājaṃstvaṃ hyavidheyātmā duryodhanavaśe sthitaḥ

12.9

आत्मापराधादापन्नस्तत्किं भीमं जिघांससि ।
तस्मात्संयच्छ कोपं त्वं स्वमनुस्मृत्य दुष्कृतम्

ātmāparādhādāpannastatkiṃ bhīmaṃ jighāṃsasi |
tasmātsaṃyaccha kopaṃ tvaṃ svamanusmṛtya duṣkṛtam

12.10

यस्तु तां स्पर्धया क्षुद्रः पाञ्चालीमानयत्समाम् ।
स हतो भीमसेनेन वैरं प्रतिजिहीर्षता

yastu tāṃ spardhayā kṣudraḥ pāñcālīmānayatsamām |
sa hato bhīmasenena vairaṃ pratijihīrṣatā

12.11

आत्मनोऽतिक्रमं पश्य पुंत्रस्य च दुरात्मनः ।
यदनागसि पाण्डूनां परित्यागस्त्वया कृतः

ātmano'tikramaṃ paśya puṃtrasya ca durātmanaḥ |
yadanāgasi pāṇḍūnāṃ parityāgastvayā kṛtaḥ

12.12

एवमुक्तः स कृष्णेन सर्वं सत्यं जनाधिप ।
उवाच देवकीपुत्रं धृतराष्ट्रो महीपतिः

evamuktaḥ sa kṛṣṇena sarvaṃ satyaṃ janādhipa |
uvāca devakīputraṃ dhṛtarāṣṭro mahīpatiḥ

12.13

एवमेतन्महाबाहो यथा वदसि माधव ।
पुत्रस्नेहस्तु बलवान्धर्मान्मां समचालयत्

evametanmahābāho yathā vadasi mādhava |
putrasnehastu balavāndharmānmāṃ samacālayat

12.14

दिष्ट्या तु पुरुषव्याघ्रो बलवान्सत्यक्त्रिमः ।
त्वद्गुप्तो नागमत्कृष्ण भीमो बाह्वन्तरं मम

diṣṭyā tu puruṣavyāghro balavānsatyaktrimaḥ |
tvadgupto nāgamatkṛṣṇa bhīmo bāhvantaraṃ mama

12.15

इदानीं त्वहमव्यग्रो गतमन्युर्गतज्वरः ।
मध्यमं पाण्डवं वीरं स्पष्टुमिच्छामि माधव

idānīṃ tvahamavyagro gatamanyurgatajvaraḥ |
madhyamaṃ pāṇḍavaṃ vīraṃ spaṣṭumicchāmi mādhava

12.16

हतेषु पारथिवेन्द्रेषु पुत्रेषु निहतेषु च ।
पाण्डुपुत्रेषु मे धर्मः प्रीतिश्चाप्यवतिष्ठते

hateṣu pārathivendreṣu putreṣu nihateṣu ca |
pāṇḍuputreṣu me dharmaḥ prītiścāpyavatiṣṭhate

12.17

ततः स भीमं च धनञ्जयं च
माद्याश्च पुत्रौ पुरुषप्रवीरौ ।
पस्पर्श गात्रैः प्ररुदन्सुगात्रा--
नाश्वास्य कल्याणमुवाच चैनान्

tataḥ sa bhīmaṃ ca dhanañjayaṃ ca
mādyāśca putrau puruṣapravīrau |
pasparśa gātraiḥ prarudansugātrā--
nāśvāsya kalyāṇamuvāca cainān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)