शान्ति पर्व

अध्याय 94: बिना युद्ध विजय पर वामदेव का उपदेश

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्नवतितमोऽध्यायः ॥

26 श्लोक · 94 में से 372

इस अध्याय में क्या होता है

बिना युद्ध विजय पर वामदेव का उपदेश

वामदेव कोसलराज वसुमना को उपदेश देते रहते हैं। बिना युद्ध की विजय श्रेष्ठ है, युद्ध से मिली विजय सबसे निम्न। जिसकी जड़ दुर्बल हो, वह राजा नई भूमि की लालसा न करे। वही दृढ़ है जिसका देश समृद्ध हो, प्रजा अनुरक्त हो और योद्धा सन्तुष्ट और सम्मानित हों। पहले साम, फिर दान, फिर भेद, और इनके विफल होने पर छिद्र देखकर दण्ड। उपेक्षा पाँचवाँ उपाय है: बलवान शत्रु को उससे बलवानों से थकने दे, और काँटे से काँटा निकाले। अपने सज्जन लोगों से छल करने वाला राजा कुल्हाड़ी से वन की भाँति स्वयं को काटता है। भीष्म कहते हैं, वसुमना ने यही किया; तुम भी ऐसा करके दोनों लोक जीतोगे।

वामदेव उवाच

94.1

अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः ।
जघन्यमाहुर्विजयं युद्धेन च नराधिप

ayuddhenaiva vijayaṃ vardhayedvasudhādhipaḥ |
jaghanyamāhurvijayaṃ yuddhena ca narādhipa

94.2

न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति ।
न हि दुर्बलमूलस्य राज्ञो लाभो विवर्धते

na cāpyalabdhaṃ lipseta mūle nātidṛḍhe sati |
na hi durbalamūlasya rājño lābho vivardhate

94.3

यस्य स्फीतो जनपदः संपन्नप्रियराजकः ।
संतुष्टः पुष्टसचिवो दृढमूलः स पार्थिवः

yasya sphīto janapadaḥ saṃpannapriyarājakaḥ |
saṃtuṣṭaḥ puṣṭasacivo dṛḍhamūlaḥ sa pārthivaḥ

94.4

यस्य योधाः सुसंतुष्टाः स्वनुरक्ताः सुपूजिताः ।
अल्पेनापि स दण्डेन महीं जयति पार्थिवः

yasya yodhāḥ susaṃtuṣṭāḥ svanuraktāḥ supūjitāḥ |
alpenāpi sa daṇḍena mahīṃ jayati pārthivaḥ

94.5

दण्डो हि बलवान्यत्र तत्र साम प्रयुज्यते ।
प्रदानं सामपूर्वं च भेदमूलं प्रशस्यते

daṇḍo hi balavānyatra tatra sāma prayujyate |
pradānaṃ sāmapūrvaṃ ca bhedamūlaṃ praśasyate

94.6

त्रयाणां विफलं कर्म यदा पश्येत भूमिपः ।
रन्ध्रं ज्ञात्वा ततो दण्डं प्रयुञ्जीताविचारयन्

trayāṇāṃ viphalaṃ karma yadā paśyeta bhūmipaḥ |
randhraṃ jñātvā tato daṇḍaṃ prayuñjītāvicārayan

94.7

अभिभूतो यदा शत्रुः शत्रुभिर्बलवत्तरैः ।
उपेक्षा तत्र कर्तव्या वध्यता बलिनां बलम्

abhibhūto yadā śatruḥ śatrubhirbalavattaraiḥ |
upekṣā tatra kartavyā vadhyatā balināṃ balam

94.8

दुर्बलो हि महीपालो यदा भवति भारत ।
उपेक्षा तत्र कर्तव्या चतुर्णामविरोधीनि ।
उपायः पञ्चमः सोऽपि सर्वेषां बलवत्तरः

durbalo hi mahīpālo yadā bhavati bhārata |
upekṣā tatra kartavyā caturṇāmavirodhīni |
upāyaḥ pañcamaḥ so'pi sarveṣāṃ balavattaraḥ

94.9

भार्गवेण च गीतानां श्लोकानां कोसलाधिप ।
विज्ञाय तत्वं तत्वज्ञ तत्वतस्तत्करिष्यति

bhārgaveṇa ca gītānāṃ ślokānāṃ kosalādhipa |
vijñāya tatvaṃ tatvajña tatvatastatkariṣyati

94.10

यदि रक्षःपिशाचेन हन्यते यत्रकुत्रचित् ।
उपेक्षा तत्र कर्तव्या वाच्यतां बलिनां बलम्

yadi rakṣaḥpiśācena hanyate yatrakutracit |
upekṣā tatra kartavyā vācyatāṃ balināṃ balam

94.11

दुर्बलोऽपि महीपाल शत्रूणां शत्रुमुद्धरेत् ।
पादलग्नं करस्थेन कण्टकेनैव कण्टकम्

durbalo'pi mahīpāla śatrūṇāṃ śatrumuddharet |
pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam

94.12

शठानां उचिवानां च म्लेच्छानां च महीपते ।
एष उक्त उपायानामुपेक्षा बलवत्तम

śaṭhānāṃ ucivānāṃ ca mlecchānāṃ ca mahīpate |
eṣa ukta upāyānāmupekṣā balavattama

94.13

अश्मना नाशयेल्लोहं लोहेनाश्मानमेव तु ।
बिल्वानि वा परैर्बिल्वैर्म्लेच्छैर्म्लेच्छान्प्रसादयेत्

aśmanā nāśayellohaṃ lohenāśmānameva tu |
bilvāni vā parairbilvairmlecchairmlecchānprasādayet

94.14

दासानां च प्रदृप्तानामेतदेव हि कारयेत् ।
चण्डालम्लेच्छजातीनां दण्डेनैव निवारणम् ।
शठानां दुर्विनीतैश्च पूर्वमुक्तं समाचरेत्

dāsānāṃ ca pradṛptānāmetadeva hi kārayet |
caṇḍālamlecchajātīnāṃ daṇḍenaiva nivāraṇam |
śaṭhānāṃ durvinītaiśca pūrvamuktaṃ samācaret

94.15

अन्त्याः शठाश्च सचिवास्तथा कुब्राह्मणादयः ।
उपायैः पञ्चभिः साध्याश्चतुर्वर्गविरोधिनः

antyāḥ śaṭhāśca sacivāstathā kubrāhmaṇādayaḥ |
upāyaiḥ pañcabhiḥ sādhyāścaturvargavirodhinaḥ

94.16

पौरजानपदा यस्य स्वनुरक्ता अपीडिताः ।
राष्ट्रकर्मकरा ह्येते राष्ट्रस्य च विरोधिनः

paurajānapadā yasya svanuraktā apīḍitāḥ |
rāṣṭrakarmakarā hyete rāṣṭrasya ca virodhinaḥ

94.17

दुर्विनीता विनीताश्च सर्वे साध्याः प्रयत्नतः ।
चण्डालम्लेच्छजात्याश्च पाषण्डाश्च विकर्मिणः ।
बलिनश्चाश्रमाश्चैव तथा गायकनर्तकाः

durvinītā vinītāśca sarve sādhyāḥ prayatnataḥ |
caṇḍālamlecchajātyāśca pāṣaṇḍāśca vikarmiṇaḥ |
balinaścāśramāścaiva tathā gāyakanartakāḥ

94.18

पौरजानपदा यस्य भूतेषु च दयालवः ।
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः

paurajānapadā yasya bhūteṣu ca dayālavaḥ |
sadhanā dhānyavantaśca dṛḍhamūlaḥ sa pārthivaḥ

94.19

प्रतापकालमधिकं यदा मन्येत चात्मनः ।
तदा लिप्सेत मेधावी परभूमिधनान्युत

pratāpakālamadhikaṃ yadā manyeta cātmanaḥ |
tadā lipseta medhāvī parabhūmidhanānyuta

94.20

भोगेषूदयमानस्य भूतेषु च दयावतः ।
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः

bhogeṣūdayamānasya bhūteṣu ca dayāvataḥ |
vardhate tvaramāṇasya viṣayo rakṣitātmanaḥ

94.21

तक्षेदात्मानमेवं स वनं परशुना यथा ।
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते

takṣedātmānamevaṃ sa vanaṃ paraśunā yathā |
yaḥ samyagvartamāneṣu sveṣu mithyā pravartate

94.22

नैव द्विषन्तो हीयन्ते राज्ञो नित्यमनिघ्नतः ।
क्रोधं निहन्तुं यो वेद तस्य द्वेष्टा न विद्यते

naiva dviṣanto hīyante rājño nityamanighnataḥ |
krodhaṃ nihantuṃ yo veda tasya dveṣṭā na vidyate

94.23

यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः ।
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्

yadāryajanavidviṣṭaṃ karma tannācaredbudhaḥ |
yatkalyāṇamabhidhyāyettatrātmānaṃ niyojayet

94.24

नैवमन्येऽवजानन्ति नात्मना परितप्यते ।
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति

naivamanye'vajānanti nātmanā paritapyate |
kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati

94.25

इदं वृत्तं मनुष्येषु वर्तते यो महीपतिः ।
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते

idaṃ vṛttaṃ manuṣyeṣu vartate yo mahīpatiḥ |
ubhau lokau vinirjitya vijaye saṃpratiṣṭhate

भीष्म उवाच

94.26

इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः ।
तथा कुर्वंस्त्वमप्येतौ लोकौजेता न संशयः

ityukto vāmadevena sarvaṃ tatkṛtavānnṛpaḥ |
tathā kurvaṃstvamapyetau lokaujetā na saṃśayaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)