कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः ।
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्
kasyacittvatha kālasya nāradaḥ parameṣṭhijaḥ |
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ॥
27 श्लोक · 355 में से 372
नारद देवकर्म और पितृकर्म करते हैं; नर पूछते हैं कि इनमें वे किसे पूजते हैं। नारद कहते हैं कि इन सब कर्मों के देवता सनातन परमात्मा हैं; नारायण ही पिता, माता और पितामह हैं, और वे नारायण की विधि में ही पितरों को पूजते हैं। फिर वे पूछते हैं कि पितरों का नाम पिण्ड कैसे पड़ा। नर-नारायण बताते हैं: जब गोविन्द ने वराह रूप में डूबी पृथ्वी उठाई, तब उनकी दाढ़ों में मिट्टी के तीन पिण्ड चिपके रहे। मध्याह्न में उन्होंने उन्हें दक्षिणमुख कुश पर रखा, तिल सहित स्वयं को अर्पित किया और वृषाकपि रूप में कहा कि ये पिता, पितामह और प्रपितामह हैं और तीनों में मैं ही हूँ।
वैशंपायन उवाच
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः ।
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम्
kasyacittvatha kālasya nāradaḥ parameṣṭhijaḥ |
daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः ।
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते
tatastaṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ |
ka ijyate dvijaśreṣṭha daive pitrye ca kalpite
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम् ।
किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते
tvayā matimatāṃ śreṣṭha tanme śaṃsa yathātatham |
kimetatkriyate karma phalaṃ vā'sya kimiṣyate
नारद उवाच
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि ।
दैवतं च परो ज्ञेयः परमात्मा सनातनः
tvayaitatkathitaṃ pūrvaṃ daivaṃ kartavyamityapi |
daivataṃ ca paro jñeyaḥ paramātmā sanātanaḥ
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् ।
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः
tatastadbhāvito nityaṃ yaje vaikuṇṭhamavyayam |
tasmācca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् ।
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः
mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat |
ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ
यजामि वै पितॄन्साधो नारायणविधौ कृते ।
एवं स एव भगवान्पिता माता पितामहः
yajāmi vai pitṝnsādho nārāyaṇavidhau kṛte |
evaṃ sa eva bhagavānpitā mātā pitāmahaḥ
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ।
श्रुतिश्चाप्यपरा देवाः पुत्रान्हि पितरोऽयजन्
ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ |
śrutiścāpyaparā devāḥ putrānhi pitaro'yajan
वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः ।
ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम्
vedaśrutiḥ pranaṣṭā ca punaradhyāpitā sutaiḥ |
tataste mantradāḥ putrāḥ pitṝṇāmiti vaidikam
नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः ।
पुत्राश्च पितरश्चैव परस्परमपूजयन्
nūnaṃ suraistadviditaṃ yuvayorbhāvitātmanoḥ |
putrāśca pitaraścaiva parasparamapūjayan
त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति ।
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा
trīnpiṇḍānnyasya vai pitryānpūrvaṃ dattvā kuśāniti |
kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā
नरनारायणावूचतुः
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् ।
गोविन्द उज्जहाराशु वाराहं रूपमास्थितः
imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām |
govinda ujjahārāśu vārāhaṃ rūpamāsthitaḥ
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः ।
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः
sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ |
jalakardamaliptāṅgo lokakāryārthamudyataḥ
प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ ।
दंष्ट्राविलग्नांस्त्रीन्पिण्डान्विधूय सहसा प्रभुः
prāpte cāhnikakāle tu madhyadeśagate ravau |
daṃṣṭrāvilagnāṃstrīnpiṇḍānvidhūya sahasā prabhuḥ
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ।
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि
sthāpayāmāsa vai pṛthvyāṃ kuśānāstīrya nārada |
sa teṣvātmānamuddiśya pitryaṃ cakre yathāvidhi
संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ।
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि
saṃkalpayitvā trīnpiṇḍānsvenaiva vidhinā prabhuḥ |
ātmagātroṣmasaṃbhūtaiḥ snehagarbhaistilairapi
प्रोक्ष्यापसव्यं देवेशः प्राङ्भुखः कृतवान्स्वयम् ।
मर्यादास्थापनार्थं च ततो वचनमुक्तवान्
prokṣyāpasavyaṃ deveśaḥ prāṅbhukhaḥ kṛtavānsvayam |
maryādāsthāpanārthaṃ ca tato vacanamuktavān
वृषाकपिरुवाच
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ।
तस्य चिन्तयतः सद्यः पितृकार्यविधीन्परान्
ahaṃ hi pitaraḥ sraṣṭumudyato lokakṛtsvayam |
tasya cintayataḥ sadyaḥ pitṛkāryavidhīnparān
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ।
आश्रिता धरणीं पीड्य तस्मात्पितर एव ते
daṃṣṭrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam |
āśritā dharaṇīṃ pīḍya tasmātpitara eva te
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे ।
भवन्तु पितरो लोके मया सृष्टाः सनातनाः
trayo mūrtivihīnā vai piṇḍamūrtidharāstvime |
bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ
पिता पितामहश्चैव तथैव प्रपितामहः ।
अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ।
नास्ति मत्तोऽधिकः कश्चित्को वान्योर्च्यो मया स्वयं
pitā pitāmahaścaiva tathaiva prapitāmahaḥ |
ahamevātra vijñeyastriṣu piṇḍeṣu saṃsthitaḥ |
nāsti matto'dhikaḥ kaścitko vānyorcyo mayā svayaṃ
अहमेव पिता लोके अहमेव पितामहः ।
पितामहपिता चैव अहमेवात्र कारणम्
ahameva pitā loke ahameva pitāmahaḥ |
pitāmahapitā caiva ahamevātra kāraṇam
इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः ।
वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् ।
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः
ityetaduktvā vacanaṃ devadevo vṛṣākapiḥ |
varāhaparvate vipra dattvā piṇḍānsavistarān |
ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ
एतदर्थं सुभमते पितरः पिण्डसंज्ञिताः ।
लभन्ते सततं पूजां वृषाकपिवचो यथा
etadarthaṃ subhamate pitaraḥ piṇḍasaṃjñitāḥ |
labhante satataṃ pūjāṃ vṛṣākapivaco yathā
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिर्थीस्तथा ।
गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा
ye yajanti pitṝndevāngurūṃścaivātirthīstathā |
gāścaiva dvijamukhyāṃśca pitaraṃ mātaraṃ tathā
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ।
अन्तर्गतः स भगवान्सर्वसत्वशरीरगः
karmaṇā manasā vācā viṣṇumeva yajanti te |
antargataḥ sa bhagavānsarvasatvaśarīragaḥ
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ।
महान्महात्मा सर्वात्मा नारायण इति श्रुतिः
samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ |
mahānmahātmā sarvātmā nārāyaṇa iti śrutiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)