स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि ।
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह
svakarmaṇyapare yuktāstathaivānye vikarmaṇi |
teṣāṃ viśeṣamācakṣva brāhmaṇānāṃ pitāmaha
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्सप्ततितमोऽध्यायः ॥
27 श्लोक · 76 में से 372
युधिष्ठिर पूछते हैं कि अपने कर्म में लगे और उससे हटे ब्राह्मणों में क्या भेद है। भीष्म उन्हें श्रेणियों में बाँटते हैं। विद्या से सम्पन्न, सर्वत्र वेद देखने वाले ब्रह्मा के समान हैं; अपने कर्म में लगे ऋत्विज और आचार्य देवताओं जैसे हैं। पशुपालन से जीने वाले वैश्य कहलाते हैं, ऐश्वर्य चाहने वाले क्षत्रिय, और उनमें सैनिक वैश्य के समान हैं। विद्या और आचार से हीन शूद्र जैसे हैं, और बुलावा देने वाले, देवलक, नक्षत्रजीवी तथा ग्रामयाजक ब्राह्मण-चाण्डाल कहे गए हैं। व्रात्य, म्लेच्छ या महापापियों का यज्ञ कराने वाला नरक जाता है। राजा स्वकर्म से हटे सबसे कर और सेवा ले सकता है, पर ब्रह्मा और देवों जैसे ब्राह्मणों से नहीं। अभाव से चोरी करने वाले विद्वान ब्राह्मण का भरण राजा करे।
युधिष्ठिर उवाच
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि ।
तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह
svakarmaṇyapare yuktāstathaivānye vikarmaṇi |
teṣāṃ viśeṣamācakṣva brāhmaṇānāṃ pitāmaha
भीष्म उवाच
विद्यालक्षणसंपन्नाः सर्वत्राम्नायदर्शिनः ।
एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः
vidyālakṣaṇasaṃpannāḥ sarvatrāmnāyadarśinaḥ |
ete brahmasamā rājanbrāhmaṇāḥ parikīrtitāḥ
ऋत्विगाचार्यसंपन्नाः स्वेषु कर्मस्ववस्थिताः ।
एते देवसमा राजन्ब्राह्मणानां भवन्त्युत
ṛtvigācāryasaṃpannāḥ sveṣu karmasvavasthitāḥ |
ete devasamā rājanbrāhmaṇānāṃ bhavantyuta
गोऽजाविमहिषाणां च बडवानां च पोषकाः ।
वृत्त्यर्थं प्रतिपद्यन्ते तान्वैश्यान्संप्रचक्षते
go'jāvimahiṣāṇāṃ ca baḍavānāṃ ca poṣakāḥ |
vṛttyarthaṃ pratipadyante tānvaiśyānsaṃpracakṣate
ऐश्वर्यकामा ये चापि सामिपा वाऽपि भारत ।
निग्रहानुग्रहरतांस्तान्द्विजान्क्षत्रियान्विदुः
aiśvaryakāmā ye cāpi sāmipā vā'pi bhārata |
nigrahānugraharatāṃstāndvijānkṣatriyānviduḥ
अश्वारोहा गजारोहा रथिनोऽथ पदातयः ।
एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत
aśvārohā gajārohā rathino'tha padātayaḥ |
ete vaiśyasamā rājanbrāhmaṇānāṃ bhavantyuta
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः ।
एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत
janmakarmavihīnā ye kadaryā brahmabandhavaḥ |
ete śūdrasamā rājanbrāhmaṇānāṃ bhavantyuta
अश्रोत्रियाः सर्वे एते सर्वे चानाहिताग्नयः ।
तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत्
aśrotriyāḥ sarve ete sarve cānāhitāgnayaḥ |
tānsarvāndhārmiko rājā baliṃ viṣṭiṃ ca kārayet
आह्वायका देवलका नाक्षत्रा ग्रामयाजकाः ।
एते ब्राह्मणचाण्डाला महापथिकपञ्चमाः
āhvāyakā devalakā nākṣatrā grāmayājakāḥ |
ete brāhmaṇacāṇḍālā mahāpathikapañcamāḥ
[ऋत्विक्पुरोहितो मन्त्री दूतो वार्तानुकर्षकः ।
एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥]
[ṛtvikpurohito mantrī dūto vārtānukarṣakaḥ |
ete kṣatrasamā rājanbrāhmaṇānāṃ bhavantyuta ||]
म्लेच्छदेशाश्च ये केचित्पापैरध्युषिता नरैः ।
गत्वा तु ब्राह्मणस्तांश्च चण्डालः प्रेत्य चेह च
mlecchadeśāśca ye kecitpāpairadhyuṣitā naraiḥ |
gatvā tu brāhmaṇastāṃśca caṇḍālaḥ pretya ceha ca
व्रात्यान्म्लेच्छांश्च शूद्रांश्च याजयित्वा द्विजाधमः ।
अकीर्तिमिह संप्राप्य नरकं प्रतिपद्यते
vrātyānmlecchāṃśca śūdrāṃśca yājayitvā dvijādhamaḥ |
akīrtimiha saṃprāpya narakaṃ pratipadyate
महावृन्दसमुद्राभ्यां पर्यायेणैकविंशतिम् ।
ब्राह्मणो ऋग्यजुः साम्नां मूढः कृत्वा तु विप्लवम्
mahāvṛndasamudrābhyāṃ paryāyeṇaikaviṃśatim |
brāhmaṇo ṛgyajuḥ sāmnāṃ mūḍhaḥ kṛtvā tu viplavam
कल्पमेकं कृमिस्थोऽथ नानाविष्ठासु जायते ।
व्रात्ये म्लेच्छे तथा शूद्रे तस्करे पत्तितेऽशुचौ
kalpamekaṃ kṛmistho'tha nānāviṣṭhāsu jāyate |
vrātye mlecche tathā śūdre taskare pattite'śucau
कुदेशे च सुरापे च ब्रह्मघ्ने वृषलीपतौ ।
अनधीतेषु सर्वत्र भुञ्जाने यत्र तत्र वा
kudeśe ca surāpe ca brahmaghne vṛṣalīpatau |
anadhīteṣu sarvatra bhuñjāne yatra tatra vā
वालस्त्रीवृद्धहन्तुश्च मातापित्रोर्गुरोस्तथा ।
मित्रद्रुहि कृतघ्ने च गोघ्ने चैव कथंचन
vālastrīvṛddhahantuśca mātāpitrorgurostathā |
mitradruhi kṛtaghne ca goghne caiva kathaṃcana
पुत्रघातिनि शत्रौ च न मन्त्राद्याजयेद्द्विजः ।
स तेषां विप्लवः प्रोक्तो मन्त्रविद्भिः सनातनैः
putraghātini śatrau ca na mantrādyājayeddvijaḥ |
sa teṣāṃ viplavaḥ prokto mantravidbhiḥ sanātanaiḥ
यदि विप्रो विदेशस्थस्तीर्थयात्रां गतोऽपि वा ।
यदि भीतः प्रपन्नो वा कुदेशं शौचवर्जितम्
yadi vipro videśasthastīrthayātrāṃ gato'pi vā |
yadi bhītaḥ prapanno vā kudeśaṃ śaucavarjitam
सुसयतः शुचिर्भुत्वा मन्त्रानुच्चारयेद्द्विजः ।
आर्तश्चोच्चारयेन्मन्त्रमार्तत्राणपरोऽथवा ।
हीनेष्वपि प्रयुञ्जानो नासौ विप्लावकः स्मृतः
susayataḥ śucirbhutvā mantrānuccārayeddvijaḥ |
ārtaścoccārayenmantramārtatrāṇaparo'thavā |
hīneṣvapi prayuñjāno nāsau viplāvakaḥ smṛtaḥ
क्रूरकर्मा विकर्मा वा कर्मभिर्वञ्चितोऽथवा ।
तत्त्ववित्तरते पापं शीलवान्सयतेन्द्रियः
krūrakarmā vikarmā vā karmabhirvañcito'thavā |
tattvavittarate pāpaṃ śīlavānsayatendriyaḥ
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः ।
ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च
etebhyo balimādadyāddhīnakośo mahīpatiḥ |
ṛte brahmasamebhyaśca devakalpebhya eva ca
अब्राह्मणानां वित्तस्य स्वामी राजेति नः श्रुतिः ।
ब्राह्मणानां च येकेचिद्विकर्मस्था इति श्रुतिः ।
प्रागुक्तांश्चाप्यनुक्तांश्च सर्वास्तान्दापयेत्करान्
abrāhmaṇānāṃ vittasya svāmī rājeti naḥ śrutiḥ |
brāhmaṇānāṃ ca yekecidvikarmasthā iti śrutiḥ |
prāguktāṃścāpyanuktāṃśca sarvāstāndāpayetkarān
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।
नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया
vikarmasthāśca nopekṣyā viprā rājñā kathaṃcana |
niyamyāḥ saṃvibhajyāśca dharmānugrahakāmyayā
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।
राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः
yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ |
rājña evāparādhaṃ taṃ manyante tadvido janāḥ
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा ।
राजन्स राज्ञा भर्तव्य इति वेदविदो विदुः
avṛttyā yo bhavetsteno vedavitsnātakastathā |
rājansa rājñā bhartavya iti vedavido viduḥ
स चेन्नापि निवर्तेत कृतवृत्तिः परन्तप ।
ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः
sa cennāpi nivarteta kṛtavṛttiḥ parantapa |
tato nirvāsanīyaḥ syāttasmāddeśātsabāndhavaḥ
यज्ञः श्रुतमपैशुन्यमर्हिसाऽतिथिपूजनम् ।
दमः सत्यं तपो दानमेतद्ब्राह्मणलक्षणम्
yajñaḥ śrutamapaiśunyamarhisā'tithipūjanam |
damaḥ satyaṃ tapo dānametadbrāhmaṇalakṣaṇam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)