शान्ति पर्व

अध्याय 356: नारायणीय का समापन; व्यास ही नारायण

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये षट्‌पञ्चाशदधिकत्रिशततमोऽध्यायः ॥

20 श्लोक · 356 में से 372

इस अध्याय में क्या होता है

नारायणीय का समापन; व्यास ही नारायण

नर-नारायण की बात सुनकर नारद पूर्ण रूप से अनन्य भक्त हो जाते हैं। उनके आश्रम में सहस्र वर्ष रहकर वे हिमालय में अपने आश्रम जाते हैं, और दोनों ऋषि तप करते रहते हैं। वैशम्पायन जनमेजय से कहते हैं कि कथा सुनकर अब तुम पवित्र हो गए। जो कर्म, मन या वाणी से विष्णु से द्वेष करता है उसका न यह लोक है न परलोक, और उसके पितर नरक में डूबते हैं; सबके आत्मा से कोई द्वेष कैसे करे? यह धर्म नारायण से नारद को मिला और संक्षेप में हरिगीता में कहा गया। सत्यवती के पुत्र व्यास को स्वयं नारायण जानो, क्योंकि और कौन महाभारत रच सकता था? सौति एक स्तुति से नारायणीय का समापन करते हैं।

वैशंपायन उवाच

356.1

श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् ।
अत्यन्तं भक्तिमान्देवे एकान्तित्वमुपेयिवान्

śrutvaitannārado vākyaṃ naranārāyaṇeritam |
atyantaṃ bhaktimāndeve ekāntitvamupeyivān

356.2

उषित्वा वर्षसाहस्रं नरनारायणाश्रमे ।
श्रुत्वा भगवदाख्यानं दृष्ट्वा च हरिमव्ययम् ।
जगाम हिमवत्कुक्षावाश्रमं स्वं सुरार्चितम्

uṣitvā varṣasāhasraṃ naranārāyaṇāśrame |
śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harimavyayam |
jagāma himavatkukṣāvāśramaṃ svaṃ surārcitam

356.3

तावपि ख्यातयशसौ नरनारायणावृषी ।
तस्मिन्नेवाश्रमे रम्ये तेपतुस्तप सत्तमम्

tāvapi khyātayaśasau naranārāyaṇāvṛṣī |
tasminnevāśrame ramye tepatustapa sattamam

356.4

त्वमप्यमितविक्रान्तः पाण्डवानां कुलोद्वहः ।
पावितात्माऽद्य संवृत्तः श्रुत्वेमामादितः कथाम्

tvamapyamitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ |
pāvitātmā'dya saṃvṛttaḥ śrutvemāmāditaḥ kathām

356.5

नैव तस्यापरो लोको नायं पार्थिवसत्तम ।
कर्मणा मनसा वाचा यो द्विष्याद्विष्णुमव्ययम्

naiva tasyāparo loko nāyaṃ pārthivasattama |
karmaṇā manasā vācā yo dviṣyādviṣṇumavyayam

356.6

मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
यो द्विष्याद्विबुधश्रेष्ठं देवं नारायणं हरिम्

majjanti pitarastasya narake śāśvatīḥ samāḥ |
yo dviṣyādvibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim

356.7

कथं नाम भवेद्द्वेष्य आत्मा लोकस्य कस्यचित् ।
आत्मा हि पुरुषव्याघ्र ज्ञेयो विष्णुरिति श्रुतिः

kathaṃ nāma bhaveddveṣya ātmā lokasya kasyacit |
ātmā hi puruṣavyāghra jñeyo viṣṇuriti śrutiḥ

356.8

य एष गुरुरस्माकमृषिर्गन्धवतीसुतः ।
तेनैतत्कथितं तात माहात्म्यं परमात्मनः ।
तस्माच्छ्रुतं मया चेदं कथितं च तवानघ

ya eṣa gururasmākamṛṣirgandhavatīsutaḥ |
tenaitatkathitaṃ tāta māhātmyaṃ paramātmanaḥ |
tasmācchrutaṃ mayā cedaṃ kathitaṃ ca tavānagha

356.9

नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः ।
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप

nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ |
eṣa dharmo jagannāthātsākṣānnārāyaṇānnṛpa

356.10

एवमेष महान्धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः

evameṣa mahāndharmaḥ sa te pūrvaṃ nṛpottama |
kathito harigītāsu samāsavidhikalpitaḥ

356.11

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् ।
धर्मान्नानाविधांश्चैव को ब्रूयात्तमृते प्रभुम्

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum |
ko hyanyaḥ puṇḍarīkākṣānmahābhāratakṛdbhavet |
dharmānnānāvidhāṃścaiva ko brūyāttamṛte prabhum

356.12

वर्ततां ते महायज्ञो यथासंकल्पितस्त्वया ।
संकल्पिताश्वमेधस्त्वं श्रुतधर्मा च तत्त्वतः

vartatāṃ te mahāyajño yathāsaṃkalpitastvayā |
saṃkalpitāśvamedhastvaṃ śrutadharmā ca tattvataḥ

सौतिरुवाच

356.13

एतत्तु महदाख्यानं श्रुत्वा पारीक्षितो नृपः ।
ततो यज्ञसमाप्त्यर्थं क्रियाः सर्वाः समारभत्

etattu mahadākhyānaṃ śrutvā pārīkṣito nṛpaḥ |
tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat

356.14

नारायणीयमाख्यानमेतत्ते कथितं मया ।
पृष्टेन शौनकाद्येह नैमिषारण्यवासिषु

nārāyaṇīyamākhyānametatte kathitaṃ mayā |
pṛṣṭena śaunakādyeha naimiṣāraṇyavāsiṣu

356.15

नारदेन पुरा यद्वै गुरवे तु निवेदितम् ।
ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः

nāradena purā yadvai gurave tu niveditam |
ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ

356.16

स हि परमर्षिर्जनभुवनपतिः
पृथुधरणिधरः श्रुतिविनयपरः ।
शमनियमनिधिर्यमनियमपरो द्विजवर
सहितस्तव च भवतु गतिर्हरिरमरहितः

sa hi paramarṣirjanabhuvanapatiḥ
pṛthudharaṇidharaḥ śrutivinayaparaḥ |
śamaniyamanidhiryamaniyamaparo dvijavara
sahitastava ca bhavatu gatirhariramarahitaḥ

356.17

भयदो मखभागहरोस्तु शरणं स ते

bhayado makhabhāgaharostu śaraṇaṃ sa te

356.18

त्रिगुणो विगुणश्चतुरात्मधरः
पूर्तेष्टयोश्च फलभागहरः ।
विदधातु नित्यमजितोऽतिचलो
गतिरात्मवतां सुकृतिनामृषीणाम्

triguṇo viguṇaścaturātmadharaḥ
pūrteṣṭayośca phalabhāgaharaḥ |
vidadhātu nityamajito'ticalo
gatirātmavatāṃ sukṛtināmṛṣīṇām

356.19

तं लोकसाक्षिणमजं पुरुषं पुराणं
रविवर्णमीश्वरं गतिं बहुशः ।
प्रणमध्वमेकमतयो यतः
सलिलोद्भवोपि तमृषिं प्रणतः

taṃ lokasākṣiṇamajaṃ puruṣaṃ purāṇaṃ
ravivarṇamīśvaraṃ gatiṃ bahuśaḥ |
praṇamadhvamekamatayo yataḥ
salilodbhavopi tamṛṣiṃ praṇataḥ

356.20

स हि लोकयोनिरसृतस्य पदं
सूक्ष्मं परायणमचलं हि पदम् ।
तत्साङ्ख्ययोगिभिरुदाहृतं तं
बुद्ध्या यतात्मभिरिदं सनातनम्

sa hi lokayonirasṛtasya padaṃ
sūkṣmaṃ parāyaṇamacalaṃ hi padam |
tatsāṅkhyayogibhirudāhṛtaṃ taṃ
buddhyā yatātmabhiridaṃ sanātanam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)