केन वृत्तेन वृत्तज्ञः वर्तमानो महीपतिः ।
सुखेनार्थान् सुखोदर्कानिह च प्रेत्य चाश्नुते
kena vṛttena vṛttajñaḥ vartamāno mahīpatiḥ |
sukhenārthān sukhodarkāniha ca pretya cāśnute
14 श्लोक · 70 में से 372
युधिष्ठिर पूछते हैं कि किस आचरण से राजा इस लोक और परलोक में सुख पाता है। भीष्म राजा के आचरण के छत्तीस गुण जोड़ियों में बताते हैं। धर्म करे पर कटुता के बिना, धन कमाए पर क्रूरता के बिना, भोग करे पर उद्दण्डता के बिना। प्रिय बोले पर दीनता के बिना; शूर हो पर डींग न मारे, दाता हो पर कुपात्र को न दे, साहसी हो पर निष्ठुर न हो। अनार्यों से सन्धि न करे, बिना परखे गुप्तचर न रखे, बिना जाँचे दण्ड न दे, मन्त्रणा प्रकट न करे, अपकारी पर विश्वास न करे। ईर्ष्या रहित होकर पत्नियों की रक्षा करे, भोग और भोजन में संयम रखे, बिना दम्भ के देवपूजा करे। शत्रु को मारकर शोक न करे, अकारण क्रोध न करे। युधिष्ठिर भीष्म को प्रणाम कर इसे अपनाते हैं।
युधिष्ठिर उवाच
केन वृत्तेन वृत्तज्ञः वर्तमानो महीपतिः ।
सुखेनार्थान् सुखोदर्कानिह च प्रेत्य चाश्नुते
kena vṛttena vṛttajñaḥ vartamāno mahīpatiḥ |
sukhenārthān sukhodarkāniha ca pretya cāśnute
भीष्म उवाच
इत्थं गुणानां षट्त्रिंशी षट्त्रिंशद्गुणसंयुता ।
यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात्
itthaṃ guṇānāṃ ṣaṭtriṃśī ṣaṭtriṃśadguṇasaṃyutā |
yānguṇāṃstu guṇopetaḥ kurvanguṇamavāpnuyāt
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न चास्तिकः ।
अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः
careddharmānakaṭuko muñcetsnehaṃ na cāstikaḥ |
anṛśaṃsaścaredarthaṃ caretkāmamanuddhataḥ
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।
दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः
priyaṃ brūyādakṛpaṇaḥ śūraḥ syādavikatthanaḥ |
dātā nāpātravarṣī syātpragalbhaḥ syādaniṣṭhuraḥ
संदधीत न चानार्यैर्विगृह्णीयाच्च शत्रुभिः ।
नानाप्तैश्चारयेच्चारं कुर्यात्कार्यमपीडया
saṃdadhīta na cānāryairvigṛhṇīyācca śatrubhiḥ |
nānāptaiścārayeccāraṃ kuryātkāryamapīḍayā
अर्थं ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः ।
आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत्
arthaṃ brūyānna cāsatsu guṇānbrūyānna cātmanaḥ |
ādadyānna ca sādhubhyo nāsatpuruṣamāśrayet
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् ।
विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु
nāparīkṣya nayeddaṇḍaṃ na ca mantraṃ prakāśayet |
visṛjenna ca lubdhebhyo viśvasennāpakāriṣu
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।
स्त्रियः सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम्
anīrṣurguptadāraḥ syāccokṣaḥ syādaghṛṇī nṛpaḥ |
striyaḥ seveta nātyarthaṃ mṛṣṭaṃ bhuñjīta nāhitam
अस्तब्धः पूजयन्मान्यान्गुरून्सेवेदमायया ।
अर्चेद्देवानदम्भेन श्रियमिच्छेदकृत्सिताम्
astabdhaḥ pūjayanmānyāngurūnsevedamāyayā |
arceddevānadambhena śriyamicchedakṛtsitām
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् ।
सान्त्वयेन्न च मोक्षाय अनुगृह्णन्न चाक्षिपेत्
seveta praṇayaṃ hitvā dakṣaḥ syānna tvakālavit |
sāntvayenna ca mokṣāya anugṛhṇanna cākṣipet
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शोचयेत् ।
क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु
praharenna tvavijñāya hatvā śatrūnna śocayet |
krodhaṃ kuryānna cākasmānmṛduḥ syānnāpakāriṣu
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि ।
अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम्
evaṃ carasva rājyastho yadi śreya ihecchasi |
ato'nyathā narapatirbhayamṛcchatyanuttamam
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते ।
अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते
iti sarvānguṇānetānyathoktānyo'nuvartate |
anubhūyeha bhadrāṇi pretya svarge mahīyate
वैशंपायन उवाच
इदं वचः शान्तनवस्य शुश्रुवा
न्युधिष्ठिरः पार्थिवमुख्यसंवृतः ।
तदा ववन्दे च पितामहं नृपो
यथोक्तमेतच्च चकार बुद्धिमान्
idaṃ vacaḥ śāntanavasya śuśruvā
nyudhiṣṭhiraḥ pārthivamukhyasaṃvṛtaḥ |
tadā vavande ca pitāmahaṃ nṛpo
yathoktametacca cakāra buddhimān
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)