एतावदुक्त्वा देवर्षिर्विरराम स नारदः ।
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः
etāvaduktvā devarṣirvirarāma sa nāradaḥ |
yudhiṣṭhirastu rājarṣirdadhyau śokapariplutaḥ
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्ठोऽध्यायः ॥
13 श्लोक · 6 में से 372
युधिष्ठिर को आँसू बहाते देखकर कुन्ती मधुर वाणी में कहती हैं कि शोक मत करो। मैंने स्वयं कर्ण से विनती की थी कि वह भाइयों को अपना परिचय दे, और उसके पिता सूर्यदेव ने भी स्वप्न में मेरे सामने उसे यही समझाया था। न मैं, न सूर्य उसे मना सके कि वह तुमसे एक हो जाए। रोते हुए युधिष्ठिर कहते हैं कि तुम्हारे रहस्य छिपाने से हम ठगे गए। दुःख में वे सब लोकों की स्त्रियों को शाप देते हैं कि वे कोई रहस्य नहीं छिपा सकेंगी। फिर मारे गए पुत्रों, पौत्रों और स्वजनों को याद कर वे राज्य से विरक्त हो जाते हैं।
वैशंपायन उवाच
एतावदुक्त्वा देवर्षिर्विरराम स नारदः ।
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः
etāvaduktvā devarṣirvirarāma sa nāradaḥ |
yudhiṣṭhirastu rājarṣirdadhyau śokapariplutaḥ
तं दीनमनसं वीरमधोवदनमातुरम् ।
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा
taṃ dīnamanasaṃ vīramadhovadanamāturam |
niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना ।
अब्रवीन्मधुराभाषा काले वचनमर्थवत्
kuntī śokaparītāṅgī duḥkhopahatacetanā |
abravīnmadhurābhāṣā kāle vacanamarthavat
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि ।
जहि शोकं महाप्राज्ञ श्रृणु चेदं वचो मम
yudhiṣṭhira mahābāho nainaṃ śocitumarhasi |
jahi śokaṃ mahāprājña śrṛṇu cedaṃ vaco mama
याचितः स मया पूर्वं भ्राता ज्ञापयितुं तव ।
भास्करेण च देवेन पित्रा धर्मभृतां वरः
yācitaḥ sa mayā pūrvaṃ bhrātā jñāpayituṃ tava |
bhāskareṇa ca devena pitrā dharmabhṛtāṃ varaḥ
यद्वाच्यं हितकामेन सुहृदां भूतिमिच्छता ।
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः
yadvācyaṃ hitakāmena suhṛdāṃ bhūtimicchatā |
tathā divākareṇoktaḥ svapnānte mama cāgrataḥ
न चैनमशकद्भानुरहं वा स्नेहकारणैः ।
पुरा प्रत्यनुनेतुं वा नेतुं वाऽप्येकतां त्वया
na cainamaśakadbhānurahaṃ vā snehakāraṇaiḥ |
purā pratyanunetuṃ vā netuṃ vā'pyekatāṃ tvayā
ततः कालपरीतः स वैरस्योद्धरणे रतः ।
प्रतीपकारी युष्माकमिति चोपेक्षितो मया
tataḥ kālaparītaḥ sa vairasyoddharaṇe rataḥ |
pratīpakārī yuṣmākamiti copekṣito mayā
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः ।
उवाच वाक्यं धर्मात्मा शोकव्याकुललोचनः
ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ |
uvāca vākyaṃ dharmātmā śokavyākulalocanaḥ
भवत्या गूढमन्त्रत्वाद्वञ्चिताः स्म तदा भृशम्
bhavatyā gūḍhamantratvādvañcitāḥ sma tadā bhṛśam
शशाप च महातेजाः सर्वलोकेषु योषितः ।
न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः
śaśāpa ca mahātejāḥ sarvalokeṣu yoṣitaḥ |
na guhyaṃ dhārayiṣyantītyevaṃ duḥkhasamanvitaḥ
स राजा पुत्रपौत्राणां संबन्धिसुहृदां तदा ।
स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः
sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tadā |
smarannudvignahṛdayo babhūvodvignacetanaḥ
ततः शोकपरीतात्मा सधूम इव पावकः ।
निर्वेदमगमद्धीमान्राज्ये संतापपीडितः
tataḥ śokaparītātmā sadhūma iva pāvakaḥ |
nirvedamagamaddhīmānrājye saṃtāpapīḍitaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)