प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम् ।
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत
prakṛtīnāṃ ca tadvākyaṃ deśakālopabṛṃhitam |
śrutvā yudhiṣṭhiro rājā'thottaraṃ pratyabhāṣata
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चत्वारिंशोऽध्यायः ॥
19 श्लोक · 40 में से 372
ब्राह्मणों और प्रजा की प्रशंसा का उत्तर देते हुए युधिष्ठिर कहते हैं कि धृतराष्ट्र हमारे पिता और परम देवता हैं। कुलवध के बाद मैं उन्हीं की सेवा के लिए जी रहा हूँ, सब पहले की भाँति उनकी आज्ञा मानें। फिर प्रजा को विदा करके वे भीम को युवराज बनाते हैं। विदुर को मन्त्रणा और षाड्गुण्य के विचार का भार मिलता है। संजय को किए और अनकिए कार्यों की जाँच तथा आय-व्यय का हिसाब सौंपा जाता है। नकुल को सेना की गणना, भोजन और वेतन का, और अर्जुन को शत्रु के आक्रमण रोकने तथा उद्दण्डों को दबाने का काम मिलता है। धौम्य देवकार्य देखेंगे और सहदेव सदा राजा के पास रहेंगे। विदुर, संजय और युयुत्सु से वे कहते हैं कि पहले धृतराष्ट्र का हर कार्य करें।
वैशंपायन उवाच
प्रकृतीनां च तद्वाक्यं देशकालोपबृंहितम् ।
श्रुत्वा युधिष्ठिरो राजाऽथोत्तरं प्रत्यभाषत
prakṛtīnāṃ ca tadvākyaṃ deśakālopabṛṃhitam |
śrutvā yudhiṣṭhiro rājā'thottaraṃ pratyabhāṣata
धन्याः पाण्डुसुता नूनं येषां ब्राह्मणपुङ्गवाः ।
तथ्यान्वाप्यथवाऽतथ्यान्गुणानाहुः समागताः
dhanyāḥ pāṇḍusutā nūnaṃ yeṣāṃ brāhmaṇapuṅgavāḥ |
tathyānvāpyathavā'tathyānguṇānāhuḥ samāgatāḥ
अनुग्राह्या वयं नूनं भवतामिति मे मतिः ।
यदेवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः
anugrāhyā vayaṃ nūnaṃ bhavatāmiti me matiḥ |
yadevaṃ guṇasaṃpannānasmānbrūtha vimatsarāḥ
धृतराष्ट्रो महाराजः पिता नो दैवतं परम् ।
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः
dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param |
śāsane'sya priye caiva stheyaṃ matpriyakāṅkṣibhiḥ
एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् ।
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा
etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat |
asya śuśrūṣaṇaṃ kāryaṃ mayā nityamatandriṇā
यदि चाहमनुग्राह्यो भवतां सुहृदां तथा ।
धृतरा यथापूर्वं वृत्तिं वर्तितुमर्हथ
yadi cāhamanugrāhyo bhavatāṃ suhṛdāṃ tathā |
dhṛtarā yathāpūrvaṃ vṛttiṃ vartitumarhatha
एष नाथो हि जगतो भवतां च मया सह ।
अस्य प्रसादे पृथिवी पाण्डवाः सर्व एव च
eṣa nātho hi jagato bhavatāṃ ca mayā saha |
asya prasāde pṛthivī pāṇḍavāḥ sarva eva ca
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम ।
अनुज्ञाप्याथ तान्राजा यथेष्टं गम्यतामिति
etanmanasi kartavyaṃ bhavadbhirvacanaṃ mama |
anujñāpyātha tānrājā yatheṣṭaṃ gamyatāmiti
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः ।
यौवराज्येन कौन्तेयं भीमसेनमयोजयत्
paurajānapadānsarvānvisṛjya kurunandanaḥ |
yauvarājyena kaunteyaṃ bhīmasenamayojayat
मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने ।
विदुरं बुद्धिसंपन्नं प्रीतिमान्स समादिशत्
mantre ca niścaye caiva ṣāṅguṇyasya ca cintane |
viduraṃ buddhisaṃpannaṃ prītimānsa samādiśat
कृताकृतपरिज्ञाने तथाऽऽयव्ययचिन्तने ।
संजयं योजयामास वृद्धं सर्वगुणैर्युतम्
kṛtākṛtaparijñāne tathā''yavyayacintane |
saṃjayaṃ yojayāmāsa vṛddhaṃ sarvaguṇairyutam
बलस्य परिमाणे च भक्तवेतनयोस्तथा ।
नकुलं व्यादिशद्राजा कर्मणां चान्ववेक्षणे
balasya parimāṇe ca bhaktavetanayostathā |
nakulaṃ vyādiśadrājā karmaṇāṃ cānvavekṣaṇe
परचक्रोपरोधे च दृप्तानां चावमर्दने ।
युधिष्ठिरो महाराज फल्गुनं व्यादिदेश ह
paracakroparodhe ca dṛptānāṃ cāvamardane |
yudhiṣṭhiro mahārāja phalgunaṃ vyādideśa ha
द्विजानां देवकार्येषु कार्येष्वन्येषु चैव ह ।
धौम्यं पुरोधसां श्रेष्ठं नित्यमेव समादिशत्
dvijānāṃ devakāryeṣu kāryeṣvanyeṣu caiva ha |
dhaumyaṃ purodhasāṃ śreṣṭhaṃ nityameva samādiśat
सहदेवं समीपस्थं नित्यमेव समादिशत् ।
तने गोप्यो हि नृपतिः सर्वावस्थो विशांपते
sahadevaṃ samīpasthaṃ nityameva samādiśat |
tane gopyo hi nṛpatiḥ sarvāvastho viśāṃpate
यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु ।
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः
yānyānamanyadyogyāṃśca yeṣu yeṣviha karmasu |
tāṃstāṃsteṣveva yuyuje prīyamāṇo mahīpatiḥ
विदुरं संजयं चैव युयुत्सुं च महामतिम् ।
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः
viduraṃ saṃjayaṃ caiva yuyutsuṃ ca mahāmatim |
abravītparavīraghno dharmātmā dharmavatsalaḥ
उत्थायोत्थाय तत्कार्यमस्य राज्ञः पितुर्मम ।
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथा मम
utthāyotthāya tatkāryamasya rājñaḥ piturmama |
sarvaṃ bhavadbhiḥ kartavyamapramattairyathā mama
पौरजानपदानां च यानि कार्याणि नित्यशः ।
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः
paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ |
rājānaṃ samanujñāpya tāni kāryāṇi dharmataḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)