शान्ति पर्व

अध्याय 74: मुचुकुन्द का कुबेर से मिला राज्य ठुकराना

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुःसप्ततितमोऽध्यायः ॥

25 श्लोक · 74 में से 372

इस अध्याय में क्या होता है

मुचुकुन्द का कुबेर से मिला राज्य ठुकराना

युधिष्ठिर पूछते हैं कि ब्राह्मण और क्षत्रिय की शक्ति मिलकर राष्ट्र की रक्षा कैसे करती है। भीष्म कहते हैं कि दिखने वाले भय को राजा भुजाओं से और अदृश्य भय को पुरोहित तप से शान्त करता है। वे राजा मुचुकुन्द की कथा सुनाते हैं, जिन्होंने पृथ्वी जीतकर अलकापति कुबेर से बल परखा। कुबेर ने राक्षस छोड़े और सेना कटने लगी, तो मुचुकुन्द ने पुरोहित की निन्दा की। तब वसिष्ठ ने उग्र तप से राक्षसों को मारकर मार्ग खोला। कुबेर ने ब्राह्मण के बल पर टिकने का उपहास किया। मुचुकुन्द बोले कि स्वयम्भू ने दोनों को एक मूल से रचा, एक को तप-मन्त्र का बल, दूसरे को भुजबल दिया। कुबेर ने पृथ्वी दी, पर मुचुकुन्द ने केवल अपने भुजबल से जीता राज्य ही स्वीकारा।

युधिष्ठिर उवाच

74.1

ब्रह्मक्षत्रस्य सामर्थ्यं कथितं ते पितामह ।
पुरोहितप्रभावश्च लक्षणं च पुरोधसः

brahmakṣatrasya sāmarthyaṃ kathitaṃ te pitāmaha |
purohitaprabhāvaśca lakṣaṇaṃ ca purodhasaḥ

74.2

इदानीं श्रोतुमिच्छामि ब्रह्मक्षत्रविनिर्णयम् ।
ब्रह्मक्षत्रं हि सर्वस्य कारणं जगतः परम् ।
योगक्षेमो हि राष्ट्रस्य ताभ्यामायत्त एव च

idānīṃ śrotumicchāmi brahmakṣatravinirṇayam |
brahmakṣatraṃ hi sarvasya kāraṇaṃ jagataḥ param |
yogakṣemo hi rāṣṭrasya tābhyāmāyatta eva ca

भीष्म उवाच

74.3

योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते ।
योगक्षेमो हि राज्ञो हि समायत्तः पुरोहिते

yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate |
yogakṣemo hi rājño hi samāyattaḥ purohite

74.4

यत्रादृष्टं भयं ब्रह्म प्रजानां शमयत्युत ।
दृष्टं च राजा बाहुभ्यां तद्राज्यं सुखमेधते

yatrādṛṣṭaṃ bhayaṃ brahma prajānāṃ śamayatyuta |
dṛṣṭaṃ ca rājā bāhubhyāṃ tadrājyaṃ sukhamedhate

74.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च

atrāpyudāharantīmamitihāsaṃ purātanam |
mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca

74.6

मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः ।
जिज्ञासमानः स बलमभ्ययादलकाधिपम्

mucukundo vijityemāṃ pṛthivīṃ pṛthivīpatiḥ |
jijñāsamānaḥ sa balamabhyayādalakādhipam

74.7

ततो वैश्रवणो राजा राक्षसानसृजत्तदा ।
ते बलान्यवमृद्गन्त मुचुकुन्दस्य नैर्ऋताः

tato vaiśravaṇo rājā rākṣasānasṛjattadā |
te balānyavamṛdganta mucukundasya nairṛtāḥ

74.8

स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः ।
गर्हयामास विद्वांसं पुरोहितमरिन्दमः

sa hanyamāne sainye sve mucukundo narādhipaḥ |
garhayāmāsa vidvāṃsaṃ purohitamarindamaḥ

74.9

तत उग्रं तपस्तप्त्वा वसिष्ठो धर्मवित्तमः ।
रक्षांस्युपावधीत्तत्र पन्थानं चाप्यविन्दत

tata ugraṃ tapastaptvā vasiṣṭho dharmavittamaḥ |
rakṣāṃsyupāvadhīttatra panthānaṃ cāpyavindata

74.10

ततो वैश्रवणो राजा मुचुकुन्दमगर्हयत् ।
वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत्

tato vaiśravaṇo rājā mucukundamagarhayat |
vadhyamāneṣu sainyeṣu vacanaṃ cedamabravīt

धनद उवाच

74.11

बलवन्तस्त्वया पूर्वे राजानः सपुरोहिताः ।
न चैवं समवर्तन्त यथा त्वमिव वर्तसे

balavantastvayā pūrve rājānaḥ sapurohitāḥ |
na caivaṃ samavartanta yathā tvamiva vartase

74.12

ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः ।
आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः

te khalvapi kṛtāstrāśca balavantaśca bhūmipāḥ |
āgamya paryupāsante māmīśaṃ sukhaduḥkhayoḥ

74.13

यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि ।
किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे

yadyasti bāhuvīryaṃ te taddarśayitumarhasi |
kiṃ brāhmaṇabalena tvamatimātraṃ pravartase

74.14

मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम् ।
न्यायपूर्वमसंलब्धमसंभ्रान्तमिदं वचः

mucukundastataḥ kruddhaḥ pratyuvāca dhaneśvaram |
nyāyapūrvamasaṃlabdhamasaṃbhrāntamidaṃ vacaḥ

74.15

ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयंभुवा ।
पृथग्बलविधानं च तल्लोकं परिपालयेत्

brahmakṣatramidaṃ sṛṣṭamekayoni svayaṃbhuvā |
pṛthagbalavidhānaṃ ca tallokaṃ paripālayet

74.16

तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम् ।
अस्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम्

tapomantrabalaṃ nityaṃ brāhmaṇeṣu pratiṣṭhitam |
asrabāhubalaṃ nityaṃ kṣatriyeṣu pratiṣṭhitam

74.17

ताभ्यां संभूय कर्तव्यं प्रजानां परिपालनम् ।
तथा च मां प्रवर्तन्तं किं गर्हस्यलकाधिप

tābhyāṃ saṃbhūya kartavyaṃ prajānāṃ paripālanam |
tathā ca māṃ pravartantaṃ kiṃ garhasyalakādhipa

74.18

ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम् ।
नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत

tato'bravīdvaiśravaṇo rājānaṃ sapurohitam |
nāhaṃ rājyamanirdiṣṭaṃ kasmaicidvidadhāmyuta

74.19

नाच्छिन्दे वाऽप्यनिर्दिष्टमिति जानीहि पार्थिव ।
प्रशाधि पृथिवीं कृत्स्नां मद्दत्तामखिलामिमाम् ।
[एवमुक्तः प्रत्युवाच मुचुकुन्दो महीपतिः ॥]

nācchinde vā'pyanirdiṣṭamiti jānīhi pārthiva |
praśādhi pṛthivīṃ kṛtsnāṃ maddattāmakhilāmimām |
[evamuktaḥ pratyuvāca mucukundo mahīpatiḥ ||]

74.20

नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव ।
बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये

nāhaṃ rājyaṃ bhavaddattaṃ bhoktumicchāmi pārthiva |
bāhuvīryārjitaṃ rājyamaśnīyāmiti kāmaye

भीष्म उवाच

74.21

ततो वैश्रवणो राजा विस्मयं परमं ययौ ।
क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमरिन्दमम्

tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau |
kṣatradharme sthitaṃ dṛṣṭvā mucukundamarindamam

74.22

ततो राजा मुचुकुन्दः सोन्वशासद्वसुंधराम् ।
बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः

tato rājā mucukundaḥ sonvaśāsadvasuṃdharām |
bāhuvīryārjitāṃ samyakkṣatradharmamanuvrataḥ

74.23

एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते ।
स भुङ्क्ते विजितामुवीं यशश्च महदश्नुते

evaṃ yo brahmavidrājā brahmapūrvaṃ pravartate |
sa bhuṅkte vijitāmuvīṃ yaśaśca mahadaśnute

74.24

नित्योदकी ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः ।
तयोर्हि सर्वमायत्तं यत्किंचिज्जगतीगतम्

nityodakī brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ |
tayorhi sarvamāyattaṃ yatkiṃcijjagatīgatam

74.25

यशश्च तेजश्व महीं च कृत्स्नां
प्राप्नोति राजन्विपुलां च कीर्तिम् ।
प्रधानधर्मं नृपते नियच्छ
तथा च धर्मस्य चतुर्थमंशम्

yaśaśca tejaśva mahīṃ ca kṛtsnāṃ
prāpnoti rājanvipulāṃ ca kīrtim |
pradhānadharmaṃ nṛpate niyaccha
tathā ca dharmasya caturthamaṃśam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)