शान्ति पर्व

अध्याय 33: व्यास द्वारा प्रायश्चित्त योग्य कर्मों का वर्णन

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः ॥

35 श्लोक · 33 में से 372

इस अध्याय में क्या होता है

व्यास द्वारा प्रायश्चित्त योग्य कर्मों का वर्णन

युधिष्ठिर पूछते हैं कि किन कर्मों से मनुष्य प्रायश्चित्त का भागी होता है और किस उपाय से छूटता है। व्यास बताते हैं कि विहित कर्म न करने और निषिद्ध कर्म करने से मनुष्य प्रायश्चित्त का भागी बनता है। वे ऐसे दोष गिनाते हैं: ब्रह्मचारी का सूर्योदय तक सोना, बड़े भाई से पहले विवाह, ब्राह्मण का वध, मांस या वेद बेचना, वन जलाना, शरणागत को त्यागना, आश्रितों का भरण न करना, स्वजनों से कलह और गुरु का विरोध। फिर वे बताते हैं कि कहाँ वही कर्म पाप नहीं होता: शस्त्र लेकर मारने आए ब्राह्मण को मारना, प्राण बचाने के लिए असत्य बोलना, संकट में गुरु के लिए चोरी, या गौओं के लिए वन जलाना। अन्त में वे प्रायश्चित्त बताने का वचन देते हैं।

युधिष्ठिर उवाच

33.1

कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः ।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह

kāni kṛtveha karmāṇi prāyaścittīyate naraḥ |
kiṃ kṛtvā mucyate tatra tanme brūhi pitāmaha

व्यास उवाच

33.2

अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् ।
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन्

akurvanvihitaṃ karma pratiṣiddhāni cācaran |
prāyaścittīyate hyevaṃ naro mithyā'nuvartayan

33.3

सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत ।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि

sūryeṇābhyudito yaśca brahmacārī bhavatyuta |
tathā sūryābhinirmuktaḥ kunakhī śyāvadannapi

33.4

परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः ।
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च

parivittiḥ parivettā brahmejyāyāśca dūṣakaḥ |
didhiṣūpatistathā yaḥ syādagredidhiṣureva ca

33.5

अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा ।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः

avakīrṇī bhavedyaśca dvijātivadhakastathā |
atīrthe brāhmaṇastyāgī tīrthe cāpratipādakaḥ

33.6

ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी ।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी

grāmayājī ca kaunteya māṃsasya parivikrayī |
yaścāgnīnapavidhyeta tathaiva brahmavikrayī

33.7

शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ।
वृथा पशुसमालम्भी वनदाहस्य कारकः

śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ |
vṛthā paśusamālambhī vanadāhasya kārakaḥ

33.8

अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा ।
स्वदत्तस्यापहर्ता च परदत्तनिरोधकः

anṛtenopavartī ca pratiṣeddhā gurostathā |
svadattasyāpahartā ca paradattanirodhakaḥ

33.9

वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत् ।
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः

vāgdattaṃ ca manodattaṃ dhārādattaṃ ca yo haret |
pākabhedena bhoktā ca bhuñjānasyāpyanādaraḥ

33.10

स्वजनैः कलहं चैव आश्रितानामरक्षणम् ।
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः

svajanaiḥ kalahaṃ caiva āśritānāmarakṣaṇam |
etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ

33.11

अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे ।
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु

akāryāṇi tu vakṣyāmi yāni tāni nibodha me |
lokavedaviruddhāni tānyekāgramanāḥ śṛṇu

33.12

स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया ।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम्

svadharmasya parityāgaḥ paradharmasya ca kriyā |
ayājyayājanaṃ caiva tathā'bhakṣyasya bhakṣaṇam

33.13

शरणागतसंत्यागो भृत्यस्याभरणं तथा ।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा

śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā |
rasānāṃ vikrayaścāpi tiryagyonivadhastathā

33.14

आधानादीनि कर्माणि शक्तिमान्न करोति यः ।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत

ādhānādīni karmāṇi śaktimānna karoti yaḥ |
aprayacchaṃśca sarvāṇi nityadeyāni bhārata

33.15

दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् ।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः

dakṣiṇānāmadānaṃ ca brāhmaṇasvābhimarśanam |
sarvāṇyetānyakāryāṇi prāhurdharmavido janāḥ

33.16

पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः ।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः

pitrā vivadate putro yaśca syādgurutalpagaḥ |
aprajāyannaravyāghra bhavatyadhārmiko naraḥ

33.17

उक्तान्येतानि कर्माणि विस्तरेणेतरेण च

uktānyetāni karmāṇi vistareṇetareṇa ca

33.18

यानि कुर्वन्निकुर्वंश्च प्रायश्चित्तीयते नरः ।
एतान्येव तु कर्माणि क्रियमाणानि मानवैः ।
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु

yāni kurvannikurvaṃśca prāyaścittīyate naraḥ |
etānyeva tu karmāṇi kriyamāṇāni mānavaiḥ |
yeṣuyeṣu nimitteṣu na lipyante'tha tāñśṛṇu

33.19

प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्

pragṛhya śastramāyāntamapi vedāntagaṃ raṇe |
jighāṃsantaṃ jighāṃsīyānna tena brahmahā bhavet

33.20

इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते ।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते

iti cāpyatra kaunteya mantro vedeṣu paṭhyate |
vedapramāṇavihitaṃ dharmaṃ ca prabravīmi te

33.21

अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति

apetaṃ brāhmaṇaṃ vṛttādyo hanyādātatāyinam |
na tena brahmahā sa syānmanyustanmanyumṛcchati

33.22

प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि ।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति

prāṇātyaye tathā jñānādācaranmadirāmapi |
ādeśito dharmaparaiḥ punaḥ saṃskāramarhati

33.23

एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् ।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति

etatte sarvamākhyātaṃ kaunteyābhakṣyabhakṣaṇam |
prāyaścittavidhānena sarvametena śuddhyati

33.24

गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम् ।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः

gurutalpaṃ hi gurvarthaṃ na dūṣayati mānavam |
uddālakaḥ śvetaketuṃ janayāmāsa śiṣyataḥ

33.25

स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते ।
बहुशः कामकारेण न चेद्यः संप्रवर्तते

steyaṃ kurvaṃśca gurvarthamāpatsu na niṣidhyate |
bahuśaḥ kāmakāreṇa na cedyaḥ saṃpravartate

33.26

अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति ।
स्वयमप्राशिता यश्च न स पापेन लिप्यते

anyatra brāhmaṇasvebhya ādadāno na duṣyati |
svayamaprāśitā yaśca na sa pāpena lipyate

33.27

प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च ।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च

prāṇatrāṇe'nṛtaṃ vācyamātmano vā parasya ca |
gurvarthe strīṣu caiva syādvivāhakaraṇeṣu ca

33.28

नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन ।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते

nāvartate vrataṃ svapne śukramokṣe kathaṃcana |
ājyahomaḥ samiddhe'gnau prāyaścittaṃ vidhīyate

33.29

पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा ।
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम्

pārivittyaṃ tu patite nāsti pravrajite tathā |
bhikṣite pāradāryaṃ ca taddharmasya na dūṣakam

33.30

वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत् ।
भ्रनुग्रहः पशूनां हि संस्कारो विधिनोदितः

vṛthā paśusamālambhaṃ naiva kuryānna kārayet |
bhranugrahaḥ paśūnāṃ hi saṃskāro vidhinoditaḥ

33.31

अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् ।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम्

anarhe brāhmaṇe dattamajñānāttanna dūṣakam |
satkārāṇāṃ tathā tīrthe nityaṃ vā pratipādanam

33.32

स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका ।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति

striyāstathāpacāriṇyā niṣkṛtiḥ syādadūṣikā |
api sā pūyate tena na tu bhartā praduṣyati

33.33

तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान् ।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्

tattvaṃ jñātvā tu somasya vikrayaḥ syādadoṣavān |
asamarthasya bhṛtyasya visargaḥ syādadoṣavān

33.34

वनदाहो गवामर्थे क्रियमाणो न दूषकः ।
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति

vanadāho gavāmarthe kriyamāṇo na dūṣakaḥ |
uktānyetāni karmāṇi yāni kurvanna duṣyati

33.35

प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत ।
यानि कृत्वा नरः पूतो भविष्यति नराधिप

prāyaścittāni vakṣyāmi vistareṇaiva bhārata |
yāni kṛtvā naraḥ pūto bhaviṣyati narādhipa

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)