स्त्री पर्व

अध्याय 10: बचे हुए तीन योद्धा विदा लेते हैं

इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि दशमोऽध्यायः ॥

24 श्लोक · 10 में से 27

इस अध्याय में क्या होता है

बचे हुए तीन योद्धा विदा लेते हैं

नगर से एक कोस आगे धृतराष्ट्र के दल को कृप, अश्वत्थामा और कृतवर्मा मिलते हैं। वे रोते हुए प्रज्ञाचक्षु राजा से कहते हैं कि आपका पुत्र कठिन पराक्रम करके इन्द्रलोक गया, और सेना में केवल हम तीन बचे हैं। कृप गान्धारी को सान्त्वना देते हैं: आपके पुत्र निर्भय लड़े, शत्रु के सामने गिरे और शस्त्र से जीते तेजस्वी लोकों को पहुँचे, जो क्षत्रिय की परम गति है। फिर बताते हैं कि दुर्योधन के अधर्म से मारे जाने की बात सुनकर उन्होंने सोते शिविर पर टूटकर धृष्टद्युम्न, पाञ्चालों, द्रुपद-पुत्रों और द्रौपदी-पुत्रों को मारा। पाण्डवों के प्रतिशोध के भय से वे रुक नहीं सकते। राजा की प्रदक्षिणा करके वे गङ्गा के किनारे चले जाते हैं और अलग होते हैं: कृप हस्तिनापुर, कृतवर्मा अपने देश और अश्वत्थामा व्यास के आश्रम।

वैशम्पायन उवाच

10.1

क्रोशमात्रं ततो गत्वा ददृशुस्तान्महारथान् ।
शारद्वतं कृपं द्रौणिं कृतवर्माणमेव च

krośamātraṃ tato gatvā dadṛśustānmahārathān |
śāradvataṃ kṛpaṃ drauṇiṃ kṛtavarmāṇameva ca

10.2

ते तु दृष्ट्वैव राजानं प्रज्ञाचक्षुषमीश्वरम् ।
अश्रुकण्ठा विनिःश्वस्य रुदन्तमिदमब्रुवन्

te tu dṛṣṭvaiva rājānaṃ prajñācakṣuṣamīśvaram |
aśrukaṇṭhā viniḥśvasya rudantamidamabruvan

10.3

पुत्रस्तव महाराज कृत्वा कर्म सुदुष्करम् ।
गतः सानुचरो राजञ्शक्रलोकं महीपते

putrastava mahārāja kṛtvā karma suduṣkaram |
gataḥ sānucaro rājañśakralokaṃ mahīpate

10.4

दुर्योधनबलान्मुक्ता वयमेव त्रयो रथाः ।
सर्वमन्यत्परिक्षीणं सैन्यं ते भरतर्षभ

duryodhanabalānmuktā vayameva trayo rathāḥ |
sarvamanyatparikṣīṇaṃ sainyaṃ te bharatarṣabha

10.5

इत्येवमुक्त्वा राजानं कृपः शारद्वतस्ततः ।
गान्धारीं पुत्रशोकार्तामिदं वचनमब्रवीत्

ityevamuktvā rājānaṃ kṛpaḥ śāradvatastataḥ |
gāndhārīṃ putraśokārtāmidaṃ vacanamabravīt

10.6

अभीता युध्यमानास्ते घ्नन्तः शत्रुगणान्बहून् ।
वीरकर्माणि कुर्वाणाः पुत्रास्ते निधनं गताः

abhītā yudhyamānāste ghnantaḥ śatrugaṇānbahūn |
vīrakarmāṇi kurvāṇāḥ putrāste nidhanaṃ gatāḥ

10.7

ध्रवं सम्प्राप्य लोकांस्ते निर्मलाञ्शस्त्रनिर्जितान् ।
भास्वरं देहमास्थाय विहरन्त्यमरा इव

dhravaṃ samprāpya lokāṃste nirmalāñśastranirjitān |
bhāsvaraṃ dehamāsthāya viharantyamarā iva

10.8

सर्वे ह्यभिमुखा राज्ञि युध्यमाना हता युधि ।
न हि कश्चिद्धि शूराणां युध्यमानः पराङ्मुखः ।
शस्त्रेण निधनं प्राप्तो न च कश्चित्कृताञ्जलिः

sarve hyabhimukhā rājñi yudhyamānā hatā yudhi |
na hi kaściddhi śūrāṇāṃ yudhyamānaḥ parāṅmukhaḥ |
śastreṇa nidhanaṃ prāpto na ca kaścitkṛtāñjaliḥ

10.9

एतां तां क्षत्रियस्याहुः पुराणाः परमां गतिम् ।
शस्त्रेण निधनं सङ्ख्ये तान्न शोचितुमर्हसि

etāṃ tāṃ kṣatriyasyāhuḥ purāṇāḥ paramāṃ gatim |
śastreṇa nidhanaṃ saṅkhye tānna śocitumarhasi

10.10

न चापि शत्रवस्तेषां मुच्यन्ते राज्ञि पाण्डवाः ।
शृणु यत्कृतमस्माभिरश्वत्थामपुरोगमैः

na cāpi śatravasteṣāṃ mucyante rājñi pāṇḍavāḥ |
śṛṇu yatkṛtamasmābhiraśvatthāmapurogamaiḥ

10.11

अधर्मेण हतं श्रुत्वा भीमसेनेन ते सुतम् ।
सुप्तं शिबिरमासाद्य पाण्डूनां कदनं कृतम्

adharmeṇa hataṃ śrutvā bhīmasenena te sutam |
suptaṃ śibiramāsādya pāṇḍūnāṃ kadanaṃ kṛtam

10.12

पाञ्चाला निहताः सर्वे धृष्टद्युम्नपुरोगमाः ।
द्रुपदस्यात्मजाश्चैव द्रौपदेयाश्च पातिताः

pāñcālā nihatāḥ sarve dhṛṣṭadyumnapurogamāḥ |
drupadasyātmajāścaiva draupadeyāśca pātitāḥ

10.13

तथा विशसनं कृत्वा पुत्रशत्रुगणस्य ते ।
प्राद्रवाम रणे स्थातुं न हि शक्ष्यामहे त्रयः

tathā viśasanaṃ kṛtvā putraśatrugaṇasya te |
prādravāma raṇe sthātuṃ na hi śakṣyāmahe trayaḥ

10.14

ते हि शूरा महेष्वासाः क्षिप्रमेष्यन्ति पाण्डवाः ।
अमर्षवशमापन्ना वैरं प्रतिजिहीर्षवः

te hi śūrā maheṣvāsāḥ kṣiprameṣyanti pāṇḍavāḥ |
amarṣavaśamāpannā vairaṃ pratijihīrṣavaḥ

10.15

ते हतानात्मजाञ्श्रुत्वा प्रमत्ताः पुरुषर्षभाः ।
अन्विष्यन्तः पदं शूराः क्षिप्रमेष्यन्ति पाण्डवाः

te hatānātmajāñśrutvā pramattāḥ puruṣarṣabhāḥ |
anviṣyantaḥ padaṃ śūrāḥ kṣiprameṣyanti pāṇḍavāḥ

10.16

तेषां तु किल्बिषं कृत्वा संस्थातुं नोत्सहामहे ।
अनुजानीहि नो राज्ञि मा च शोके मनः कृथाः

teṣāṃ tu kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe |
anujānīhi no rājñi mā ca śoke manaḥ kṛthāḥ

10.17

राजंस्त्वमनुजानीहि धैर्यमातिष्ठ चोत्तमम् ।
दिष्टान्तं पश्य चापि त्वं क्षात्रं धर्मं च केवलम्

rājaṃstvamanujānīhi dhairyamātiṣṭha cottamam |
diṣṭāntaṃ paśya cāpi tvaṃ kṣātraṃ dharmaṃ ca kevalam

10.18

इत्येवमुक्त्वा राजानं कृत्वा चाभिप्रदक्षिणम् ।
कृपश्च कृतवर्मा च द्रोमपुत्रश्च भारत

ityevamuktvā rājānaṃ kṛtvā cābhipradakṣiṇam |
kṛpaśca kṛtavarmā ca dromaputraśca bhārata

10.19

अवेक्षमाणा राजानं धृतराष्ट्रं मनीषिणम् ।
गङ्गामनु महाराज तूर्णमश्वानचोदयन्

avekṣamāṇā rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam |
gaṅgāmanu mahārāja tūrṇamaśvānacodayan

10.20

अपक्रम्य तु ते राजन्सर्व एव महारथाः ।
आमन्त्र्यान्योन्यमुद्विग्नास्त्रिधा ते प्रययुस्तदा

apakramya tu te rājansarva eva mahārathāḥ |
āmantryānyonyamudvignāstridhā te prayayustadā

10.21

जगाम हास्तिनपुरं कृपः शारद्वतस्तदा ।
स्वमेव राष्ट्रं हार्दिक्यो द्रौणिर्व्यासाश्रमं ययौ

jagāma hāstinapuraṃ kṛpaḥ śāradvatastadā |
svameva rāṣṭraṃ hārdikyo drauṇirvyāsāśramaṃ yayau

10.22

एवं ते प्रययुर्वीरा वीक्षमाणाः परस्परम् ।
भयार्ताः पाण्डुपुत्राणामागस्कृत्वा महात्मनाम्

evaṃ te prayayurvīrā vīkṣamāṇāḥ parasparam |
bhayārtāḥ pāṇḍuputrāṇāmāgaskṛtvā mahātmanām

10.23

समेत्य वीरा राजानं तदा त्वनुदिते रषौ ।
विप्रजग्मुर्महात्मानो यथेष्टकमरिन्दमाः

sametya vīrā rājānaṃ tadā tvanudite raṣau |
viprajagmurmahātmāno yatheṣṭakamarindamāḥ

10.24

[समासाद्याथ वै द्रौणिं पाण्डुपुत्रा महारथाः ।
व्यजयंस्ते रणे राजन्विक्रम्य तदनन्तरम् ॥]

[samāsādyātha vai drauṇiṃ pāṇḍuputrā mahārathāḥ |
vyajayaṃste raṇe rājanvikramya tadanantaram ||]

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)