शान्ति पर्व

अध्याय 42: युधिष्ठिर द्वारा शतनाम से श्रीकृष्ण की स्तुति

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्विचत्वारिंशोऽध्यायः ॥

18 श्लोक · 42 में से 372

इस अध्याय में क्या होता है

युधिष्ठिर द्वारा शतनाम से श्रीकृष्ण की स्तुति

राज्याभिषेक के बाद युधिष्ठिर हाथ जोड़कर श्रीकृष्ण से कहते हैं कि पितृ-पितामहों का यह राज्य मुझे आपकी कृपा, नीति, बुद्धि और पराक्रम से फिर मिला है, केवल बल से नहीं। फिर वे नामों की माला से उनकी स्तुति करते हैं: विश्वकर्मा, विश्वात्मा, विष्णु, जिष्णु, हरि, वैकुण्ठ, पुरुषोत्तम, अदिति के गर्भ से सात बार जन्मे, पृश्निगर्भ, हृषीकेश, दामोदर, वराह, शिपिविष्ट, उरुक्रम, वामन, कपिल, यज्ञ, हिरण्यगर्भ और अनेक अन्य। वे उन्हें जगत् का उद्गम और प्रलय कहते हैं, जो आदि में विश्व रचते हैं और उसे अपने वश में रखते हैं, और शार्ङ्ग, चक्र तथा खड्ग धारण करने वाले को प्रणाम करते हैं। प्रसन्न श्रीकृष्ण मधुर वचनों से उनका अभिनन्दन करते हैं। अध्याय कहता है कि इन सौ नामों का पाठ करने वाला पापों से छूट जाता है।

वैशंपायन उवाच

42.1

अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः ।
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः

abhiṣikto mahāprājño rājyaṃ prāpya yudhiṣṭhiraḥ |
dāśārhaṃ puṇḍarīkākṣamuvāca prāñjaliḥ śuciḥ

42.2

तव कृष्ण प्रसादेन नयेन न बलेन च ।
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च

tava kṛṣṇa prasādena nayena na balena ca |
buddhyā ca yaduśārdūla tathā vikramaṇena ca

42.3

पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया ।
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम

punaḥ prāptamidaṃ rājyaṃ pitṛpaitāmahaṃ mayā |
namaste puṇḍarīkākṣa punaḥ punarariṃdama

42.4

त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् ।
नामभिस्त्वां बहुविधैः स्तुवन्ति प्रयता द्विजाः

tvāmekamāhuḥ puruṣaṃ tvāmāhuḥ sātvatāṃ patim |
nāmabhistvāṃ bahuvidhaiḥ stuvanti prayatā dvijāḥ

42.5

विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव ।
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम

viśvakarmannamaste'stu viśvātmanviśvasaṃbhava |
viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama

42.6

अदित्याः सप्तधा त्वं तु पुराणो गर्भतां गतः ।
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि

adityāḥ saptadhā tvaṃ tu purāṇo garbhatāṃ gataḥ |
pṛśnigarbhastvamevaikastriyugaṃ tvāṃ vadantyapi

42.7

शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यते ।
त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च

śuciśravā hṛṣīkeśo ghṛtārcirhaṃsa ucyate |
tricakṣuḥ śaṃbhurekastvaṃ vibhurdāmodaro'pi ca

42.8

वराहोऽग्निर्बृहद्भानुर्वृषभस्तार्क्ष्यलक्षणः ।
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः

varāho'gnirbṛhadbhānurvṛṣabhastārkṣyalakṣaṇaḥ |
anīkasāhaḥ puruṣaḥ śipiviṣṭa urukramaḥ

42.9

वरिष्ठ उग्रसेनानीः सत्यो वाजसनिर्गुहः ।
अच्युतश्च्यावनोऽरीणां संस्कृतो विकृतिर्वृषः

variṣṭha ugrasenānīḥ satyo vājasanirguhaḥ |
acyutaścyāvano'rīṇāṃ saṃskṛto vikṛtirvṛṣaḥ

42.10

कृष्णधर्मस्त्वमेवादिर्वृषदर्भो वृषाकपिः ।
सिन्धुर्विधूर्मिस्त्रिककुप् त्रिधामा त्रिवृदच्युतः

kṛṣṇadharmastvamevādirvṛṣadarbho vṛṣākapiḥ |
sindhurvidhūrmistrikakup tridhāmā trivṛdacyutaḥ

42.11

सम्राड् विराट् स्वराट् चैव स्वराड्‌भूतमयो भवः ।
विभूर्भूरतिभूः कृष्णः कृष्णवर्त्मा त्वमेव च

samrāḍ virāṭ svarāṭ caiva svarāḍ‌bhūtamayo bhavaḥ |
vibhūrbhūratibhūḥ kṛṣṇaḥ kṛṣṇavartmā tvameva ca

42.12

स्विष्टकृद्भिषजावर्तः कपिलस्त्वं च वामनः ।
यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे

sviṣṭakṛdbhiṣajāvartaḥ kapilastvaṃ ca vāmanaḥ |
yajño dhruvaḥ pataṅgaśca jayatsenastvamucyase

42.13

शिखण्डी नहुषो बभ्रुर्दिविस्पृक् त्वं पुनर्वसुः ।
सुबभ्रू रुक्मयज्ञश्च सुषेणो दुन्दुभिस्तथा

śikhaṇḍī nahuṣo babhrurdivispṛk tvaṃ punarvasuḥ |
subabhrū rukmayajñaśca suṣeṇo dundubhistathā

42.14

गभस्तिनेमिः श्रीपझः पुष्करः शुष्मधारणः ।
ऋभुर्विभुः सर्वसूक्ष्मस्त्व धरित्री च पठ्यसे

gabhastinemiḥ śrīpajhaḥ puṣkaraḥ śuṣmadhāraṇaḥ |
ṛbhurvibhuḥ sarvasūkṣmastva dharitrī ca paṭhyase

42.15

अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धामवित् ।
हिरण्यगर्भः पुरुषः स्वधा स्वाहा च केशवः

ambhonidhistvaṃ brahmā tvaṃ pavitraṃ dhāma dhāmavit |
hiraṇyagarbhaḥ puruṣaḥ svadhā svāhā ca keśavaḥ

42.16

योनिस्त्वमस्य प्रलयश्च कृष्ण
त्वमेवेदं सृजसि विश्वमग्रे ।
विश्वं चेदं त्वद्वशे विश्वयोने
नमोस्तु ते शार्ङ्गचक्रासिपाणे

yonistvamasya pralayaśca kṛṣṇa
tvamevedaṃ sṛjasi viśvamagre |
viśvaṃ cedaṃ tvadvaśe viśvayone
namostu te śārṅgacakrāsipāṇe

42.17

एवं स्तुतो धर्मराजेन कृष्णः
सभामध्ये प्रीतिमान्पुष्कराक्षः ।
तमभ्यनन्दद्भारतं पुष्कलाभि
र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः

evaṃ stuto dharmarājena kṛṣṇaḥ
sabhāmadhye prītimānpuṣkarākṣaḥ |
tamabhyanandadbhārataṃ puṣkalābhi
rvāgbhirjyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ

42.18

एतन्नामशतं विष्णोर्धर्मराजेन कीर्तितम् ।
यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते

etannāmaśataṃ viṣṇordharmarājena kīrtitam |
yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)