ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि ।
श्राद्धानि कारयामास तेषां पृथगुदारधीः
tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā yudhi |
śrāddhāni kārayāmāsa teṣāṃ pṛthagudāradhīḥ
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकचत्वारिंशोऽध्यायः ॥
12 श्लोक · 41 में से 372
युधिष्ठिर युद्ध में मारे गए प्रत्येक बन्धु का अलग-अलग श्राद्ध कराते हैं। धृतराष्ट्र अपने पुत्रों के और्ध्वदैहिक के लिए अन्न, गौएँ, धन और बहुमूल्य रत्न देते हैं। द्रौपदी के साथ युधिष्ठिर द्रोण और कर्ण, धृष्टद्युम्न और अभिमन्यु, हिडिम्बापुत्र घटोत्कच, विराट, द्रुपद और द्रौपदी के पुत्रों के लिए दान करते हैं, और प्रत्येक के नाम पर सहस्रों ब्राह्मणों को धन, गौ और वस्त्र से तृप्त करते हैं। जिन राजाओं का कोई सुहृद नहीं बचा, उनका श्राद्ध वे स्वयं करते हैं और उनकी स्मृति में सभाएँ, प्याऊ और तालाब बनवाते हैं। वे धृतराष्ट्र, गान्धारी और विदुर का पहले की भाँति आदर करते हैं, वीरहीन और पुत्रहीन स्त्रियों का पालन करते हैं, और दीनों तथा अन्धों को घर, वस्त्र और भोजन देते हैं।
वैशंपायन उवाच
ततो युधिष्ठिरो राजा ज्ञातीनां ये हता युधि ।
श्राद्धानि कारयामास तेषां पृथगुदारधीः
tato yudhiṣṭhiro rājā jñātīnāṃ ye hatā yudhi |
śrāddhāni kārayāmāsa teṣāṃ pṛthagudāradhīḥ
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् ।
सर्वकामगुणोपेतमन्नं गाश्च धनानि च ।
रत्नानि च विचित्राणि महार्हाणि महायशाः
dhṛtarāṣṭro dadau rājā putrāṇāmaurdhvadehikam |
sarvakāmaguṇopetamannaṃ gāśca dhanāni ca |
ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ
युधिष्ठिरस्तु द्रोणस्य कर्णस्य च महात्मनः ।
धृष्टद्युम्नाभिमन्युभ्यां हेडिम्बस्य च रक्षसः
yudhiṣṭhirastu droṇasya karṇasya ca mahātmanaḥ |
dhṛṣṭadyumnābhimanyubhyāṃ heḍimbasya ca rakṣasaḥ
विराटप्रभृतीनां च सुहृदामुपकारिणाम् ।
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ
virāṭaprabhṛtīnāṃ ca suhṛdāmupakāriṇām |
drupadadraupadeyānāṃ draupadyā sahito dadau
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् ।
धनै रत्नैश्च गोभिश्च वस्त्रैश्च समतर्पयत्
brāhmaṇānāṃ sahasrāṇi pṛthagekaikamuddiśan |
dhanai ratnaiśca gobhiśca vastraiśca samatarpayat
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः ।
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदेहिकम्
ye cānye pṛthivīpālā yeṣāṃ nāsti suhṛjjanaḥ |
uddiśyoddiśya teṣāṃ ca cakre rājaurdhvadehikam
सभाः प्रपाश्च विविधास्तटाकानि च पाण्डवः ।
सुहृदां कारयामास सर्वेषामौर्ध्वदेहिकम्
sabhāḥ prapāśca vividhāstaṭākāni ca pāṇḍavaḥ |
suhṛdāṃ kārayāmāsa sarveṣāmaurdhvadehikam
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् ।
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्
sa teṣāmanṛṇo bhūtvā gatvā lokeṣvavācyatām |
kṛtakṛtyo'bhavadrājā prajā dharmeṇa pālayan
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा ।
सर्वांश्च कौरवान्मान्यान्भृत्यांश्च समपूजयत्
dhṛtarāṣṭraṃ yathāpūrvaṃ gāndhārīṃ viduraṃ tathā |
sarvāṃśca kauravānmānyānbhṛtyāṃśca samapūjayat
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः ॥
सर्वास्ताः कौरवो राजा संपूज्यापालायद्धृणी
yāśca tatra striyaḥ kāściddhatavīrā hatātmajāḥ ||
sarvāstāḥ kauravo rājā saṃpūjyāpālāyaddhṛṇī
दीनान्धकृपणानां च गृहाच्छादनभोजनैः ।
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः
dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ |
ānṛśaṃsyaparo rājā cakārānugrahaṃ prabhuḥ
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु ।
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः
sa vijitya mahīṃ kṛtsnāmānṛṇyaṃ prāpya vairiṣu |
niḥsapatnaḥ sukhī rājā vijahāra yudhiṣṭhiraḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)