यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि ।
यमानुपूर्व्यशः प्रोक्तान्येवमाह
yadapyuktaṃ kati tatvāni bhavanti tatvametāni |
yamānupūrvyaśaḥ proktānyevamāha
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकत्रिशततमोऽध्यायः ॥
8 श्लोक · 328 में से 372
आठ श्लोकों का छोटा अध्याय, अधिकतर गद्य, जिसमें आसुरि को कपिल के उत्तर चलते हैं। कपिल कहते हैं कि तत्त्व क्रम से बता दिए गए हैं, और जो उन्हें इस प्रकार जानता है वह पाप से लिप्त नहीं होता। आदि और मध्य तत्त्व पूछे जाने पर वे कहते हैं कि बुद्धि से लेकर विशेष भूतों तक तेईस तत्त्व आदि और मध्य जानने चाहिए। ब्राह्मण, क्षत्रिय, वैश्य, शूद्र या चाण्डाल नाम वाले विशेष शरीर उन्हीं के अन्तिम रूप हैं, उन्हीं से तत्त्व उपजते हैं और उन्हीं में लीन होते हैं। मैं कहने वाली देह अव्यक्त से अधिष्ठित है। चौबीस को जानने वाला अव्यक्त में टिकता है, पच्चीस को जानने वाला उस पर अधिष्ठान करता है।
कपिल उवाच
यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि ।
यमानुपूर्व्यशः प्रोक्तान्येवमाह
yadapyuktaṃ kati tatvāni bhavanti tatvametāni |
yamānupūrvyaśaḥ proktānyevamāha
तत्वान्यथोक्तानि । तथाविद्यो निबुद्ध्यते ।
न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात्
tatvānyathoktāni | tathāvidyo nibuddhyate |
na sa pāpena lipyeta nirmuktaḥ sarvasaṃkarāt
यदप्युक्तं इहाद्यं मध्यमं च तत्वानामित्यत्र ब्रूमः
yadapyuktaṃ ihādyaṃ madhyamaṃ ca tatvānāmityatra brūmaḥ
एवमाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येव मामकेनेत्यत्रोच्यते
evamādyaṃ madhyamaṃ coktaṃ buddhyādīni trayoviṃśatitatvāni viśeṣaparyavasānāni jñātavyāni bhavantītyeva māmakenetyatrocyate
तदेव तद्यदा दत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि एतदाद्यं मध्यमं च । एतस्मात्तत्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते । केचिदाहुराचार्याः
tadeva tadyadā dattabrāhmaṇakṣatriyavaiśyaśūdracaṇḍālapulkasādiretāni jñātavyāni buddhyādīni viśeṣaparyavasānāni mantavyāni pratyetavyābhyuktāni etadādyaṃ madhyamaṃ ca | etasmāttatvānāmutpattirbhavati atra pralīyante | kecidāhurācāryāḥ
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु व्यक्तमव्यक्ताधिष्ठितमेतद्देवदत्तसंज्ञकम्
ahamityetadātmakaṃ saśīrasaṅghātaṃ triṣu lokeṣu vyaktamavyaktādhiṣṭhitametaddevadattasaṃjñakam
योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्वानां प्रतिबुध्यमानयोर्व्यतिरिक्तं शुचिव्यभ्रमित्याहुराचार्याः । एवमाह
yogadaśamapuruṣadarśanānāṃ tu pañcaviṃśatitatvānāṃ pratibudhyamānayorvyatiriktaṃ śucivyabhramityāhurācāryāḥ | evamāha
चतुर्विशतितत्वज्ञस्त्वव्यक्ते प्रतितिष्ठति ।
पञ्चविंशतितत्वज्ञोऽप्यव्यक्तमधितिष्ठति
caturviśatitatvajñastvavyakte pratitiṣṭhati |
pañcaviṃśatitatvajño'pyavyaktamadhitiṣṭhati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)