शान्ति पर्व

अध्याय 32: व्यास द्वारा प्रायश्चित्त रूप में अश्वमेध का विधान

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि द्वात्रिंशोऽध्यायः ॥

36 श्लोक · 32 में से 372

इस अध्याय में क्या होता है

व्यास द्वारा प्रायश्चित्त रूप में अश्वमेध का विधान

व्यास युधिष्ठिर से कहते हैं कि विषाद मत करो। क्षत्रिय यश चाहते हुए अपने धर्म से मरे; उन्हें न तुमने मारा, न भीम, अर्जुन या नकुल-सहदेव ने, बल्कि काल ने, जो सब कर्मों का साक्षी है और यन्त्र की तरह प्राणियों से प्राणियों को मरवाता है। प्राचीन काल में बड़े भाई असुरों ने छोटे भाई देवताओं से बत्तीस हज़ार वर्ष युद्ध किया, और देवताओं ने उन्हें तथा उनका साथ देने वाले अठासी हज़ार अभिमानी ब्राह्मणों, शालावृकों, को मारा। कुछ धर्म अधर्म जैसा दिखता है और कुछ अधर्म धर्म जैसा। जो जान-बूझकर निर्लज्ज होकर पाप करे उसका प्रायश्चित्त नहीं, पर तुमने अनिच्छा से किया और पछताते हो। अश्वमेध करो, मारे गए राजाओं के पुत्रों और स्वजनों का अभिषेक करो, जहाँ पुत्र न हो वहाँ कन्याओं का अभिषेक करो।

वैशंपायन उवाच

32.1

युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा ।
परीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम्

yudhiṣṭhirasya tadvākyaṃ śrutvā dvaipāyanastadā |
parīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam

व्यास उवाच

32.2

मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मरन् ।
स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ

mā viṣādaṃ kṛthā rājankṣatradharmamanusmaran |
svadharmeṇa hatā hyete kṣatriyāḥ kṣatriyarṣabha

32.3

काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च मबद्यशः ।
कृतान्तविधिसंयुक्ताः कालेन निधनं गताः

kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mabadyaśaḥ |
kṛtāntavidhisaṃyuktāḥ kālena nidhanaṃ gatāḥ

32.4

नृ त्वं हन्ता न भीमोऽयं नार्जुनो न यमावपि ।
कालः पर्यायधर्मेण प्राणानादत्त देहिनाम्

nṛ tvaṃ hantā na bhīmo'yaṃ nārjuno na yamāvapi |
kālaḥ paryāyadharmeṇa prāṇānādatta dehinām

32.5

न तस्य मातापितरौ नानुग्राह्यो हि कश्चन ।
कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः

na tasya mātāpitarau nānugrāhyo hi kaścana |
karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ

32.6

हेतुमात्रमिदं तस्य विहितं भरतर्षभ ।
यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम्

hetumātramidaṃ tasya vihitaṃ bharatarṣabha |
yaddhanti bhūtairbhūtāni tadasmai rūpamaiśvaram

32.7

कर्म मूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः ।
सुखदुःखगुणोदर्कं कालं कालफलप्रदम्

karma mūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ |
sukhaduḥkhaguṇodarkaṃ kālaṃ kālaphalapradam

32.8

तेषामपि महाबाहो कर्माणि परिचिन्तय ।
विनाशहेतुकानि त्वं यैस्तै कालवशं गताः

teṣāmapi mahābāho karmāṇi paricintaya |
vināśahetukāni tvaṃ yaistai kālavaśaṃ gatāḥ

32.9

आत्मनश्च विजानीहि नियतव्रतशीलताम् ।
यदा त्वमीदृशं कर्म विधिनाऽऽक्रम्य कारितः

ātmanaśca vijānīhi niyatavrataśīlatām |
yadā tvamīdṛśaṃ karma vidhinā''kramya kāritaḥ

32.10

त्वष्ट्रेव विहितं यन्त्रं यथा चेष्टयितुर्वशे ।
कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत्

tvaṣṭreva vihitaṃ yantraṃ yathā ceṣṭayiturvaśe |
karmaṇā kālayuktena tathedaṃ bhrāmyate jagat

32.11

पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः ।
यदृच्छया विनाशं च शोकहर्षावनर्थकौ

puruṣasya hi dṛṣṭvemāmutpattimanimittataḥ |
yadṛcchayā vināśaṃ ca śokaharṣāvanarthakau

32.12

व्यलीकमपि यत्त्वत्र चित्तवैतंसिकं तव ।
तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर

vyalīkamapi yattvatra cittavaitaṃsikaṃ tava |
tadarthamiṣyate rājanprāyaścittaṃ tadācara

32.13

इदं तु श्रूयते पार्थ युद्धे देवासुरे पुरा ।
असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः

idaṃ tu śrūyate pārtha yuddhe devāsure purā |
asurā bhrātaro jyeṣṭhā devāścāpi yavīyasaḥ

32.14

तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः ।
युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल

teṣāmapi śrīnimittaṃ mahānāsītsamucchrayaḥ |
yuddhaṃ varṣasahasrāṇi dvātriṃśadabhavatkila

32.15

एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् ।
जघ्नुर्दैत्यांस्तथा देवास्त्रिदिवं चाभिलेभिरे

ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām |
jaghnurdaityāṃstathā devāstridivaṃ cābhilebhire

32.16

तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः ।
संश्रिता दानवानां वै साह्यार्थं दर्पमोहिताः

tathaiva pṛthivīṃ labdhvā brāhmaṇā vedapāragāḥ |
saṃśritā dānavānāṃ vai sāhyārthaṃ darpamohitāḥ

32.17

शालावृका इति ख्यातास्त्रिषु लोकेषु भारत ।
अष्टाशीतिसहस्राणि ते चापि विबुर्धैर्हताः

śālāvṛkā iti khyātāstriṣu lokeṣu bhārata |
aṣṭāśītisahasrāṇi te cāpi viburdhairhatāḥ

32.18

धर्मव्युच्छित्तिमिच्छतो येऽधर्मस्य प्रवर्तकाः ।
हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्वणाः

dharmavyucchittimicchato ye'dharmasya pravartakāḥ |
hantavyāste durātmāno devairdaityā ivolvaṇāḥ

32.19

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।
कुलं हत्वा च राष्ट्रे च न तद्वृत्तोपघातकम्

ekaṃ hatvā yadi kule śiṣṭānāṃ syādanāmayam |
kulaṃ hatvā ca rāṣṭre ca na tadvṛttopaghātakam

32.20

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप ।
धर्मरूपो ह्यधर्मश्च तच्च ज्ञेयं विपश्चिता

adharmarūpo dharmo hi kaścidasti narādhipa |
dharmarūpo hyadharmaśca tacca jñeyaṃ vipaścitā

32.21

तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव ।
देवैः पूर्वगतं मार्गमनुयातोऽसि भारत

tasmātsaṃstambhayātmānaṃ śrutavānasi pāṇḍava |
devaiḥ pūrvagataṃ mārgamanuyāto'si bhārata

32.22

न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ ।
भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परंतप

na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha |
bhrātṝnāśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa

32.23

यो हि पापसमारम्भे कार्ये तद्भावभावितः ।
कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः

yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ |
kurvannapi tathaiva syātkṛtvā ca nirapatrapaḥ

32.24

तस्मिंस्तत्कलुषं सर्वं समस्तमिति शब्दितम् ।
प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः

tasmiṃstatkaluṣaṃ sarvaṃ samastamiti śabditam |
prāyaścittaṃ na tasyāsti hrāso vā pāpakarmaṇaḥ

32.25

त्वं तु शुक्लाभिजातीयः परदोषेण कारितः ।
अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे

tvaṃ tu śuklābhijātīyaḥ paradoṣeṇa kāritaḥ |
anicchamānaḥ karmedaṃ kṛtvā ca paritapyase

32.26

अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् ।
तमाहर महाराज विपाप्मैवं भविष्यसि

aśvamedho mahāyajñaḥ prāyaścittamudāhṛtam |
tamāhara mahārāja vipāpmaivaṃ bhaviṣyasi

32.27

मरुद्भिः सह जित्वाऽरीन्भगवान्पाकशासनः ।
एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः

marudbhiḥ saha jitvā'rīnbhagavānpākaśāsanaḥ |
ekaikaṃ kratumāhṛtya śatakṛtvaḥ śatakratuḥ

32.28

धूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् ।
मरुद्गणैर्वृतः शक्रः शुशुभे भासयन्दिशः

dhūtapāpmā jitasvargo lokānprāpya sukhodayān |
marudgaṇairvṛtaḥ śakraḥ śuśubhe bhāsayandiśaḥ

32.29

स्वर्गे लोके महीयन्तमप्सरोभिः शचीपतिम् ।
ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम्

svarge loke mahīyantamapsarobhiḥ śacīpatim |
ṛṣayaḥ paryupāsante devāśca vibudheśvaram

32.30

सेयं त्वामनुसंप्राप्ता विक्रमेण वसुंधरा ।
निर्जिताश्च महीपाला विक्रमेण त्वयाऽनध

seyaṃ tvāmanusaṃprāptā vikrameṇa vasuṃdharā |
nirjitāśca mahīpālā vikrameṇa tvayā'nadha

32.31

तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वॄतः ।
भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वेस्वे राज्येऽभिषेचय

teṣāṃ purāṇi rāṣṭrāṇi gatvā rājansuhṛdvṝtaḥ |
bhrātṝnputrāṃśca pautrāṃśca svesve rājye'bhiṣecaya

32.32

बालानपि च गर्भस्थान्सांत्वेन समुदाचरन् ।
रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुंधराम्

bālānapi ca garbhasthānsāṃtvena samudācaran |
rañjayanprakṛtīḥ sarvāḥ paripāhi vasuṃdharām

32.33

कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय ।
कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यसि

kumāro nāsti yeṣāṃ ca kanyāstatrābhiṣecaya |
kāmāśayo hi strīvargaḥ śokamevaṃ prahāsyasi

32.34

एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत ।
यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा

evamāśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata |
yajasva vājimedhena yathendro vijayī purā

32.35

अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ ।
स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः

aśocyāste mahātmānaḥ kṣatriyāḥ kṣatriyarṣabha |
svakarmabhirgatā nāśaṃ kṛtāntabalamohitāḥ

32.36

अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकण्टकम् ।
रक्ष स्वधर्मं कौन्तेय श्रेयान्यः प्रेत्यभाविकः

avāptaḥ kṣatradharmaste rājyaṃ prāptamakaṇṭakam |
rakṣa svadharmaṃ kaunteya śreyānyaḥ pretyabhāvikaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)